________________
द्वितीयोऽङ्कः ।
१५
कुलपतिः -- व्रजामो वयम् । दृष्टं भवतः सत्यं सत्त्वं च । राजा - विलंबध्वं यूयं यावत्कनकमायात्यन्यतः | ( पुनरमात्यस्य कर्णे) एवमेवम् ।
वसुभूतिः - कोऽत्र भोः ।
(प्रविश्य)
पुरुषः- एषोऽस्मि ।
वसुभूति: - ( पुरुषस्य कर्णे) एवमेवम् । ( पुरुषो निष्क्रांतः)
कुलपति:--
पुरी स्पृष्ट्वा क्रांत्वा भुवमुपहतस्तापसविधिमैया तस्मात्कन्याकनकमुपनेतुं भवभृशः । न चेत्त्वां भ्रूणस्त्रीवधकमधिक क्रोधविधुरो
विधास्ये शापोत्थज्वलद्नलभस्मीकृततनुम् ॥ ७ ॥ राजा - ( सभयम् ) अमात्य कोऽयं विलंबः । (प्रविश्य) प्रतीहारः - देव वणिजो द्वारि संति । राजा - शीघ्रं प्रवेशय ।
(आदेश: प्रमाणमित्यभिधाय प्रतीहारो निष्क्रांतः) (ततः प्रविशति कृतोष्णीषाः पंचषा वणिजः )
कुलपति : - (अपवार्य) अंगारमुख वणिजो दिव्येन प्रभावेण निवारय ।
अंगारमुखः पूर्वमेव निवारिताः ।
वसुभूतिः - (वणिजां कर्णे) एवमेवम् ।
वणिजः - ( अपवार्य परस्परम् ) अदोवरं अह्माणं तावसो सामी ता किं हरियंदस्य कणगेण दिनेण ।
राजा - ( सविनयम् )
अधस्ताद्वः पौराः कृत इव मया पाणिरघृणादृणादेतस्मान्मां विरहयत यूयं कथमपि ।
१ अतः परमस्माकं तापसः स्वामी तत् किं हरिश्चंद्रस्य कनकेन दत्तेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org