________________
तृतीयोऽङ्कः। (ततः प्रविशति राजा सुतारा रोहिताश्वश्च) राजा-(विलोक्य) कथं प्रभातप्राया रजनिः। देवि पश्य पश्य । विश्वंभराभरवियोगवतो ममैव
सत्त्वं विलोकयितुमुत्सुकपादचारः । तिग्मांशुवंशविनिवेशनिदानमेष
पूषाधिरोहति शिखामुदयाचलस्य ॥ १ ॥ सुतारा-(सखेदम्) अजउत्त कित्तिअं अज्जवि गंतव्यं ।
राजा--देवि पर्याप्त एव पंथाः । प्राप्ता वयं वाराणसीम् । पश्यति न देवी पुरः पुरस्याभिज्ञानानि वापीनिकेतनापणवनचैत्यादीनि ।
सुतारा—(निःश्वस्य) अजउत्त मग्गपरिलंबणेण परिसंतमि ।
राजा--(विलोक्य) नक्तंदिनं चरणचंक्रमणेन परिश्रांता देवी । तदा भागीरथीशीकरनिकरव्यतिकरसांद्रस्तबकस्यास्य चंपकस्य मूले विश्राम्यतु देवी।
(राजा सुतारा रोहिताश्वश्च सखेदं निषीदंति) राजा-संवाहयामि चरणचंक्रमणेन बालमृणालकोमलानि सुचिरमायासितानि ते अंगानि । चरणतलाभ्यां च दर्भाकुरमपनयामि ।
(सुतारा मंद मंदमधोमुखी रोदिति) रोहिताश्वः–ताय कंटकेण विद्धो मे पाऊं।
राजा--(सकरुणम्) पुत्र कंटकेन पादकस्ते विद्धः । उपनय पादकम् । येन कंटकमपनयामि ।
(नाट्येन कंटकमपनयति) रोहिताश्वः—(सास्रम् ) ताय बुभुख्किउमि ।
राजा-(ससंरंभम्) वत्स त्वां बुभुक्षा बाधते । कोऽत्र भोः । अये उपनय वत्साय मोदकम् । (विलोक्य सलजम्) कथमग्रतो न कोऽपि पार्श्वतोऽपि न कश्चित् ।
१ आर्यपुत्र कियदद्यापि गंतव्यम्. २ आर्यपुत्र मार्गपरिलंबनेन परिश्रांतास्मि. ३ तात कंटकेन विद्धो मे पादः. ४ तात बुभुक्षितोऽस्मि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org