SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रनाटकम् | रोहिताश्वः - तीय न सक्केमि विलंबिउं । अयिचिरं बुभुखिक उह्नि । अंब मोअगे देहि मे । २६ राजा - ( सबाष्पम् ) राज्यस्य तस्य चतुरर्णवकूलमूलसंक्रांतकांतयशसः फलितं तदेतत् । वत्सस्य ताररुदितध्वनिशुष्कतालोर्यप्रातराशकवलोपनयेप्यशक्तिः ॥ ४ ॥ भवतु तावदेनां वृद्धां न्यध्वगां पुरीप्रवेशमार्गं पृच्छामि । (ततः प्रविशति मूर्ध्निकृतपाथेयभांडा वृद्धा) राजा - आर्ये देशांतरिणो मार्गानभिज्ञा वयम् । तदावेदय पुरीप्रवेशसरणीम् । वृद्धा - महाभाय चक्कवट्टिलक्खणाई दे सरीरयह्नि । इदिसी अवत्था । ता किंणेदं । राजा - आये अवस्थाविरुद्ध मस्मच्चरितमश्रद्धेयम् । ततः किं तेन ज्ञातेन । रोहिताश्वः -- तौय बुभुकिउह्नि । वृद्धा - (सकरुणम्) त्तय गिव्ह एवं मे भोअणं (पाथेयमर्पयति ) राजा - आर्ये न वयं परतोऽनुकंपाभोजनमभिलषामः । वृद्धा - जई एव ता एइणा मग्गेण पुरं वच्च । (इत्यभिधाय निष्क्रांता ) राजा - यद्यपेतश्रमासि तदा पुरीं प्रविशामः । सुतारा - (सास्रम् ) अपरिभट्ट [ र अपरिब्भट्ठो] रिउउललज्जो एकहं पुरं पविसिऊं सक्कस्सदि अज्जउत्तो । राजा- - (सावष्टंभम् ) १ तात न शक्नोमि विलंबितुम् । अतिचिरं बुभुक्षितोऽस्मि | अंब मोदकं देहि मे. २ महाभाग चक्रवर्तिलक्षणानि ते शरीरे । ईदृश्यवस्था । तत् किमिदम्, ३ तात बुभुक्षितोऽस्मि ४ पुत्रक गृहाणैतन्मे भोजनम् ५ यद्येवं तदेतेन मार्गेण पुरं व्रज ६ अपरिभ्रष्ट [ राज्यपरिभ्रष्ट ] रिपुकुललज्ज एकाकी पुरं प्रवेष्टुं शक्ष्यत्यार्य पुत्रः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy