SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३८ सत्यहरिश्चन्द्रनाटकम् । मांत्रिका-(मंडलमध्ये स्थित्वा उच्चैःवरम्) ॐ ह्रीं हां बलिविद्विषो भगवतः स्वाहा वषट् वह्नये वौषट् प्रेतकुलेश्वरस्य सततं क्रव्यादभत्रै वषट् । ऐं ह्रीं पाशभृतः स्वधा मुरजिते श्रीदस्य चेशस्य च क्लीं श्रीं पुष्पवतोभुजंगमपतेहुं फट् ग्रहाणां च हुं ॥ ३ ॥ (नेपथ्ये कलकल:) रे रे रक्षांसि वीक्ष्य क्वचिदपि किमपि ग्रासलेशं दध्वं विध्वस्ताशेषशक्तिः क्षणमपि चलितुं नाहमग्रे सहिष्णुः । उग्रक्षुत्क्षामकुक्षेर्जठरशिखिशिखादह्यमानांत्रवल्लयाः सौहित्यं मे विधातुं त्रिभुवनजनताप्यद्य नालं भविष्णुः ॥४॥ मांत्रिक:-भो भो भवद्भिः सर्वैरप्यकुतोभयैर्भाव्यम् । (सर्वे सभयकौतुकमूर्ध्वमवलोकयंति) (ततः प्रविशति लंबमानकेशा कृतावगुंठना गगनादवतरणं नाटयंती युवतिः । सर्वे सभयकौतुकमवलोकयंति) राजा-अमात्य सोऽयं मंत्राणां परः प्रकर्षः । मांत्रिकः-महाराज सेयं राक्षसी बाणारसीलोकं संहरति । लंबस्तनी-(सरोषम्) भट्टा एअं रक्खसिं अहं सहत्थेण मारइस्सं । मांत्रिक:-किमर्थम् । लंबस्तनी-ऐआए मह पुत्ती मारिआ । मांत्रिक:-अलीकमभिदधासि । जीवति ते पुत्री । वामना चेटी--(प्रविश्य) अंजए दिद्विआ गिहीदजीविआ भट्टिणी अणंगलेहा । (लंबस्तनी सहर्ष नृत्यति) राजा-अमात्य अनंगलेखां जीवयिष्यामीति प्रतिज्ञा मांत्रिकेण नियूंढा । अहो सत्यप्रत्ययो मंत्रविधिः । १ भर्तः एतां राक्षसीमहं स्वहस्तेन मारयिष्यामि. २ एतया मम पुत्री मारिता, ३ आर्य दिष्टया प्राप्तजीविता भट्टिनी अनंगलेखा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy