SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । सुतारा - 'जं भोइ तं भोउ । अहं आगमिस्सं । । राजा त्यजन् हेम्नो लक्ष्यं चतुरधिकांचीं च वसुधां सुधां भोभिः स्नानादपि समधिकां प्रीतिमभजम् । सवत्सामेतां तु प्रवसनपरां वीक्ष्य दयिता मिदानीं मन्येऽहं ज्वलद्नललीढं वपुरदः ॥ २४ ॥ (नेपथ्ये) असूर्यं पश्यायाः प्रकटमिदमालोक्य सहसा सदस्यगं देव्याः शिबिनृपतिदुग्धार्णवभुवः । अयं तिग्माभी शुर्भरतकुलमूलप्रसविता वधूगात्रस्पर्शाच्चकितचकितः कर्षति करान् ॥ २५ ॥ कुलपतिः - (ऊर्ध्वमवलोक्य) कथं प्रदोषसंध्यावसानसमयः । महाराज व्रजामो वयमाश्रमम् । राजा --- विजयंतां कुलपतिमिश्राः । कपिंजल अनुव्रज मुनीन् । (कुलपतिरंगारमुख कपिंजलाभ्यां सह निष्क्रांतः) राजा- - ( वणिजः प्रति अंजलिं बद्धा) क्रोधोद्बोधवशाच्चिरं परिचयादुग्रप्रतापोद्धुरस्कंधाभोगभरात्सविस्तरमदादुल्लंघशाठ्यादथ । राज्यश्रीप्रणयोन्मदिष्णुहृदयस्फारमयोच्छृंखलै रस्माभिर्यदि किंचिदप्यपकृतं तत् क्षाम्यत क्षाम्यत ॥ २६ ॥ (सर्वे रुदंति ) राजा - ( अलं रुदितेन) व्रजत स्वस्थानं यूयम् । वयमपि देशांतराय संरभामहे । (इति निष्क्रांताः सर्वेऽपि ) द्वितीयोऽङ्कः समाप्तः ॥ १ यद्भवति तत् भवतु | अहमागमिष्यामि . Jain Education International २३ For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy