SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रनाटकम् | हरिश्चंद्रः -- यदेवाधातुमलं भविष्णुर्भवान् तदेवाहमर्थयिष्ये । पुरुषः- अभिधीयतां तर्हि । ४८ हरिश्चंद्र : – अनुभवतु राज्यसंपदं भवान् । अहमेवत्वयाधेयं कर्म व्योमचारिण्या विद्याधर्याः संपादयिष्यामि । - पुरुषः- ( साकम् ) अहो श्रोतव्यमश्रोतव्यम् । महासत्त्व किमेवमभिदधासि । स्वस्मिन् प्रेम यथा ममास्ति भवतोप्यस्त्येव सत्यं तथा मृत्योर्भीरुरहं यथा त्वमपि च व्यक्तं महात्मंस्तथा । अस्त्येषा दयिता यथा मम तथा तेऽप्यस्ति काचित्ततः स्वप्राणांस्तव जीवितेन हतकान् मे रक्षतः कोनयः ॥ ७ ॥ हरिश्चंद्रः – महाभाग आबाल्याद्दारिद्योपहतमनाः स्वयमेव मृत्युं स्पृहयालुरहम् । न मे भार्यापि बांधवास्तिष्ठति । पुरुष : - महाभाग इदमेव परोपकारव्यसनमावेदयति । न ते दारिद्र्यपंकपंकिलं वपुः । अपि च तावत्कृतांतवने गत एव सोहं स्वैरी सुखी च स भवानकुतोभयश्च । यायावरं मम वपुस्तव शाश्वतेन संरक्षतश्च वपुषा किल कोविवेकः ॥ ८ ॥ हरिश्चंद्र : व्याध्याधिजर्जरजरामरणाभिताप पातैः कुतः कथय शाश्वतिकं वपुर्मे । प्रग्लास्नुना तदमुना भुवि संचरिष्णुः कीर्ति लभेय यदि कोन ममाद्य लाभः ॥ ९ ॥ द्विधेहि प्रसादम् । अनुगृहाण माम् । समर्थय प्रार्थनाम् । अर्थिमनोरथसमर्थनबंधनाहि महात्मनां प्रवृत्तयः । पुरुषः- (साच विमृश्य) प्राणत्राणकृते ममैवमधुना प्राणान् निजान् संत्यजवीराग्रेसर गाढवानसि महासत्त्वोचिता मौचितीम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy