SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः लंबस्तनी - भेट्टा जइ मे बालकालापहुदि अखंडिअमसइ तणं ता तुमं चिरं नंद । मांत्रिक :- महाराज कृतमस्माभिरात्मकरणीयम् । दंडकर्मणि पुनर्महाराजः प्रमाणम् । राजा- - ( विमृश्य) अमात्य श्वपाकमाकारय । सत्यवसुः - कोऽत्र भो अस्मत्परिजनेषु । (शुक पंजरहस्तः पुरुषः प्रविशति ) - पुरुषः- एसी अह्नि । सत्यवसुः -- ( पुरुषस्य कर्णे) एवमेवम् । ( पुरुषः पंजरं विमुच्य निष्क्रांतः) शुकः - स्वस्ति महाराजाय । राजा - ( सकौतुकम् ) अमात्य किमिदम् । सत्यवसुः - देव सर्वकलाकुशलः शुकोऽयम् । (पुनः शुकं प्रति ) विहंगमराज राजानमुप श्लोकय । शुकः -- अमात्य राजानमुप-लोकयामि । सत्यवसुः -- अथ किम् । शुक: ३९ दर्पाध्मातविरोधिभूपतिभुजाकंडूभिषङ्मार्गणो देवः काशिमहीपतिः कलयतु श्रेयांसि तेजांसि च । यात्रां यस्य मदांधकुंजरघटाघंटाटणत्कारिणः काष्ठांताः प्रतिराजवेश्मसु पुरः शंसंति पश्चाच्चराः || ५ || राजा - ( सकौतुकम् ) विहंगमराज किमधीतवानसि । शुकः व्याकरणेऽहमधीती पठिती चाणक्यभरतकाव्येषु । आम्नाती श्रुतितर्कस्मृतिगणितपुराणशास्त्रेषु ॥ ६ ॥ राजा - (विहस्य) विहंगमराज निःशेषवेश्याचक्रचक्रवर्तिनीमेतां लंबस्तनीमुप श्लोकय । १ भर्तः यदि मे बालकालप्रभृत्यखंडितमसतीत्वं तदा त्वं चिरं नंद, २ एषोऽस्मि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy