________________
... पञ्चमोऽङ्कः। सत्त्वं सात्त्विकचंद्र मुंच सपदि क्लेशावहां क्ष्मामिमा_____मात्मानं विनिमोचयंस्तु परतो लज्जे न तु क्षत्रिय ॥ १० ॥
हरिश्चंद्रः-सात्त्विककुमार यत एव क्षत्रियोऽसि तत एव ना. थिजनमनोरथं व्यर्थयितुमर्हसि । ततः प्रसीद समनुभव साम्राज्यसुखं कृतार्थय मे बाल्यात् प्रभृति दुःस्थितस्य मनुजलोकावतरणम् ।
वनिता-अजउत्त जं एस महप्पा विण्णवेदि तं पडिवद्यस्व । पुरुषः-(निशम्य)
स्वमेकः पररक्षार्थ विनिहंति विपत्तिषु ।
स्वरक्षार्थ परं त्वन्यश्चित्रं चित्रा मनःस्थितिः ॥ ११ ॥ भवतु । महासत्त्व मोचय मां तर्हि ।
(हरिश्चंद्रः सरोमांचं पुरुषं बंधनाद्विमुच्यात्मानं तथा बध्नाति) पुरुषः-(पुरो भूत्वा प्रणम्य) महासत्त्व प्राणदानवेतनेन क्रीतोऽहं भवता । ततः समयोचितं प्रार्थयस्व पताकिनं हस्तिनं वाजिनं का चनं वा । न चैतावतात्मनि त्वया तिरस्कारः कोऽपि विचिंतनीयः ।
कमलानामुल्लासं करोतु तपनो निहंतु शीतांशुः ।
तदपि परतापहर्तुः शीतांशोरुज्वलोऽभ्युदयः ॥ १२ ॥ 'नाप्येतावतैव मे गौरवम् ।।
तेन कश्चन न गुरुर्लघुर्वापि न कश्चन ।
उचितानुचिताचारवश्ये गौरवलाघवे ॥ १३ ॥ हरिश्चंद्रः-कुमार नाहं परतः किमप्यर्थये । एतत्पुनरभिलषामि सत्वरमपसरतु भवान् । अपरथा यदि सा खेचरी समायास्यति तदा भवतः किमप्यमंगलं विधास्यति ।
(नेपथ्ये) मंजीराणि यथा रणंति बहलः कोलाहलः खेचरी___ चक्रस्यैष यथा यथा च वियति ज्योतिः समुज्जृभते । दिव्यः कोऽपि निरर्गलः परिमलः प्रत्याशभासी यथा
गंगास्रोतसि सा निमज्य खचरी जाने निवृत्ता तथा ॥१४॥ १ आर्यपुत्र यदेष महात्मा विज्ञापयति तत् प्रतिपद्यख.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org