SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सत्यहरिश्चन्द्रनाटकम् | कुलपतिः - ( सरोषम् ) नाहं परिग्रहनिवृत्तमना मुनींद्रो नाप्येष कृत्यविदुरो नृपतिश्च हास्यः । दानांतराय परिबोधितशापसर्प २२ ग्रासीकृतः किमुत रे सचिवाधमस्त्वम् ॥ २१ ॥ अंगारमुख उपनय कमंडलुम् । (अंगारमुखस्तथा करोति) कुलपतिः - अरे वाचाल ! अनुभव मुखरतायाः फलम् । यदि मे सप्रभावं तपस्तदिदानीं शुको भव । ( कमंडलुतश्रुलुकमादाय भूमौ क्षिपति ) (वसुभूतिः शुको भूत्वा नभस्तलमुत्पतितः) सर्वे - ( सभयं प्रणम्य ) परमेश्वर उपसंहर क्रोधम् । समलंकुरु सत्वरमाश्रमम् । एते वयं भवतो वसुंधरामपहाय गता एव देशांतरे । (नेपथ्ये) सप्तार्णवीनिवसनामवनीं गृहीत्वा लक्ष्मीविशेषकममुं दिशतो वनाय । आः पाप तापस किरात कृशानुकीर्णं वज्रं न किं पतति मूर्द्धनि ते नभस्तः || २२ ॥ राजा - (सभयमपवार्य) कपिंजल निवारय पुरलोकम् । अपरथा तापसः क्रत्स्यति । ( कपिंजलो हस्तसंज्ञया वारयति) कुलपतिः -- ( अनाकर्णितेनैव ) त्रैशंकव किमद्यापि विलंब: । राजा - भगवन् एष गत एव । (पुनरंजलिं बद्धा) इक्ष्वाकुक्षितिपालपौरुषकथासाक्षिण्ययोध्ये नमः पौराः सांप्रतमेष वो मुनिरधिष्ठाता गुरुर्दैवतम् । दत्तास्मै यदियं मया वसुमती सप्तार्णवीमेखला भावद्वंश्यभुवां हि भूतलभुजां सत्यत्रतं पालितम् ॥ २३ ॥ ( वणिजो मंद मंदं रुदंति) राजा - देवि अवलंबस्व मद्वचनम् । अत्रैव तिष्ठ । अशिक्षितपादचारा न शक्नोति भवती क्रमितुं दर्भाकुरविधुरासु वनवसुंधरासु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy