SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः । वनिता —– अकारणवच्छलो कोऽपि एस महप्पा । तउ एअस्स पत्थणं संभवेदु अज्जउत्तो । पुरुषः- महाभाग श्रृणु तर्हि । चंद्रशेखरस्य कासिवसुंधराधिपतेर्महासेननामा राज्यार्धः कुमारोहम् । इदानीमेव चंद्रशालायामनया सह सुखं पर्यकनिषण्णः कयापि खेचरवृंदपरिवृतया विद्याधरवनितयापहृत्याश्रमपदमिदमानीतः । हरिश्चंद्र :- अहो भयंकरश्चरितसंनिवेशः । पुरुषः -- ततः परां च विधुरामवस्थां भवानपि पश्यति । हरिश्चंद्र ः—– किमर्थं पुनरिदमनार्य कर्म विद्याधर्याः । पुरुषः- महामांसेन होमार्थम् । हरिश्चंद्र : - संप्रति विद्याधरी वर्तते । पुरुषः- गंगास्रोतसि स्नातुं गतास्ति । हरिश्चंद्र : - (स्वगतम्) दत्ता यन्मुनये महीभृतकतां नीतोनिषादस्य च स्वात्मायं किमनेन बाह्यवपुषा सत्यं च सत्त्वं च मे । प्राणैः स्वैर्यदि रक्षितुं पुनरिमैः प्राणानमुष्यक्षमा तत्सत्येषु च सात्विकेषु च तदा काचित्पताका मम ॥ ५ ॥ अपि च । कतिपयदिनावशेषा मे भृतकभावाः । ततः स्वामिवंचनापि न काचित् । (प्रकाशम् ) कुमार न जातौ न जनिष्येते द्वाविमौ पुरुषौ भुवि । आर्थितो यः करोत्येव यश्च नार्थयते परम् ॥ ६ ॥ ४७ पुरुषः -- ततः किम् । हरिश्चंद्र : -- यदि प्रार्थनां विफलयसि न मे तदा किमपि प्रार्थये । पुरुष : – (निःश्वस्य) महाभाग विगतकोशपरिच्छदः सांप्रतमहं न प्रार्थनां समर्थयितुमलम् । १ अकारणवत्सलः कोप्येष महात्मा । तदैतस्य प्रार्थनां संभावयत्वार्यपुत्र:. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy