________________
सत्यहरिश्चन्द्रनाटकम् ।
हरिश्चंद्रः-व्यक्तमियं व्यापाद्यमानभूपतेः कस्यापि दयिता । भवतु पृच्छामि तावत् । (उपसृत्य) भद्रे का त्वं किमर्थं रोदिषि ।
वनिता-महाभाय में मंदभाइणिं किं पुच्छसि । सयमेव अग्गउ भविअ जाणेहि अह्माणं अवत्थं ।
हरिश्चंद्र:-(पुरो विलोक्य साशंकम्) ऊौँ पादौ निबद्धावथ वदनमधः केशपाशः प्रलंबी
रक्तश्रीखंडचर्चा वपुषि च कुसुमैः पाटलैर्मुडमाला । कापालं श्रोणिदामज्वलितहुतभुजस्त्रीणि कुंडानि पार्थे न्यग्रोधस्कंधशाखाशिखरनियमितः कोऽयमग्रे मनुष्यः ॥३॥
(ततः प्रविशति यथानिर्दिष्टो रमणीयाकृतिस्तरुणपुरुषः) पुरुषः-(निःश्वस्य) कष्टं भोः कष्टम् । सौधांकादुपहारलक्षणधुरं होमार्थमत्रानये
धन्मां व्योमचरी तदस्तु पुरुषः सोहं सहिष्येऽखिलम् । एतां बालमृणालकोमलतनुं कांतां वराकी लस__ त्रासाल्लोलविलोचनां हृतवती व्यर्थ किमर्थं तु सा ॥ ४ ॥
वनिता--(सकरुणम् हरिश्चंद्रं प्रति) महाभाय निरूविदा तए अवत्था।
हरिश्चंद्र:-(स्वगतम्) निश्चितमियमस्य महात्मनो दयिता । (प्रकाशं पुरुषं प्रति) महाभाग नायमवसरो वृत्तांतश्रवणस्य । तथापि तामिमां रमणीयतमामाकृतिं भवतो विलोक्य वृत्तांतं जिज्ञासुरस्मि। तदादिश । को भवान् किंनिबंधना चेयमवस्था दुःस्था ।
पुरुषः-(निशम्य) महापुरुष महती ममेयं कथा श्रूयमाणापि कातरचेतसां महांतमातंकमावहति । न चानया कथितयापि कुतोऽपि परित्राणमस्यां च दुःस्थायामवस्थायाम् । आत्मनश्चरितमावेदितं केवलं दैन्यमेव प्रथयति । ततः किममुना ते वृत्तांतश्रवणव्यसनेन । अपसर त्वरितमस्मादपायस्थानात् ।
१ महाभाग मां मंदभागिनी किं पृच्छसि । स्वयमेवाग्रतो भूत्वा जानीह्यस्माकमवस्थाम्. २ महाभाग निरूपिता त्वयाऽवस्था.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org