SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । जंघाल बालचरिताध्वनि साधुवृत्त लुटाक कौकुटिक कर्मसु धार्मिकेषु । वाचाल चाटुषु किमन्यदसत्यसंध संध्याविधिं किमु विहंसि वृथा मृषोद्यैः ॥ १२ ॥ वसुभूतिः -(सरोषमिव कुलपति प्रति) इमैः किमाकस्मिकरोषविप्लुषां भरैः परब्रह्मयः कलंक्यते । भवादृशां विश्वजनीनकर्मणा मनात्मनीना न भवंति वृत्तयः ॥ १३ ॥ कुलपतिः-(सरोषम्) अस्थापितमहत्तर अरे मुखर अस्मत्परब्रह्मचिंतायां कस्त्वमसि । अंगारमुख:--अरे क्षत्रियाधम त्रैशंकव कथंकारमेतमंतरालाभिलापिनं वाचालुबटुं न निवारयसि । राजा-अंगारमुख मुनिरसि विरसानि ब्रूहि सर्वसहोऽस्मि व्रतिषु तरणिवंश्याः कच्चिदूर्जा भजते । रसमृदुलमृणालच्छेदकौतूहलेषु __ स्पृहयति पुरुहूतः किं नु दंभोलिकेलिम् ॥ १४ ॥ अंगारमुख:-नाहं व्रती किंतु व्रतिवेषो ब्रह्मराक्षसः । ततो यदि शक्तिरस्ति तदा प्रहर । __ राजा-(स्वगतम्) किममुना तापसेन सह प्रतिज्ञाविघातकारिणा कलहेन । (प्रकाशम्) कोऽत्र भोः । (प्रविश्य) कपिंजल:-आदिशतु देवः । राजा-कपिंजल अस्मदाभरणानि समानय । अंगारमुखःअस्मकिंकरस्याभरणान्यस्मदीयान्येव । ततस्तान्यासताम् । वसुभूतिः-कुलपते यावदयोध्याधिपतिः कनकलक्षं दातुं प्रभवति तावन्मां गृहाण । यदि वा कनकलक्षमूल्यान् करिणो वाजिनः पताकिनो वा कलय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001893
Book TitleSatyaharishchandranatakam
Original Sutra AuthorRamchandrasuri
AuthorBhaskar Ramchandra Arte, Vishnu Shankar Pauranik
PublisherTukaram Jawaji Mumbai
Publication Year1898
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy