SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । सुतारा - अज्जउत्त किं नेदं । राजा - देवि पूर्वसंस्कारो विप्लावयति । रोहिताश्वः - अंब बुभुकिउ । (सुतारा सवाष्पमधोमुखी तिष्ठति ) । रोहिताश्वः - अंब बुभुकिउ सुतारा - चक्कवट्टिपुत्तलख्कणसमलंकिअसरीरस्स भरदकुलजादस्स दे किं एदमुवत्थिदं । ( उच्चैः स्वरं रोदिति) राजा किं देवि ताम्यसि विषीदसि किं कथं च संतप्यसे स्मरसि किं नृपतिस्थितीनाम् । सत्यव्रताचरणपीवरगौरवाणां निष्कंटकं मृगघने विपिनेऽपि राज्यम् ॥ २ ॥ रोहिताश्वःतीय बुभुकिउ | राजा - (स्वगतम्) कुतूहलदर्शनेनात्यंतरयाम्यस्य चेतः । (प्रकाशम्) वत्स पश्य । गंगेयं कलहंसिकेयमपरा सेयं लघुः सारसी कोकद्वंदमिदं शुकोऽयमपरः सोऽयं कलः कोकिलः । नृत्यत्येष मुहुः कलापवलयं व्याधूनयन् बर्हिणः कांतां मंद्ररुतस्तथैष परितः पारावतो नृत्यति ॥ ३ ॥ रोहिताश्वः - ऐसा गंगा । राजा --- वत्स एषा गंगा । रोहिताश्वः - एैसा कलहंसिआ । राजा -वत्स एषा कलहंसिका । रोहिताश्वः - तीय बुभुकिउमि । राजा - वत्स क्षणं मर्पय यावत्पुरीं प्रविशामः । २९ Jain Education International १ आर्यपुत्र किंन्विदम्. २ ३५ तात बुभुचितोऽस्मि ४ चक्रवर्तिपुत्रलक्षणसमलंकृतशरीरस्य भरतकुलजातस्य ते किमिदमुपस्थितम्. ६ एषा गंगा. ७ एषा कलहंसिका ८ तात बुभुक्षितोऽस्मि. For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy