Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
॥ अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।।
॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥
॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥
आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर
Websiet : www.kobatirth.org Email: Kendra@kobatirth.org
www.kobatirth.org
पुनितप्रेरणा व आशीर्वाद
राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
श्री
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक : १
महावीर
श्री महावीर जैन आराधना केन्द्र
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर
कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249
जैन
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।।
॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
अमृतं
आराधना
तु
केन्द्र कोबा
विद्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
卐
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MSMasastestastestastestastasiasteislastasiastastestasiastasiastak
श्रीमोहन-यशःस्मारकग्रन्थमाला-ग्रन्थाङ्कः १० परमसुविहित सुगृहीतनामधेय स्वनामधन्य-विद्वजनमान्य-श्राद्धवर्य-श्रीअम्बप्रसादसङ्कलितं स्वोपज्ञवृत्तिसमलङ्कतं
blable sealestadasaste
नवतत्त्वसंवेदन-प्रकरणम् ।
Meesevababababababa
संशोधकः-परमसुविहित-खरतरगच्छविभूषण-क्रियोद्धारक-श्रीमन्मोहनमुनीश्वरविनेयविनेय-स्वर्गीयानुयोगाचार्य
श्रीमत्केशरमुनिजीगणिवरविनेयो बुद्धिसागरो गणिः प्रकाशक:-मरुधर-फलवद्धिकावास्तव्य-श्रेष्ठिवर्य-किसनलालजी-सम्पतलालजी लूणावत तथा मंगलचंदजी ढड्डा इत्येताभ्यां वितीर्णकिश्चिदनार्थिकसाहाय्यतो मुम्बापुरी-महावीरजिनालयस्थ-श्रीजिनदत्तसूरीजीज्ञानभाण्डागार
कार्यवाहको झवेरी केशरीचन्द्रात्मजो झवेरचन्द्रः। वीरसं० २४७६।] आधे संस्करणे प्रतयः ५०० । निष्क्रय एको रूप्यकः
[विक्रमसं० २००७ । HOROSPERSONAMANARASPREEPROM
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्त्वसं० प्रकरणम् स्वोपनवृत्तिः ।
मुद्रका-शाह गुलाबचंद लल्लुभाइ
महोदय प्रिं.प्रेस-भावनगर.
BEFFER
SREEED
24.14
पादायन्ताक्षरेः प्रतीयमानकविनामगर्मितस्या
न्त्यपद्यस्येदं चक्रम् ।
EFER0
444
अगत्यनी सूचना-आ ग्रंथना मुद्रणमां फलोदी(मारवाड)निवासी दानवीर शेठ श्रीमान् लूणावत किसनलालजी संपतलालजीए रु. २०२), तेमज श्रीमान् मंगळचंदजी ढड्डाए रु. २०१)नी मदद आपी छे, ते बदल आ बन्ने भाग्यशाळीओने अनेकशः धन्यवाद आपवा साथे अन्य धनिकोने पण एमर्नु अनुकरण करीने ज्ञान आराधनानो अमूल्य लाभ लेवा अभ्यर्थना छे. तेम उपर जणाव्या मुजब मदद मळेल होवाथी लागत करतां अल्प किंमत राखी छे. ते आगत रकम पण बीजा अन्थोना मुद्रणादि ज्ञानखातामा ज वापरवानी छे. इति.
++RACTERRORAN
tate
S
AAAAAE
सा।
लि. प्रकाशक.
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HEC
*****
%
%
****
%
*
नवतत्वसंवेदनोपक्रमःअयि भोः सहृदयवराः सज्जनाः ! नाज्ञातचरमेतजिनप्रवचनमर्मज्ञानां, यदुत यथा समुपलभ्यते सार्वीये वाङ्मये जीवादितत्त्वनवकस्वरूपं न तथाऽन्यदीयेषु शास्त्रेषु, तथा चानेकैः प्रत्नतररिवरादिकैर्जिनप्रवचनविद्धरन्धरैईब्धान्यनेकानि ग्रन्थरत्नानि समुपलभ्यन्तेऽद्यापि विभिन्नेषु शास्त्रसन्हेषु, तेष्वेतदप्येकतम ग्रन्थरलं पण्डितश्रीमदम्बप्रसादश्राद्धवरविहितं स्वोपज्ञवृत्तिसमलङ्कतं "नवतत्वसंवेदना"ख्यमन्वर्थाभिधानं भावत्के करकमले सहर्ष समयते, यल्लघीयानप्ययं ग्रन्थो नवतत्त्वसंवेदनाविष्करणेऽनन्यतुलामाबिभर्ति । ___श्राद्धवरश्चायं कतम भूमण्डलं कं च कुलादिकं स्वजन्मना पावयामास ! के के चैतद्व्यतिरिक्ता अन्ये ग्रन्था प्रथिता ! इत्येतजिज्ञासायाः पूरणे नास्ति ममाल्पबुद्धेरवकाशः, तत्तदैतिघसाधनसामग्र्याः ज्ञानादेश्चाप्यभावात् । परन्तु वृत्तेः प्रशस्तिगतेन
"विंशत्यधिकद्वादश-शतेष्वतीतेषु विक्रमसमानाम् । फाल्गुशुक्लनवम्यां, सोमे विवरणमिदं चक्रे ॥२॥" इत्यनेन पद्येन स्पष्टमुक्तं कविना स्वसत्ताकालो वैक्रमीयस्त्रयोदशशताब्द्या आद्यश्चरणः ।
ग्रन्थमानं चास्य मूलग्रन्थस्य श्लोकानां सप्तदशाधिकं शतं, वृत्तेश्च व्यधिकं षड्शतं श्लोकमानं । निष्टङ्कितं चात्र स्वरूपेष्वपि पद्येषु तत्तत्तत्त्वानां स्वरूपसंवेदनं सुचारुतया सुबोधतया चापि । प्रसङ्गागतान्यन्यान्यपि विषयाणि, यथा-चतुरशीतिलक्षजीवायोनिगणना, पिण्डैषणाशुद्धौ द्विचत्वारिंशद्दोषनिरूपणं, अनित्याद्याः सूर्यसम्मिता भावनाः, अष्टादशसहस्रशीलाङ्गरथगणना, इत्याद्या अनेके विषया सुस्पष्टं चर्चिता मूले वृत्तावपि चेति व्याख्यानादावुपयोगितामवधार्यास्य यथावगमं संशोधन विधाय सम्पादनमकारि ।
निम्नलिखितं प्रतित्रयं सम्प्रयोजितं मयाऽस्य संशोधनेऽतस्तत्तत्प्रतिसमर्पकमहाशयानामनुग्रहं मुहर्मुहुः स्मृतिपथमानयामि ।
%
***
%-562-
%AGO
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपक्रमः।
ता
नवतच.
१ आधा वटपद्रस्थश्रीआनन्दज्ञानमन्दिरसत्का नूतना । २ द्वितीया महेशाणानगरस्थजैनश्रेयस्करमण्डलसत्का नूतनैव । संवेदन
३ तृतीया पत्तनस्थवाडिपार्श्वनाथ जिनालयगत खरतरगच्छ-भाण्डागारसत्का पञ्चविंशतिपत्रात्मिका निम्नोद्धृतलेखकोल्लेखविराजिताप्रकरणस्या "संवत् १९५३ ना वर्षे फाल्गुन शुक्लपक्षे बुधे रोहिणीनक्षत्रे सप्तम्या दिने लिपीकृतं ब्राह्मणज्ञाति व्यास बंसीलाल
सीवदास, श्रीपाटण नगर मध्ये ॥ छः ।। श्रीरस्तु ।। शुभं भवतु । श्रीकल्याणमस्तु । श्री। आ प्रत गाम गांभुवाला लीखावी ॥२ ॥
छे, सा. रायचंद पानाचंद लीखावीने खरतरगच्छ भंडा[मां] मूकी छ ।” मा एषा अन्त्या प्रतिः साहित्यरसिक-साक्षरवर्य-श्रीमत्पुण्यविजयजी-मुनिवरानुग्रहात्सम्प्राप्ता, अतस्ते शतशो धन्यवादार्हाः।
यद्यपि त्रयोऽप्येताः प्रतयः शुद्धाशुद्धविचारणायां समाना एव, परं पत्तनीया किश्चित्प्राचीना, आये द्वेऽपि तस्या एव प्रतिकृती इत्यनुमितिः, त्रुटितपाठैः समत्वात्सर्वासां । यत्र यत्र प्रतिभातस्त्रुटितपाठस्तत्र तत्र सर्वत्र पञ्चसङ्घहादिभ्यः समुद्धत्य [ ] एतच्चिन्हान्तय॑स्तः ।
एवं प्रतित्रयाधारण सावधानतया संशोधितेऽप्यत्र छाअस्थिकसहजप्रभवाः शीशकाक्षरयोजकदोषजाः मुद्रणोद्भवा वा याः काश्चन स्खलना दृष्टिपथमवतरेयुस्ताः सम्मार्जयन्तु प्रकृतिकृपालबो धीधनाः सज्जना इत्यभ्यर्थयतेसंवत् २००७ आश्विन शु. ८ बुधे.
स्वर्गीयानुयोगाचार्य-श्रीमत्केशरमुनिजी-गणिवरबिनेयो बृहद्धर्मशाला, फलबादिका ( फलोदी)
बुद्धिसागरो गणिः संवन्मुंनिखशून्याक्षि-मिते विक्रमहायने । आश्वयुजः सिताष्टम्यां, बुधवारस्य सहिने ॥ १ ॥ पुर्या फलवर्द्धिकायां, चतुर्मासिस्थितेन वै। लिखितोऽयमुपक्रमो, गणिना बुद्धिसिन्धुना ॥ २ ॥ युग्मम् ॥
%A4%-3GESexy
॥२॥
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BHASHRS
ॐOCA-%A
AREA
4
ॐ ही अहं नमः सर्वज्ञाय । नमो नमः परमसुविहित-प्रवचनप्रभावक-श्रीमजिनदत्त-कुशल-मोहन-यश:-केशरपदपङ्कजेभ्यः । परमसुविहित-सुगृहीतनामधेय-स्वनामधन्य-विद्वजनमान्य-श्राद्धवर्य-श्रीअम्बप्रसादसङ्कलितं स्वोपज्ञवृत्तिसमलङ्कतं
नवतत्त्वसंवेदन-प्रकरणम् ।
- reasetअर्हन्तममलालोकं, नत्वा नित्यं शिवोदयम् । संवेदनावबोधाय, विधास्ये वृत्तिदीपिकाम् ॥१॥
इह हि मुमुक्षवो हेयं हातुमुपादेयमुपादातुं च प्रवृत्तिमासूत्रयन्ति, बहिरङ्गान्तरङ्गतया च हेये द्वे, उपादेयेऽपि द्विविधे, तत्र बहिरङ्गं हेयं अहिविषकण्टकादि, अन्तरङ्गन्तु कषायादि, उपादेयं तु बहिरङ्ग स्रगङ्गनाचन्दनादि, अन्तरङ्ग तु शान्त्यादि । न च मुमुक्षूणां बहिरङ्गाभ्यां हेयोपादेयाभ्यां प्रयोजनं, किन्त्वन्तरङ्गाम्यां, तयोर्यथाक्रमं हातुमुपादातुं चेष्टत्वात् । हेयस्य हानमुपादेयस्य चोपादानं न जीवाजीवादिपदार्थसंवेदनं विना सद्यः सम्पद्यते, तदनेन संवेदेन यद्यपि जिनागमरहस्यप्रतिपादकं संवेदननामकं प्रकरणं प्रकृतं, तथापि शिष्टसमवमनुवर्तमानः प्रत्यूहव्यूहं शमयन् प्रथम तावत्प्रकरणकारः परमतवस्तवमाह
DARSIC
%A4%
AES
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मङ्गलामिधेयादयः।
नवतच्चसं. प्रकरणम् स्वोपनवृत्तिः ।
ANSARASWARORE
अहं यत्प्राणिभिः पुण्यै-रुपायैरुपयाच्यते । तस्मै कल्याणकन्दाय, स्वानन्दाय नमो नमः॥१॥ ____ व्याख्या-अहमिति 'अहं' योग्यं, यद्वा पूज्यं अथवा परममन्त्राक्षरवीजं नादविन्दुकलाज्योतिःकलितं, यदिवा अकारादिहकारपर्यन्तं वाङ्मयं आहोश्विद् अहमित्यक्षरस्य पश्चपरमेष्ठिवाचकत्वेन अहंदादिरूपं पत्परमतत्त्वं प्राणिभिः 'पुण्यैः' पवित्रैः पुण्यहेतुत्वेन वा पुण्यैरुपायै-गुरूपासना[दिभिः कारणैरुपयाच्यते, तस्मै परमतच्चाय 'कल्याणकन्दाय' श्रेयाप्रमवाय स्वानन्दाय नमो नम इति सम्बन्धः ॥१॥
इह च प्रकरणादावभिधेयसम्बन्धप्रयोजनाभिमतमन्तरेण न प्रेक्षावन्तः प्रवर्तितुमुत्सहन्ते, ततोऽभिधेयाद्यभिधानार्थमाहसम्यक्तत्त्वावबोधाय, साधुवृत्तविशुद्धये। जीवादिनवतत्त्वानां, किश्चिद्वक्ष्यामि लक्षणम् ॥२॥
व्याख्या-'सम्यक्तचावबोधाय' समीचीनपरमार्थावगमाय 'साधुवृत्तविशुद्धये' सच्चारित्रविशोधनाय 'जीवादिनवतच्चाना' जीवाजीवादिनवपदार्थानां 'किश्चित्' सविसं 'लक्षणं' स्वरूपं वक्ष्यामीति सम्बन्धः। इह च जीवादय: पदार्था अभिधेयाः, अभिधानं तु संवेदनं, अभिधा[ना] भिधेयलक्षणस्तु सम्बन्धः । प्रयोजनं च द्विधा-अनन्तरपरम्परभेदात् , तत्रानन्तरं द्विविधं-कर्तृगतं श्रोतगतं च, कर्तृगतं-स्वतन्त्रतया सम्यक्तत्वावबोधः, श्रोतगतं तु स एव परतन्त्रतथा, परम्परं तु परमपदप्राप्तिरूपं द्वयोरपि समानमिति ॥ २॥
जीवादिलक्षणं च भण्यमानं स एव अद्धत्ते, मोहादिमिः कारणैर्यः कार्याणि लोकद्वयविरुद्धानि न धत्तेऽत एवाह
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuti Gyanmandie
न मोहाद्भयतो लोभा-दाम्नायादुपरोधतः । लोकद्वयविरोधीनि, कुर्यात्काणि बुद्धिमान् ॥३॥ ___ व्याख्या-मोहाद्-अज्ञानसंशयविपर्ययरूपात , भयतः-इहलोक परलोका-दाना-कस्मिका-जीविका-मरणा-श्लोकरूपसप्तभेदभिन्नात् , लोभान-तृष्णारूपात , आम्नायाद्-धर्मविरुद्धपूर्वजाचारात्, उपरोधतो-दाक्षिण्यात् , लोकद्वयविरोधीनिदुर्नयाचरणानि मद्यमांसादिप्रवर्तनानि कार्याणि बुद्धिमान कुर्यादित्यन्वयः ॥ ३ ॥ __ तस्माद्विरुद्धकार्याणि परिहृत्य तत्वं गृह्णीतेत्युपदिशन्नाहविचाराम्भोधिमालोड्य, विमर्शाद्रिप्रकर्षतः । तमोविषं विहायेह, ग्राह्यं तत्त्वामृतं बुधैः॥४॥ ___ व्याख्या-'विचारो' युक्तायुक्तबिकल्पनं, स एवातिगम्भिरत्वादम्भोधिस्तं 'आलोय' विलोय 'विमर्शः परिभावनं, स एवाद्रिमन्दरः, तस्य 'प्रकर्षः' आकर्षण, विमर्शपक्षे चोत्कर्षस्तस्मात् 'तमः' अज्ञानमेव विषं विहायेह 'भवे' जन्मनि संसारे वा 'बुधैः' देवैः कोविदैव तत्वरूपममृतं ग्राह्यमिति ॥ ४॥ एतदपि परीक्ष्य ग्राह्यमित्याहतापच्छेदकषावत्तः, स्वर्ण निर्णीयते यथा। तथा तत्त्वं परीक्ष्येत, गुरुतः शास्त्रतः स्वतः॥५॥ _ व्याख्या-तापादिभिः स्वर्ण यथा निर्णीयते 'तथा' तद्वत्तवं परीक्ष्येत, कस्मात् ?, गुरुतः-अभिधास्यमान 'योऽकषाय' इत्यादिलक्षणात् , शास्त्रतो वीतरागप्रणीतात् , वीतरागस्तु वक्ष्यमाण 'यः शाश्वत:' इत्यादिलक्षणोपलक्षितः, स्वतः-आत्मप्रत्ययादिति ॥ ५॥ परीक्षितं च तत्वमकृतकालक्षेपमुपादेयमित्युपदिशन्नाह
% A4+
Aॐ
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतत्त्वस्वरूपम् ।
नवतत्त्वसं० प्रकरणम् स्वोपनवृत्तिः ।
॥२॥
43-455AC%
सम्यग्गुरुमुखोद्गीतं, निर्णीतं नयकोविदैः। विमर्शतः स्वसंवेद्यं, तत्त्वं तत्त्वं समाश्रय ॥६॥
व्याख्या-सद्गुरुमुखोद्गीतं तदेव वा सम्यक् निर्णीतं प्रमाणशास्त्रविद्भिः 'विमर्शतः' पूर्वापरविरोधवर्जनतो निर्णयात् , 'स्वसंवेद्य' आत्मनः प्रतीतिपथमागतं यत्तत्तत्वं त्वं समाश्रयेति ॥ ६ ॥ इदानीं तवपरिज्ञानं प्रति भव्यजनमनुजाननाह
यत्सर्वज्ञसमादिष्टं, यदुक्तं श्रुतनायकैः । रजस्तमोविनिर्मुक्तं, तत्तत्त्वं विद्धि बुद्धितः॥७॥ ___व्याख्या-यत्तत्वमर्थतः सर्वज्ञोपदिष्ट सूत्रतश्च यदुक्तं श्रुतनायक-गणधरैः 'रजस्तमोविनिर्मुक्तं' रागद्वेषविकाररहितं 'बुद्धितो' बोधात् तद्विद्धीति सम्बन्धः ॥ ७॥ इदानीं पञ्चभिः श्लोकः प्रकरणदेवतश्चमाहयः शाश्वतः शिवावासः, कृत्यपारमुपागतः । परमात्मा सदानन्दः, सर्वज्ञः परमेश्वरः ॥८॥ शब्दवर्णरसस्पर्श-गन्धादीनामगोचरः । निर्मायोऽनञ्जनज्योति-निर्मिथ्यः परमाक्षरः ॥९॥ सर्वातिशयसम्पन्नः, सर्वलोकहितात्मकः । कर्मकल्मषनिर्मुक्तः, शान्ताऽनन्तो निराश्रयः ॥ १०॥ दोषैर्मुक्तोऽरेतीप्सांत-स्वप्सांदखेदैरुग्भवः । झुत् चिन्ताजेरास्वेदै, राँगेोमोहभीस्मयैः ॥११॥ सत्त्वरजस्तमोऽतीतो, विश्वोत्तंसोऽपुनर्भवः । त्रिलोकीलोकसंसेव्यः, स देवः सुधियां मतः ॥१२॥
[पञ्चभिः कुलकम् ]
ECIAL
*
॥२॥
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ROORNOON
G AROCHOCRACK
व्याख्या-यः 'शाश्वतो' जन्मना रहितत्वानित्यः, शिवावासः, शिवे-मोक्षे अवस्थितत्वात् , क्षीणकर्मपटलत्वेन कर्तव्याभावात् कृत्यपारमुपागतः, सकलयोगिजनध्येयः प्रकृष्ट आत्मा परमात्मा, सर्वाविद्यातनुच्छेदादात्मारामत्वेन सदानन्दः, लोकालोकप्रकाशकत्वेन सर्ववित्सर्वज्ञः, ज्ञानाद्यैश्वर्यवत्वेन परमेश्वरः॥८॥ शब्दाद्यस्वभावत्वात्तदगोचरः, प्रपश्चरहितस्वात्रिर्मायः, सहजप्रकाशरूपत्वादनञ्जनज्योतिः, परमतथ्यत्वानिर्मिथ्यः, स्वस्वरूपाच्युतत्वात्परमाक्षरः ॥ ९॥ चतुस्त्रिंशदतिशययोगात्सर्वातिशयसम्पन्नः, कृपापरीतान्तःकरणत्वेन भवाम्भोघेजन्तुजातसमुत्तारणात्सर्वलोकहितात्मक: कर्ममलाभावात्कर्मकल्मषनिर्मुक्तः, कपितकषायत्वेन शान्त:, अन्तरहितत्वादनन्तः, स्त्रप्रतिष्ठितत्वेन निराश्रयः ॥१० ।। अरत्यादिभिरष्टादशभिर्दोषमुक्तः, एते तु दोषाः सूत्रोपात्ताः प्रतीता एव, केवलं 'स्वप्' निद्रा 'सादो' विषादः 'भवो' जन्म स्मयश्च-विसयः ॥ ११॥ मनोविकृतिमुक्तत्वेन सत्वरजस्तमोऽतीतः, सकलविश्वशेखरत्वाद्विश्वोत्तसः, भवे भूयोऽसम्भवत्वादपुनर्भवः, यत एवं निस्सपत्नगुणसम्पन्नो भगवानिति त्रिलोकीलोकसंसेव्यः, स देवः सुधियां मत इति ॥ १२ ॥
उक्तं देवतत्त्वं, अधुना अष्टभिः श्लोकैर्गुरुतत्वमाहयोऽकषायः शिवोपायः, स्वाध्यायध्यानधीधनः । ज्ञानदाने सदोद्युक्तो, जीवादिनवतत्त्ववित् ॥१३॥ | आरम्भमैथुनस्तेय-मिथ्याहिंसाद्यनाश्रितः । श्रोत्राक्षिघ्राणजिह्वात्वक्, पञ्चेन्द्रियदमोद्यतः ॥ १४ ॥
क्षान्तिं सत्यं तपः शौचं. यमं शीलमसङ्गिताम् । ऋजुतां मृदेतां त्यांगं, दशधा धर्ममाश्रितः॥१५॥
13456180CAMCE
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्वसं० प्रकरणम् स्वोपज्ञवृत्तिः ।
| गुरुतत्व| वर्णनं ज्ञानाद्याचार पश्वकंच सपमेदम्।
ज्ञानदष्टितपोवृत्त-वीर्याचाराध्वसञ्चरः। शय्यावस्त्रवधाकोश-सत्कारालाभरुसलान् ॥१६॥ क्षेत्तांतणशीतोष्ण-स्त्रीचर्याज्ञानदेयती।याच्आधीपाठभूदंशोन,सहतेऽमून परीषहान्।१७। युग्मम् । ईर्याभाषणामात्रा-दाननिक्षेपपूर्विकाम् । उच्चारादिपरित्याग-समितिं पञ्चमी श्रितः ॥१८॥ त्रिदण्डविरतो नित्यं, रत्नत्रयपवित्रितः। करणत्रयसंरोधी, त्रिकालौचित्यसञ्चरः ॥ १९ ॥ संविग्नस्सर्वभावज्ञ-स्तरीता तारकः शमी। मूलोत्तरगुणोपेतः, स गुरुर्गुणिनां मतः ॥ २०॥ ___व्याख्या-य: प्रतिषिद्धकषायोदयत्वादकषायः, सद्देशनाभिर्मोक्षमार्गप्रकाशकत्वेनात्मनः परेषां च शिवोपायः, स्वाध्याये ध्याने च धीर्धनमस्येति स्वाध्यायध्यानधीधन:, नित्यं श्रुतसम्पादने कृतादरत्वात् ज्ञानदाने सदोद्युक्तः, जीवादिपदार्थपरिज्ञातृत्वेन जीवादिनवतच्चवित् ।। १३ ।। परिहृतारम्भादिमहापापत्वात्तदनाश्रितः, विषय विस्तत्वेन श्रोत्रादीन्द्रियदमोद्यतः ।।१४। विदिततचार्थत्वादशधा क्षान्त्यादिधर्ममाश्रितः ।। १५ ।। ज्ञानाद्याचार एवाधा-मुक्तिमार्गस्तत्र सञ्चरणचतुरत्वात्तदध्वसश्चरः, तत्र ज्ञानाचारः प्रथमस्तावदष्टधा कालादिभेदात् , तथाहि-काले काले श्रुतमभ्यसनीयं १, विनयेन ग्राह्यं २, यस्य पार्श्वे श्रुतमधीयते तं प्रति बहुमान आधेयः ३, सम्यक् श्रुतस्य यत्तपस्तद्विधेयं ४, सामान्योऽपि श्रुतदाता महर्द्धित्वान्न निह्वोतव्य: ५, व्यञ्जनं च ककारादिस्पष्टमुच्चार्य ६, श्रुतार्थः परिमाव्यः ७, तदुभयं चावधार्य ८। दर्शनाचारोऽप्यष्टधा, तद्यथा-निश्शङ्कितत्वं १, निष्कासितत्वं २, निर्विचिकित्सत्वं ३, अमृढदृष्टित्वं ४,
RECORRUKHABAD
॥३॥
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
55
%
| सद्गुणोत्कीर्तनं ५, स्थिरीकरण ६, वात्सल्यं ७, प्रभावना चेति ८ | तप आचारः पुनरग्रे सूत्र एव व्यक्तो भविष्यतीति नेह प्रतन्यते । चारित्राचारोऽप्यष्टधा-सम्यकप्रवृत्तिरूपाभिः पश्चभिः समितिभिर्भणिष्यमाणाभिः सम्यक्प्रवृत्तिनिवृत्तिरूपाभिश्च तिसृभिर्मनोवाकायगुप्तिभिरिति । वीर्याचारश्च स्ववीर्यमगोपयतः स्वशत्या सदनुष्ठानेषु प्रवर्त्तमानस्य मनोवाकायभेदात्रिविधो भवतीति । सूत्रोपात्तान् शय्यादीन् द्वाविंशतिपरीपहान् 'सहते' क्षमते । तत्र शय्या-आश्रमः संस्तारकश्च । तत्र आश्रमपक्षे कुटीरकेऽपि समाहितमनाः, संस्तारकपक्षे कर्कशेऽपि न निर्वेदवान् १, जरचीवरखण्डमात्रेऽपि नासन्तोषवान् २, कषादिभिस्ताडयमानोऽपि न कोपवान् ३, दुर्मुखैराक्रुश्यमानोऽपि न रोपवान् ४, सक्रियमाणोऽपि नोच्छे[नोत्से]कवान् ५, अलामेऽपि न विषादवान् ६, रोगग्रस्तोऽपि नातरौद्रध्यानवान् ७, मालिन्येऽपि न जुगुप्सावान ८॥१६॥ क्षुधात्र्तोऽपि नाशुद्धपिण्डादानवान् ९, तृषितोऽपि नाप्कायविराधनावान् १०, दर्भादिकर्कशस्पर्शेऽपि नाप्रीतिमान् ११, शीतार्तोऽपि न तापेच्छावान् १२, सन्तप्तगात्रोऽपि न व्यजनवाताद्यासेवनवान् १३, स्त्रीदर्शनेऽपि न तदङ्गप्रत्यङ्गदर्शनवान्, न च रहसि पर्यालोचनवान , न च तत्कथावान्, न च कुडथान्तरमिथुनक्रीडनोपयोगवान् , नापि मुहर्तमानं तदुपभुक्तासनोपभोगवान् १४, चर्या-मासकल्पादिविहारो भिक्षाटनं वा, तदुभयवान् १५, ज्ञानावरणोदयात् ज्ञानाभावेऽपि तदभ्यासवान् १६, दृढसम्यक्त्वोऽपि नात्मोत्कर्षवान् १७, [४इष्टविषयोपलब्धिवशोत्पन्नरति!त्कर्षवास्तथैव ] आधिव्याधिवशोपचारतिरपि न वैक्लव्यवान् १८, अन्नपानवस्त्रादीनां परतः प्रार्थनेऽपि न पावान् १९, सत्प्रज्ञोऽपि नाहङ्कारवान् २०, स्वाध्यायभूमिवैषम्येऽपि सामायिक
x पाठोऽयमेतचिह्नान्तर्गतोऽस्मत्परिवर्द्धितोऽत्र परत्रापि चैवमेवावगन्तव्यम् ।
EC
%9C%.
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
नवतवसं० प्रकरणम् स्वोपनवृत्तिः ।
आचारपञ्चके पिण्डदोषवर्णनम् ।
॥
४
॥
45CROCHECASIA
वान् २१, सत्स्वपि दंशमशकादिषु न तत्प्रतीकारवान् २२ ॥ १७॥ ईर्यादिचतुस्समितिपूर्विकामुच्चारादिपरित्यागसमिति पञ्चमी श्रित इति सम्बन्धः, तत्र ई-युगमात्रभून्यस्तदृष्टेर्जन्तुरक्षार्थे पदं पदमुपयोगवतः साधोर्गमनं १ । भाषा नाम विकथाविश्रोतसिकावर्जितस्य साधोर्यकार्ये निरवद्यभाषणं २ । एषणा त्रिविधा-उद्गमोत्पादनैषणा ग्रहणेषणा [ग्रासैषणा] चेति, तत्रोद्गमोत्पादनैपणा द्वात्रिंशद्भदा, यतः-पोडशमेदोद्गमैषणा षोडशभेदा चोत्पादनेषणा, ग्रहणैषणा तु दशभेदा, ग्रासैषणा तु पश्चविधा । तत्रोद्गमैषणायाः षोडश भेदा अमी-आषाकर्म औदेशिकं [पूतिकर्म मिश्रजातं स्थापना प्राभृतिका] प्रादुष्कारः क्रीतं आपमित्यकं परावर्तितं अभिहृतं उद्भिनं मालाहृतं आच्छेद्यं अनिसृष्टं अध्यवपूरकश्चेति । तत्राधाकर्मेति, आधानं आधा प्रणिधानं वा, साधुप्रणिधानेनेत्यर्थः, कर्म-पाकक्रिया आधाकर्म १। औदेशिकमिति उद्देशनमुद्देशो-यावदर्थिकादिप्रयोजनं, तेन निवृत्तमौदेशिकं । पूतिकर्मेति, पूति-अपवित्रं, तस्य कर्म पूतिकर्म, कोऽर्थः १, पवित्रस्य सतो यत्यर्थकृतभक्तादिमीलनेनापवित्रताकरणं ३ । मिश्रजातमिति, गृहिसाधुप्रणिधानलक्षणभावेन जात-पाकभावं गतं भक्तादि मिश्रजातं ४ । स्थापनेति, स्थाप्यते-साधुदानाय कश्चित्कालं यावन्निधीयते इति स्थापना ५। प्राभृतिकेति, 'प्र' इति विवक्षितकालात्प्रथमतः 'आ' इति साधागमनलक्षणमर्यादया 'अवधृता' धारिता यका भिक्षा सा प्राभृता, प्राभृतैव प्राभृतिका ६ । प्रादुष्कार इति, 'प्रादुः' शब्दः प्रकाशार्थः, तस्य करणं प्रादुष्कारः, तद्विशेषितं भक्ताद्यपि स एव, दोपदोषवतोरमेदोपचारात्, एवं सर्वत्र द्रष्टव्यं ७। क्रीतमिति, साधुदानाय मूल्येन गृह्यते स्मेति क्रीतं ८ । आपमित्यकमित्युच्छिन्नं ९ । परावर्तितमिति कृतपरावर्त १० । अभिहृतमिति, अभि-साध्वमिमुखं हृतं-स्थानान्तरादानीतमित्यर्थः ११ । उद्भिनमिति उद्भेदनं कुडलादेः १२ । मालाहत
A-OCIRCROCHECLASS
॥४
॥
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिति, मालान्-मश्चात्प्रासादोपरितनभागाद्वा आहृतं मालाहृतं १३ । आच्छेद्यमिति, भृत्यादेः सकाशात्साधुदानार्थमाच्छिद्यत इत्याच्छेद्यं १४ । अनिसृष्टमिति, सर्वस्वामिभिरदत्तमित्यनिसृष्टमिति १५। अध्यवपूरक इति, अधि-आधिक्येनावपूरणं अध्यवपूरः, स एवाध्यवपूरकर, स्वार्थपाकारम्भे तदधिकस्य साध्वथं प्रक्षेपणमित्यर्थः १६ । उक्ताः षोडशमेदा उद्गमैषणायाः, अधुना तावन्त एवोत्पादनेषणाया भण्यन्ते-धात्री दूती निमित्तं आजीवः वनीपक: चिकित्सा क्रोधः मान: माया लोभः पूर्वपश्चात्संस्तवः विद्या मन्त्रचूर्णयोगः मूलकम चेति । तत्र धात्री क्षीर-मजन-मण्डन-क्रीडना-मेदात्पश्चधा, पदैकदेशे पदसमुदायोपचाराच धात्री[व]करणं १ । दृतिका परस्परसा (१) स्त्रीपुरुषसन्दिष्टार्थाभिधायिका, अत्रापि तीत्वकरणमित्यर्थः २। निमित्तमिति निमित्तकथनं ३ । आजीव इति जातिकुलकर्मशिल्पादीनामभिधानत उपजीवनं ४ । वनीपक इति दायकाभिमतजनप्रशंसोपायाचार्थरूपां बनी पाति-रक्षतीति वनीपः, स एव वनीपकः, कोऽर्थः ? यो यस्य भक्तस्तस्य पुरतस्तदावर्णनेन भैक्षमादत्त इति ५। चिकित्सेति रोगप्रतीकारो, भिक्षार्थ वैद्यो भवतीत्यर्थः ६ । क्रोध इति क्रोधपिण्डः, कुपितोऽयमनर्थ विधास्यतीति जनपार्थाद्भिक्षां लभत इति ७। मान इति मानपिण्डः, तथा करोति भिक्षुर्भिक्षार्थी यथोत्पनमान: परिवारं तिरस्कृत्य गृहस्थस्तिस्य भिक्षा दत्ते, परिवारो वा मानमवलम्बते, यथा-मयाऽवश्यमस्य भिक्षोन देयमिति, आत्मनो वा मानः समुत्पद्यते, यदुतावश्यमस्मान्मया ग्राह्यमिति मानपिण्डः ८। मायेति वेषपरावर्त्तादिना परं विप्रतार्य यद्गृह्यत इति मायापिण्डः ९। लोभ इति लोभपिण्डः, यो लम्पटतया बहुषु गृहेषु परिभ्रम्य भिक्षुणा प्राप्यत इति १० । पूर्वपश्चात्संस्तव इति, पूर्व पश्चाच्च दानाहातुर्गुणस्तुतिः, अथवा पूर्वः पिसमातृपक्षपरिचयः पश्चा
9690SSSC54
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्त्वसं० प्रकरणम् स्वोपनवृत्तिः ।
आचार| पञ्चके पिण्डदोष| वर्णनम् ।
SOCTOCHORECACAX
च्छ्शुरपक्षपरिचयः,इत्युभयपक्षनिवेदनोत्पन्नपरिचयेन भिक्षामादत्त इति ११ । विद्येति [स्त्री] देवताऽधिष्ठितः ससाधनोऽक्षरानुपूर्वी- विशेषः१२। मन्त्र इति [पुरुष] देवताऽधिष्ठितोऽसाधनोऽक्षररचनाविशेषः १३॥ चूर्णः पादलेपादियोगः १४ । योगो वशीकरणादिः १५ । मृलकर्मेति, मूलमष्टमं प्रायश्चित्तं, तस्य निबन्धनं कर्म-व्यापारो गर्भघातादिः, मूलानां वा वनस्पत्यवयवानां स्वीकारेण कर्म-सौभाग्यादिकृते स्वपनादि १६ । उक्ता उद्गमोत्पादनेषणाया प्रत्येकं षोडश-पोडश भेदाः, इदानीं ग्रहणैषणाया दश दोषाः कीर्त्यन्ते, ते चामी-शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायक उन्मिथ अपरिणतं लिप्तं छर्दितं । तत्राधाकर्मिकमेतद्भविष्यतीति सम्भावना शङ्कितं १ । मण्डकादि जलादिना संयुक्त प्रक्षितं २ । सचित्तोपरि न्यस्तं भक्तादि निक्षिप्तं ३ । पुष्पफलादिस्थगितं पिहितं ४ । एकस्माद्भाजनाद्भाजनान्तरे प्रक्षिप्य भक्तादि ददतः संहृतं ५ । दानं प्रत्ययोग्यबालकस्थविरादेतुरनुचितत्वादायकदोषः ६। बीजादिमिश्रमुन्मिश्रं । अप्रासुकमपरिणतं ८ निन्येन वशादिना खरण्टितं लिप्तं ९ । परिशाटवभूमिपतदवयवं वा छर्दित १० । तदेवं सर्वसंख्यया द्विचत्वारिंशपिण्डदोषाः प्रकीर्तिताः, तेषां मध्ये चाद्याः षोडश दोषा गृहस्थेन, उत्तरे पुनः षोडश साधुना, दश ग्रहणैषणादोषास्तदुभयेन विधीयन्ते, ये चापरे ग्रासैषणादोपाः पञ्च, ते भोजन| मण्डल्यां भवन्ति, ते चैते-संयोजना प्रमाणातिक्रमः अङ्गारता धूमायमानता कारणपरित्यागश्चेति । तत्र संयोजना वस्त्रविषया भक्तविषया च, वस्त्रसंयोजना च वस्त्रं गवेषयतश्वोलपट्टकप्राप्तौ विभूषानिमित्तं पटीं याचित्वा परिभुञ्जानस्य भिक्षोभवति, भक्तसंयोजना च दुग्धदध्यादिलामे तन्मध्ये गुडखण्डादिप्रक्षिप्य लम्पटतया भुञ्जानस्य स्यात् १ । प्रमाणातिक्रमश्च साधोत्रिंशत्कवलमानाहारादधिकमश्नता, साध्व्याः पुनरष्टाविंशतिकवलप्रमाणां तृप्ति[१ वृत्ति]मतिक्रम्य भुञ्जानायाः स्यात् २
॥५॥
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
READARS2345515
| अङ्गारता च चारित्रेन्धनस्याङ्गारस्येव रागवशताकरणं ३ । धूमायमानता च चारित्रेन्धनस्य द्वेषवशतो धूमोद्धमनं ४ । कारणपरित्यागदोषः पद्भिः कारणविना भोजनं कुर्वतः साधोः स्यात् , तानि च पट्कारणान्यमूनि-वेदना वैयावृत्यं ईर्यापथः संयमः प्राणधारण धर्मचिन्ता चेति ५।३। आदाने निक्षेपे समितिस्तु पूर्व चक्षुषा निरीक्ष्य प्रमृज्य च यदुपकरणस्यादानं निक्षेपो वा ४ । उच्चारादिपरित्यागसमितिः पुनर्यदुचार-प्रश्रवण-खेल-जल्ल-सिद्धानक-पानादीनां विविक्तदेशे परिष्ठापनं ५॥१८॥ सदा निरुद्धाशुभमनोवाक्कायव्यापारत्वान्नित्यं त्रिदण्ड विस्तः, ज्ञानदर्शनचारित्ररूपरत्नत्रयसम्पन्नत्वाद्रत्नत्रयपवित्रितः, सावद्यकरणकारणानुमतिनिषेधात्करणत्रयसंरोधी, अतीतानागतवर्तमानौचित्येन विचरणात्रिकालौचित्यसञ्चरः ॥ १९ ॥ मोक्षं प्रतिवद्धस्पर्द्धत्वात्संविना, स्वभ्यस्तस्वसमयपरसमयत्वात्सर्वभावज्ञः, ज्ञानानुविद्धविशुद्धक्रियातरीकर्णधारत्वातरीता तारकश्च, रागादिभिरनभिभूतत्वाच्छमी, गुणशब्दस्य प्रत्येकमभिसम्बन्धान्मूलगुणाः प्राणातिपातविरत्यादय उत्तरगुणाः पिण्डविशुह्यादयस्तैरुपेतो मूलोत्तरगुणोपेतः, स गुरुर्गुणिनां मत इत्यन्वयः ॥ २० ॥
उक्ता तत्वदेवगुरुलक्षणा तत्वत्रयी, सम्प्रति श्लोकद्वयेन श्राद्धस्वरूपमाहसम्यक्तत्वज्ञानसंयुक्तः, पश्चाणुव्रतपालकः । गुणवतत्रयाधार-श्चतु:शिक्षाव्रतोद्यतः ॥२१॥ | दानशीलतपोभाव-भावकोऽतिथिपूजकः। निष्कषायःसदाचारः,श्राद्धः स्यात्तदुपासकः ॥२२॥ युग्मम् ॥ |
व्याख्या-सम्यक्त्वं-तत्वश्रद्धानरूपं, ज्ञानं यथार्थावबोधस्ताभ्यां संयुक्तत्वात्सम्यक्त्वज्ञानसंयुक्तः, अनेन विशेषणेन धर्म
ACIRCLASKARRAOCAL
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशव्रत
स्वरूपं
सातिचारम् ।
नवतत्त्वसंगत कल्पद्रुमस्य सम्यक्त्वमूलमुक्तं, लिङ्गानि पुनरस्य शुश्रूषाधर्मानुरागगुरुदेववैयावृत्यादीनि, अतिचाराः पुनरस्य पञ्च वर्जनीयास्ते प्रकरणम् चामी-शङ्का काला विचिकित्सा परपाषण्डि[प्रशंसा] परपाषण्डिसंस्तवश्चेति । पञ्चाणुव्रतानि स्थूलप्राणातिपातविरमणादीनि, स्वोपन- तेषां निरतिचारत्वेन पालनात्तत्पालकः । गुणवतत्रयं दिक्परिमाणादिकं, तदाश्रयत्वात्तदाधारः । चत्वारि सामायिकादीनि वृत्तिः । शिक्षाब्रतानि, तेषु कृतप्रयत्नत्वात्तदुच्यते ॥२१॥ अनेन विशेषणत्रयेण पुनरस्य द्वादशवतानि समर्थितानि,तानि चामूनि-स्थूल
प्राणातिपातविरतिः स्थूलमृषावादविरतिः स्थूलादत्तादानविरतिः परदारविरतिः परिग्रहविरतिः दिग्वतं भोगोपभोगवतं अनर्थ॥६ ॥
दण्डविरतिः सामायिकं देशावकाशिकं पौषधः अतिथिसंविभागश्चेति १२ । तत्र स्थूलप्राणातिपातविरतेयं शब्दार्थः-स्थूला द्वीन्द्रियादयः, इतरैरपि तीथिकैः प्रतीयमानत्वात , न तु सूक्ष्माः, गृहस्थानां तद्विराधनानिवृत्यसम्मवात् , प्राणा उच्कासादयस्तद्योगात्प्राणिनोऽपि प्राणास्तेषामतिपातो-विनाशस्तस्य विरति-निवृत्तिः । प्राणातिपातश्च द्विविधा-सङ्कल्पत आरम्भतश्च । तत्र सङ्कल्पो-व्यापादनाभिसन्धिः, आरम्भ:-कृष्यादिकः। तत्र सङ्कल्पत एव स्थूलप्राणातिपातं रक्षति गृहस्थः, आरम्भतस्तस्य प्राणोपमर्दसम्भवात् , सापराधनिरपराधलक्षणेन प्रकारान्तरद्वयेनापि द्वैविध्यमस्य, तत्र सापराधे यतना, निरपराधे च निषेधः । एतस्य पश्चाप्यतिचाराः परिहार्याः-वधः [बन्धः] छविच्छेदः अतिभारारोपणं भक्तपानविच्छेदश्चेति । एते पश्चा. प्यxतीचाराः सापेक्षत्वे सति भवन्ति, निरपेक्षत्वे तु व्रतभङ्ग एव । इदानी द्वितीयमणुव्रतमुच्यते-स्थूलमृपावादविरतिरिति, तत्र स्थूलो-महान् रागद्वेषादिजन्यो मृपावादस्तस्य विरतिः, स्थूलमृषावादस्तु पश्चधा-कन्या गो-भूम्यलीक-न्यासहरण कूटसाक्षी.
x" पञ्युपसर्गस्य बहुलम् " (है. ३-२-८६ ) इत्यनेन वैकल्पिकं दीर्घत्वम् ।
HDCASSADOORDANCEDA%ASAN
GACEBCA
-1
-1
-
15
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेदान , एतदतीचाराश्च सहसाभ्याख्यानं [रहस्य मेदः] स्वदारमन्त्रभेदः मृषोपदेशः कूटलेखकरणं चेति । अधुना तृतीयमुच्यतेस्थूलादत्तादानविरतिरिति, स्थूलं-राजविरुद्धत्वेन प्रसिद्धं यददत्तादानं, तस्य विरतिः। एतदतिचाराः पुनरमी-स्तेयेनाहृतं तस्करप्रयोगः विरुद्धराज्यगमनं कूटतुलाकूटमानं तत्प्रतिरूपकक्रिया। चतुर्थ परदारविरतिरिति, परे-आत्मव्यतिरिक्ताः पुरुषाः, मनुजजात्यपेक्षया दिव्यास्तिर्यश्चश्व, तेषां दारा:-परिणीतसङ्ग्रहीतभेदानि कलत्राणि दिव्यास्तिरश्चश्चेति परदारास्तेषां विरतिः । ततश्च परदारवर्जकस्य पुरुषस्य परकलवस्यैव निवृत्तिः, न तु वेश्यायाः [इति चेन्न], उपलक्षणं चेदं, तेन यथा परदारविरतिश्चतुर्थमणुव्रतं तथा स्वदारतुष्टिरपि, ततश्च स्वदारसन्तुष्टस्य श्राद्धस्य न केवलं परकलत्रस्य निवृत्तिः, किन्तु वेश्याया
अपि । अस्यातीचाराः पञ्च, यथा-इत्वरीगमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामे तीव्राभिलापश्चेति । पञ्चमं | परिग्रहविरतिः, परिग्रहः परिगृह्यत इति परिग्राह्यं वस्तु, तस्य परिच्छेदकरणेन विरतिः परिग्रहविरतिः। एषा च क्षेत्र-वास्तुहिरण्य-सुवर्ण-धन-धान्य-द्विपद-चतुष्पद-कुप्यविषया स्यात् , अस्याश्चातीचाराः पञ्च, क्षेत्रवास्तुनोः १ हिरण्यसुवर्णयोः २ धनधान्ययोः ३ द्विपदचतुष्पदयोः ४ कुप्यस्य वा ५, एषां पश्चानां यथाक्रम योजन प्रदान-बन्धनकारणभावैः प्रमाणातिक्रमः । उक्तानि पञ्चाणुव्रतानि, साम्प्रतं गुणवतत्रयमुच्यते, तत्राचं दिग्वतं, दिक् चोधिस्तिर्यग्रूपाः । ऊ -उपरि पर्वता. | दिविषया, अधस्तु तद्विपरीता पविवरादिविषया, तिर्यक् च प्राच्यादिविषया । ऊधिस्तिर्यग्रूपां दिशमाश्रित्य व्रत-गमनपरिमाणरूपं दिग्वतं । एतस्यातीचाराः पञ्च, ऊर्ध्व १ अध २ स्तिर्यग् ३ दिक्प्रमाणातिक्रमः, क्षेत्रवृद्धिः ४ स्मृत्यन्त नं ५ येति । द्वितीयं भोगोपभोगव्रतं, तत्र सकृद्धज्यत इति भोग आहारादिः, पुनः पुनरुपभुज्यत इत्युपभोगो वस्त्रादिः,
R-645464
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्चसं० प्रकरणम्
स्वोपज्ञ
वृतिः ।
॥७॥
*966
www.kobatirth.org
तयोतं भोगोपभोगतं । एतच्च भोजनतः कर्मतथ द्विधा, तत्र भोजनतस्तावत् किल श्राद्धेन उत्सर्गतः प्रासुकमेषणीयं च भोक्तव्यं, तदशक्तावनेषणीयमपि सचित्तवर्ज, तदसश्वेऽनन्तकाय बहुवीजकवर्ज । कर्मतोऽपि यद्यकर्मा वर्त्तितुं न शक्नोति श्राद्धस्तदाऽत्यन्त सावधानि कोट्टपालगुप्तिपालप्रभृतीनि खरकर्माणि परिहरेत् । भोजनतस्तावदस्यातिचाराः पश्च, सचितभक्षणं तत्प्रतिबद्धभक्षणं संमिश्रभक्षणं [ अपक्कभक्षणं ] दुष्पक्कभक्षणं चेति । सम्प्रति कर्माश्रित्यास्मिन्नेव व्रते पञ्चदशातिचारा भवन्ति, ते चामी - अङ्गार १ वन २ शकट ३ भाटी ४ स्फोट ५ कर्माणि, दन्त ६ लाक्षा ७ रस ८ केश ९ विष १० वाणिज्यानि, यन्त्रपीलन ११ निर्लाञ्छन १२ दवदान १३ सरोइदतडागादिशोषः १४ असतिपोषश्चेति १५ । तृतीयं गुणव्रतमनर्थदण्डविरतिः, अर्थः- प्रयोजनं, तत्प्रतिषेधोऽनर्थः, दण्ड्यते आत्मा अनेनेति दण्डो-निग्रहः, अनर्थेन दण्डोऽनर्थदण्डः, ऐहिकं कार्यमाश्रित्य निष्प्रयोजनभूतोपमर्देन आत्मनो निग्रह इत्यर्थः, तस्य विरतिरनर्थदण्डविरतिः । अनर्थदण्डश्चतुर्विधस्तद्यथाअपण्यानं प्रमादाचरितं हिंस्रप्रदानं पापोपदेशच । तदतिचाराः पुनरमी - कन्दर्पः १ कौत्कुच्यं २ मौखर्यं ३ संयुताधिकरणं ४ भोगोपभोगातिरेकिता ५ चेति । अमीषां त्रयाणामपि गुणवतत्वमणुव्रतानां गुणोत्पादकत्वात् । चत्वारि शिक्षात्रतानि, शिक्षाअभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि - पुनः पुनरासेवनार्हाणि तेषु प्रथमं सामायिकं, समस्य-रागद्वेषविमुक्तस्य जीवस्य आयो-लाभः समायः, समाय एव सामायिकं । एतच्च सामायिकं सावद्येतरयोगपरिहारानुष्ठानस्वभावं विवक्षितकालावधिना चद्विविधं त्रिविधेनेति विकल्पेन गृहीतेऽस्मिन् स्वाध्यायादिरेव विधातव्यो, नारम्भादिः । अत्राह कश्चित् प्रतिपन्नसामायिकस्य जिनस्नपनपूजादिकरणे न दोषः, निरवद्ययोगत्वात्तस्य । यतः सावद्ययोगस्वरूपमिदं - " कम्ममवज्जं जं गर
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशव्रतविवरणम् ।
1119 11
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
ज
Hit
SHARCOCी
हियं ति कोवाइणो य चत्तारि । सह तेहि जो उ जोगो, पञ्चक्खाणं भवे तस्स ॥१॥" इति, न च जिनस्नपनादिकं गर्हितं कर्मेति । अत्रोच्यते-एवं तर्हि साधोरपि तस्करणं स्यात् , येन द्वयोरपि सावद्यलक्षणं सामान्यं । किश्च"सामाइयम्मि उ कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुजा ॥१॥" एतद्गाथोक्तं सामायिकवतः साधुना सह सादृश्यं स्नपनादिविधाने न स्यात् , साधूनां तत्रानधिकारात् । सामाचारी पुनरियं-इह हि द्विविधः श्राद्धः-ऋद्धिमांस्तदितरश्च । तत्रानचिकः सामायिकं गृह्णन् चैत्यगृहे [वा] साधुसमीपे वा गृहे वा पौषधशालायां वा, यत्र कापि विश्राम्यति निर्व्यापारो वा आस्ते, तत्र सर्वत्र गृह्णाति, चतुर्पु स्थानेषु पुननियमेन गृह्णाति, तद्यथा-चैत्यगृहे साधुसमीपे पौषधशालायां स्वगृहे वा आवश्यकं कुर्वन् । साधुसमीपे च जिघृक्षुर्यदि केनापि समं विवादादिकं न भवति निर्व्यापारश्च वर्त्तते, तदा स्वगृह एव सामायिकं गृहीत्वा समितो गुप्तश्च विधिवत्साधूपाश्रयं व्रजति । गत्वा च तत्र नमस्कृत्य साधून सामायिकं करोति "करेमि भंते! सामाइयं" इत्याधुच्चारणतः, xतत ईर्यापथिको प्रतिक्रम्या___x एष एव विधिः सामायिकग्रहणे सर्वेष्वपि प्रत्नतमेषु सर्वमान्येषु प्रमाणाहेसु शास्त्रेषु दरिदृश्यते, यथा च १ पूर्वगतश्रुतधारकश्रीमञ्जिनदासगणिमहत्तरविनिर्मितायामावश्यकचूणों ( उत्तरार्द्ध पृ० २९९), २ हारिभद्रीयावश्यकबृहद्वृत्तौ ( ८३२ पत्रे ), ३ आगमिकगच्छीयश्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ, ४ तत्कृतायां सामाचार्यामपि च [१५ पत्रे ], ५ कलिकालसर्वज्ञ श्रीहेमचन्द्रमरिगुम्फितायां योगशास्त्रवृत्तौ ( १७६ पत्रे, जैन धर्म प्र. सभा भाव०प्र०), ६ नवानिवृत्तिविधायक श्रीमदभयदेवमूरिविहितायां पश्चाशकवृत्तौ ( २३ पत्रे, प्रथमावृत्तिः ), ७ उकेशगच्छीय श्रीमद्देवगुप्तमूरिसन्दुब्धायां स्वोपज्ञायां नवपदप्रकरण
SHOCTOR
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्च सं०
प्रकरणम् स्वोपज्ञ
वृत्तिः ।
116 11
www.kobatirth.org
घुटीकायां (४२ पत्रे ), ८ तच्छिष्य यशोदेवोपाध्यायनिर्मितायां तस्यैव वृहट्टीकायां ( २४३ पत्रे ), ९ तपाविरुदसम्प्रापकाचार्य श्रीमज्जगञ्चन्द्रसूरिविनेय श्रीमद्देवेन्द्रसू रिसङ्कलितायां श्राद्धदिनकृत्य सूत्रटीकायां १० तपागच्छमण्डनाचार्य श्रीहीर विजयसूरि सन्तानीय श्रीमन्मानविजयोपाध्यायसन्दृन्धायां न्यायाचार्य श्री मद्यशोविजयोपाध्याय संशोधितायां धर्मसङ्ग्रहटीकायां ( पृ० ८४ ), ११ याकिनी महत्तराधर्मसूनुश्री मद्धरिभद्रसूरिरचितायां श्रावक प्रज्ञप्तिटीकायां १२ बृहद्गच्छीय श्रीमन्मान देवसूरिप्रविनिर्मितायां श्रावकधर्मविधिप्रकरणटीकायां ( ८७ पत्रे ), १३ श्रीयशोदेवसूरीयपश्चाशक चूर्णो, १४ चन्द्रगच्छीय श्रीविजयसिंहाचार्यकृतायां श्रावकप्रतिक्रमणचूर्णौ, १५ आञ्चलिक श्रीमाणिक्यशेखरसूरिविहितायां श्रावकप्रतिक्रमणविधौ । एतानेव च प्राय: सर्वमान्यप्रत्नशास्त्रानुपजीव्यास्मदाचार्यां दिकैरपि १ पौषधविधिप्रकरणे सटीके, २ विधिमार्गप्रपायां, ३ आचारदिनकरे, ४ श्रावकधर्मप्रकरणे सटीके, ५ श्रावकविधिप्रकाशे, ६ जिनपतिसूरीय सामाचार्यां, ७ सम्बोधसप्ततिकाटीकायां, ८ जयसोमीयेर्यापथिकी
शिकायां सटीकायां, ९ वाचक श्री गुणविनयविरचितायामेकपश्चाशद्विचारसारचतुष्पदिकायां सटीकायां १० द्वादशकुलकवृत्तौ, ११ धर्मसागरीय उत्सूत्रखण्डने पडावश्यकबालावबोधे तरुणप्रभाचार्य प्रणीतेऽपि चैतदेव विधिः सामायिकग्रहणे प्रकाशितः ।
यत्तु प्रदइर्यते कैश्चिद्भिः सामायिकोञ्चरणात्प्रागर्थाप्रतिक्रान्ति समर्थनार्थं " अप्पडिकंताए इरियावहियाए न कप्पड़ चैव काउं किंचि विचिदणसज्झायझाणाइयं, फलासायमभिकंखुगाण " मिति महानिशीथ तृतीयाध्ययन पाठस्तदसमञ्जसं, यतस्तत्र तूपधानमधिकृत्य नमस्कार महामन्त्रस्योपधानानन्तरमीर्याया उपधानं प्रदर्शयद्भिरुक्तं श्रीमत्सूत्रकार पूज्यैर्यतश्चैत्यवन्दनस्वाध्यायादिषु प्रायः सर्वास्वपि क्रियास्वावश्यकमीर्यांप्रतिक्रमणमतो नमस्कारानन्तर मीर्यांया उपधानं कर्त्तव्यं न चात्र पाठे सामायिकस्य नामापि, प्रत्युत
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशवत विवरणे
सामायिक ग्रहणविधिनिर्णयः ।
॥ ८ ॥
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्य स्वाध्यायस्येयाप्रतिक्रान्तिपूर्वकत्वं नाममाहं निर्दिष्टमत्र सूत्रे तन्न भवति तथा, ईर्यायाः सामायिकोचारणतः प्राकप्रतिक्रान्तत्वात् ।
यच्च "ईर्यापथप्रतिक्रमणमकृत्वा नान्यत्किमपि कुर्यात् , तदशुद्धतापत्तेः" इत्येतद्दशवकालिकबृहद्वृत्तिपाठो दर्श्यते तदप्ययुक्तं, यतोऽत्र साध्वाचारस्यैवाधिकारोऽस्ति, न च सामायिकशब्दोऽप्यवलोक्यतेऽत्र, दृश्यतां तत्रत्यः पूर्वापरसम्बन्धयुतोऽयं संपूर्णपाठः-" तथा अमीक्ष्ण-गमनागमनादिषु, विकृतिपरिमोगेऽपि चान्ये, किमित्याह-कायोत्सर्गकारी भवेत् , ईर्यापथप्रतिक्रमणमकृत्वा नान्यत्किमपि कुर्यात् , तदशुद्धतापत्तेः" इति (२८१ पत्रे), नह्यत्र सामायिकस्य नाममात्रमपि । एवमेव
"इरियं सुपडिकतो, कडसामाइओ य सुट्ट पिहियमुहो। सुत्तं दोसविमुत्तं, सपयच्छेयं गुणइ सड्ढो ॥१॥"
इत्येतच्छीमद्देवेन्द्रपरिविनिर्मितधर्मरत्नप्रकरणवृत्तिपाठं प्रदय सामायिकोच्चारास्त्रागीर्याप्रतिक्रान्तिप्रसाधनमप्ययुक्तमेव, यतो नात्र सामायिकग्रहणविधिः, किन्तु परावर्तनरूपस्वाध्यायविधिः, इदमुक्तं भवति-स्वाध्यायं कषुकामः श्राद्धः स्वाध्यायप्रारम्भात्प्रागवश्यं सुप्रतिक्रान्तेयः स्यात् , सुप्रतिक्रान्तेर्येणापि नाकृतसामायिकेन स्वाध्यायो विधेयः, अत एव पुनः प्रोक्तं-कृतसामायिकश्च स्यात् ; एतेन नियमिता स्वाध्यायात्प्रागीर्याप्रतिक्रमणस्य सामायिकग्रहणस्य चैतत्कर्तव्यद्वयस्यावश्यं विधेयता, न तु सामायिकोच्चारात्प्रागीर्याप्रतिक्रमणस्य । यदि चात्रोक्तामीर्या सामायिकविधिप्रतिबद्धां मन्यते तर्हि आवश्यकचूर्णि-वृत्यादिषु सामायिकनाममाहं प्रोक्तो विधिनिरर्थक एव स्यात्, अन्यश्चैत एव महर्षयः श्रीमद्देवेन्द्रसूरयः स्वकृतायां श्राद्धदिनकृत्य टीकायां कथं सामायिकोचारानन्तरमीयर्याप्रतिक्रमणं साक्षानिरूपयेयुः! अत: सिद्धमेतद्यदुत-नायं धर्मरत्नप्रकरणवृत्तिपाठः सामायिकग्रहणविधिप्रतिबद्धः ।
यच-" तओ राइए चरमजामे उहिऊण इरियावहियं पडिक्कमिय पुत्विं व पोति पेहिय नमोक्कारपुवं सामाइयसुत्तं कड्डिय |
SACRECASNA%
64
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नववचसं० प्रकरणम् स्वोपचः वृतिः ।
%EOCHAR
द्वादशव्रतविवरणे सामायिकग्रहणविधिनिर्णयः
80C4%
संदिसाविय सज्झायं कुणइ" इति पञ्चाशकचूर्णिपाठेन सामायिकोच्चारात्प्रागीर्याप्रतिक्रमणसमर्थनं तदप्ययुक्तं, यतो नायं विधि: केवलसामायिकग्रहणे, किन्तु पौषधिकस्य सामायिकग्रहणे, कोऽर्थः ? मुहूर्ताद्यवशिष्टायां निशायां गृहीतपौषधिकेन श्राद्धेन द्वितीयाति मुहूर्त्ताधवशिष्टायां निशायां सुप्नोस्थितेनेया प्रतिक्रम्य पुन: सामायिकं ग्रहीतव्यं, इत्वरसामायिकस्योत्कृष्टतोऽप्यष्टप्रहरात्मकः कालो निर्दिष्टः शास्त्रकारैस्तस्य तत्समये पूर्णीभवनात् । यदि चैतेन प्रमाणेन केवलसामायिकाहणेऽपि प्रागीर्याप्रतिक्रमणं स्वीक्रियते तर्हि किमर्थमेतस्यामेव चूर्णावेतैरेव सूरिवरैः केवलसामायिकविधि निरूपयद्भिः सामायिकोच्चारानन्तरमीर्याप्रतिक्रमणं निर्दिष्टं ?, पश्यतां सोऽपि पाठः"एएण विहिणा गंतूण तिविहेण साहुणो नमिऊण सामाइयं करेइ-'करेमि भंते ! सामाइयं, सावजं जोगं पच्चक्खामि, जाव साहुणो पज्जुवासामि, दुविहं तिविहेणं, एवमाइ उच्चरिऊण ततो इरियावहियाए पडिक्कमह, पच्छा आलोइत्ता बंदइ आयरियाइ जहा रायणियाए, पुणरवि गुरुं वंदित्ता पडिलेहिता भूमि णिविट्ठो पढइ सुणइ वा, एवं चेइएसु वि, असइ साहुचेइयाणं पोसहसालाए सगिहे वा सामाइयं आवस्सयं करेइ, तत्थ नवरि गमण नत्थि, भणइ-'जाव नियमं समाणेमि'त्ति । जो पुण इडिपत्तो सो सबरिद्धिए जाइ, जेण जणस्स अत्था होइ-(आदर इत्यर्थः )आढिया य साहुणो सुपुरिसपरिग्गहेणं भवंति, जइ पुण सो कयसामाइओ एइ तया आसहत्थिमाइहिं अहिगरण होजा, तं पुण न वट्टइ काउंति, अओ ण करेइ, तहा कयसामाइएण य पाएहिं आगंतवं, तेण न करेइ, आगो चेव साहुसमीवे करेह । जइ सो सावओ तया तस्स न कोइ अन्भुढेइ, अह अहा. भद्दओ तया पूया कया होउ ति पुवरइयं आसणं कीरह, आयरिया य उडिया चेव अच्छंति, मा उट्ठाणाणुट्ठाणकया दोसा भवेजा । पच्छा सो इड्विपत्तो सावगो सामाइयं करेइ, कहं ? 'करेमि भंते ! सामाइयं, सावजं जोगं पच्चक्खामि, दुविहं,
ACCALEGA4 %956*4
॥
९
5
AC
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तिविहेणं, जाव नियमं पज्जुवासामि' एवमाह, एवं सामाइयं काऊण इरियावहियं पडिकंतो वंदित्ता पुच्छर वा पढद्द वा इति प्रथमपचाशकस्य पञ्चविंशतितमाया गाथायाश्चूण ।
"9
" तथा " देवड्डी कुसुमसेहरं मुच्चह दवा हिगारमज्झम्मि ठवणायरियं ठविउं पोसहसालाए तो सिंहो उम्मुकभूसणो इरियापुरस्सरं मुहपत्तिं पडिले हिऊण " इत्यादिविवाहचूलिका सूत्रपाठस्यात्र सामायिकग्रहणविधौ निदर्शनं सर्वथैवानुचितं यतोऽस्मिन् पाठे “ मुहपत्ति पडिलेहिऊण" इत्यनेनापूर्णवाक्येन कथं निर्णेतुं शक्यते ? यदुतायं पाठः सामायिकग्रहणविधिनिरूपको वाऽन्यपौषधादिविधिनिरूपकः ?, वस्तुतः पौषधग्रहणविधिनिरूपक एवायं पाठः पश्यतां “ देवड्डी कुसुमसेहरं, मुच्चइ दवाहिगार मज्झम्मि । ठवणायरियं विउँ पोसहसालाए तो सीहो || १ || उम्मुकभूसणो सो, इरियाइ पुरस्सरं च मुहपनि । पडिलेहिऊण तत्तो, विहं पोसहं कुणइ || २ || " इति पूर्वापरसम्बन्धयुतोऽयं पाठो यथा प्रतिक्रमणहेतुगर्भे रात्रिप्रतिक्रमणविधिप्रारम्भेऽस्ति । तथा च निर्णीतं यदुत नायं पाठोऽत्र केवल सामायिकग्रह्णविधिप्रक्रमे प्रमाणपदवीमाटीकते ।
यत्पुनस्तपागच्छाचार्य श्रीमजयचन्द्रमूरिविहितप्रतिक्रमणहेतुगर्भोक्तया
" दवचणे पविचि, करेह जह काऊण वज्झतणुमुद्धिं । भावच्चणं च कुजा, वह इरियाए विमलचित्तो ॥ १ ॥ " इत्यनया गाथया सामायिके प्रागीयप्रतिक्रमणप्रसाधनं तदप्यसङ्गतं यतो नात्रापि सामायिकस्य नाममात्रमपि, किन्तु जिनाचैनप्रसङ्गोऽस्त्यत्र, तथा च यथा द्रव्यार्चने स्नात्रविलेपनादौ बाह्या तनुशुद्धिरवश्यं कर्त्तव्या भवति तथा भावार्चने चैत्यवन्दनादौ ईर्याप्रतिक्रमणेन भावशुद्धिरण्यवश्यं कर्त्तव्येति स्पष्टं प्रतिपाद्यते, परं नात्र सामायिकस्य नामापि, अतो नायमपि पाठः सामायिकप्रणविधि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्चसं ० प्रकरणम्
स्वोपज्ञ
वृत्तिः । ॥ १० ॥
www.kobatirth.org
प्रतिपादकः । एवमेव " तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए, तेणेव उवागच्छर, उवागच्छित्ता गमनागमणाए पडिकमति, पडिकमित्ता संखं समणोवासगं वंदति नम॑सति " इति ( ५५३ पत्रे ) पञ्चमाङ्गसूत्रपाठेनापि सामायिकोञ्चारात्प्रागीर्यांप्रतिक्रमण प्रस्थापनं न कथमपि समिचीनतामवति, यतोऽत्र पाठे 'पुष्कलिना इयाँ प्रतिक्रम्य शङ्खो वन्दितो नमस्कृतश्चेत्येतावन्मात्रमेव तूपलभ्यते, ततः कथं सामायिकविधौ पुरस्करणार्होऽयं पाठः ? अपि चैतेन पाठेन तु यथेय प्रतिक्रम्य शङ्खो वन्दितः पुष्कलिना तथा गुरु- चैत्यवन्दनादिकमपि सर्वमीर्यांप्रतिक्रमणपुरस्सरमेव स्वीकार्य स्यात् ।
यच्च "सामायिकं प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्याः, ते च तत्रतस्तीर्थकृत एवे "त्युत्तराध्ययनैकोनत्रिंशाध्ययनगृहद्वृत्तिपाठेन सामायिकोश्चारात्प्रागी र्याप्रतिक्रमणव्यवस्थापनं तदपि स्वाग्रह विजृम्भितमेब, यतो नानेन वृत्तिपाठेन सामायिक ग्रहणविधिः प्रतिपाद्यते वृत्तिकारपूज्यैः, किन्तु ज्ञानादिमुक्तिमार्गप्रसाधकेन जन्तुना क्रमशः प्राप्तव्यानां संवेगाद्यकर्मतावसानानां गुणानां यः क्रमः सूत्रकारैर्व्यवस्थापितस्तस्य पारस्परिक सम्बन्धः प्रदर्शितो भवत्यनेन पाठेन । चेदनेनैव पाठेन स्वीक्रियते, यत्सामायिकोञ्चारात्प्रागी यां प्रतिक्रम्य चतुर्विंशतिस्तवः प्रकध्यस्तर्हि कथं सूत्रकारैरेव प्राक्चतुर्विंशतिस्तवमनुक्त्वा सामायिकं प्रोक्तं ? नैतावन्मात्रमेव, किन्त्वेतदेव सम्बन्धनिदर्शनाय वृत्तिकृद्भिः " आलोचनादीनि च सामायिकवत एव तत्त्वतो भवन्तीति " ( पत्र ५८० ) प्रोक्ते सत्यप्यालोचनादितोऽपि प्राक्कथं सामायिकं नोक्तं ? । अपि च " आलोचनादीनि " इत्यत्रादिशब्देन गृहीते निन्दा - गणे सामायिकदण्डको चरणेनैव भवतः, ईर्याप्रतिक्रमणेन तु निन्दा गर्हणाविरहिता मात्रालोचनैव भवति । अन्यच “ आलोचनादीनि च सामायिकवत एव तत्त्वतो मवन्ती" त्येतत्पाठेन सामायिकमुच्चार्येर्याप्रतिक्रमणेनालोचना विधेयेत्यप्यावेदितं भवति, सामायिक
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशव्रतविवरणे
सामायिक
ग्रहणविधिनिर्णयः ।
॥ १० ॥
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
TOCOCE%OCCASIOCHk
लोच्य च वन्दते यथाक्रममाचार्यादीन् । पुनरपि गुरून् प्रणम्य प्रत्यवेक्ष्य प्रमाय॑ च निविष्टः पृच्छति वा पठति वा । वत्त्वस्य सामायिकदण्डकोच्चाराविनाभावित्वात् ।
अपरख-यद्यतैरनन्तरप्रदर्शितैर्महानिशीथायुत्तराध्ययनवृत्त्यवसानः प्रमाणैर्यत्र सामायिकस्य नामापि न दृश्यते, तैर्मात्रसामायिकग्रहणविधौ सामायिकोच्चारात्प्रागेवेर्याप्रतिक्रमणं स्वीक्रियते तावश्यकचूर्णिवृत्त्यादिप्राचीनतमेषु सर्वमान्यशास्त्रेषु सामायिकनामप्राहमुक्तस्य विधेर्नैरर्थक्यमापद्येत । किञ्च-"सामाइयं नाम सावजजोगपरिवजणं निरवञ्जजोगपडिसेवणं चे"त्यावश्यकसूत्रपाठेन तथा “तकं तु-तत्पुनः सामायिक 'विज्ञेयं ज्ञातव्यं 'सावधेतरयोगाना' सपापनिष्पापव्यापाराणां यथासंख्यं 'वर्जनासेवनरूपं' परिहारानुष्ठानस्वभाव, विवक्षितकालावधिनेति गम्यते" इत्येतत्पश्चाशकवृत्तिपाठेनापि च यथास, न त्वयथासङ्ख्यं, सावधयोगपरिवर्जनं निरवद्ययोगप्रतिसेवनं च जायते यस्मिन् धर्माचरणे, तदेव सामायिकमिति स्पष्टं प्रतिपाद्यते, तत्तु सामायिकोचारानन्तरमेवेर्याप्रतिक्रान्तितः सञ्जाघटीति, सामायिकोच्चरणेनैव सावद्ययोगपरिवर्जनस्याप्रतिक्रमणेन च निरवद्ययोगप्रतिसेवनस्य सम्भवात् । अतो यथा ज्ञातं निश्चियते-यत्सामायिकोच्चारानन्तरमेवेर्याप्रतिक्रमणं युक्तियुकं शास्त्रसम्मत्तं चाप्यस्ति ।
ननु पौषधे देशावकाशिके चापि कथं न पश्चादीर्याप्रतिक्रमणं ? इति चेदुच्यते-न तत्र कैश्चिद्भिरपि शास्त्रकारैस्तथा कर्तुमुपदिष्टं, या शास्त्राज्ञा सैव विधेतया प्रमाणतया चापि माह्या, यतः-"आणाए धम्मो आणाए, संजमो तह य दाणमाणाए। आणारहिओ धम्मो, पलालपूलब पडिहाइ ॥१॥" अतस्सर्वप्रमाणाः श्रीमजिनदासगणिमहत्तर-हरिभद्राचार्यप्रमुखैर्यत्र यो विधिः करणीयत्वेन निर्दिष्टः स एव करणीयः, तत्करणेनैवात्मश्रेय इत्यलं विशेषचर्चितेन, विशेषार्थिना विलोक्याः श्रीमत्समयसुन्दरोपाध्यायसङ्कलितसामाचारी
A
A
%*
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यिक एव सर्वा मावशङ्कया। समायातश्च मा मृत्यकरणं ४ अन
द्वादशव्रतकाविवरणम् ।
जवतवसं० प्रकरणम् स्वोपज्ञवृतिः ।
॥११॥
ऋद्धिप्राप्तश्चागृहीतसामायिक एव सर्वा माधुसन्निधौ समेति । कृतसामायिको हि नाश्वहस्त्यादिभिरागच्छेत् , अधिकरणभयात् , न च पादाभ्यामेव, जनेभ्यो लाघवशङ्कया। समायातश्च मुकुटकुण्डलादिभूषामपनीय सामायिकं करोति । शेष प्राग्वत । अस्याप्यतिचाराः पश्चैव-१ मनो २ वचन ३ कायदुष्प्रणिधानं स्मृत्यकरणं ४ अनवस्थितिकरणं ५ चेति । द्वितीय देशावकाशिकं, अस्यायमर्थ:-'देशे' दिग्वतगृहीतपरिमाणस्य विभागे 'अवकाशः' अवस्थानं देशावकाशः, तेन निर्वृत्तं देशावकाशिकं, उपलक्षण चेदं, तेन दिग्बतसक्षेपकरणवच्छेषव्रतानामपि सक्षेपकरण देशावकाशिकं वाच्यं । तत्र दिग्व्रतसइन्क्षेपकरणरूपस्याप्यतिचाराः पञ्च-आनयनप्रयोगः १ प्रेष्यप्रयोगः २ शब्दानुपात: ३ रूपानुपातः ४ बहिः पुद्गलप्रक्षेपश्चति ५। तृतीयं शिक्षाव्रतं पोषधः । अत्राय शब्दार्थः- 'पोष' पुष्टिं, प्रक्रमाद्धर्मस्य, धत्त इति पोषधः । एतच्च व्रतं आहार-देहसत्कार-ब्रह्मा-व्यापारविषयं, तत्राद्ययोर्वर्जनमन्त्ययोश्वासेवनं । एतच पोषधवतं चतुर्विधमपि प्रत्येकं देशतः सर्वतश्च भवति । तत्राहारपोषधव्रतं देशे विवक्षितविकृत्यादितपः, सर्वतश्चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानं । शरीरसत्कारपोषधस्तु देशे कस्यापि शरीरसत्कारविशेषस्य स्नानादेरकरण, सर्वतस्तु सर्वस्यापि तस्याकरणं । ब्रह्मचर्यपोषधोऽपि देशे नियतकालब्रह्मसेवनं, सर्वतस्तु अहोरात्रं यावद्ब्रह्मपालनं । अव्यापारपोषधोऽपि देशत एकतरस्य कस्यापि व्यापारस्याकरणं, सर्वतस्तु सर्वेषामप्यकरणं । अस्याप्यतिचाराः पञ्चैव-उत्सर्गआदानसंस्ताराखयोऽपि अनवेक्ष्य अप्रमृज्य च ३ अनादरः ४ स्मृत्यकरणं च ५ । चतुर्थमतिथिसंविभागः, अतिथिः साधुरेव, तिथिपर्वादिसकललौकिकव्यवहारत्यागात् , शतक-श्रीमजयसोमोपाध्यायसन्दृब्धस्वोपज्ञवृत्त्यलङ्कृतेर्यापथिकीपट्त्रिंशिकायाः संस्कृतप्रन्थाः प्रश्नोत्तरविचाराद्याश्च भाषाग्रन्थाः ।
AAEESANG
436
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
+
:
HICS4ACANCE%%94544
तस्य अतिथेः सङ्गतः-प्राक्पश्चात्कर्मरहितो विभागः अतिथिसंविभागः । अयं चातिथिसंविभागः श्राद्धेन न्यायागतानां कल्पनीयानां वस्तूनां दानेन देशकालोचितः प्रस्तावोचितश्च परमया भक्त्या विधेयः । अस्यातिचाराः पञ्च, ते च यथा-सचित्त निक्षेपणं १ सचित्तपिधानं २ कालातिक्रमः३ परव्यपदेशः४ मत्सरिता ५ चेति । सर्वेष्वपि ब्रतेषु अतिचारभावना पुनरिय-यदाऽनामोगादिनाऽतिक्रमादिना वाऽमुना चरति तदाऽतिचाराः स्युः, अन्यदा तु मङ्गा एवेति । एकविधेकविधेने त्यादिप्रकारगुह्यमाणेप्वमीषु व्रतेषु भडकानां कोटयो भवन्तीति । एतच्च सविशेष ग्रन्थान्तरेभ्योऽवधार्य । चतुर्विधधर्मश्रद्धालुत्वात्तदनुष्ठानेन दानशीलतपोभावभावकः विशेषतश्च दानधर्मरसिकत्वाल्लोकोत्तराद्यतिथिपूजकः सम्यग्दृष्टित्वेन देशविरतत्वेन च निरुद्धप्रथमद्वितीयकपायोदयत्वानिष्कषायः, देवपूजागुरूपास्तिस्वाध्यायसंयमतपोदानलक्षणपविधाचाराचरणेन लोकद्वयविरुद्धवर्जनेन च सदाचारः, तेषां तत्त्वदेवगुरूणामुपासकः श्राद्धः स्यादिति सम्बन्धः ॥ २२ ।। उक्तं श्राद्धस्वरूपं, सम्प्रति धर्महेतुमाहपरोपकरणाद्धर्मः, सबुद्धयाऽद्धासमेधते । सा सदागमसङ्गत्या, तत्तामश्रान्तमाश्रयेत् ॥ २३ ॥
व्याख्या-'परोपकरणात् परहितकरणाद्धर्म:-सम्यक्त्वादिः सबुद्ध्या-पौर्वापर्यपर्यालोचनात्मिकया 'अद्धा' निश्चितं 'समेधते' सम्यग्वृद्धिं याति, सा-बुद्धिः सदागमसङ्गत्या-जिनागमपयुपासनया तत्तस्माचा-सदागमसङ्गतिमश्रान्तमाश्रयेदिति सम्बन्धः ॥ २३ ॥ सदागमसङ्गतिश्रयणाद्विवेकः स्यादिति तमेवाहहेयोपादेयकर्त्तव्य-सम्यग्ज्ञाननिदानभूः । हकः सर्वभावानां, विवेकः समुदाहृतः॥ २४ ॥ व्याख्या-'हेयोपादेयकर्त्तव्येषु' मिथ्यात्वसम्यक्त्वयोर्हानोपादानलक्षणेषु कृत्येषु यत्सम्यग्ज्ञानं, तस्य कारणत्वेन
ACACHECACAGA4%
AECOGN
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्वसं ०
प्रकरणम् स्वोपज्ञवृत्तिः ।
॥ १२ ॥
www.kobatirth.org
'निदानभूः' उत्पत्तिभूमिः 'बृंहक:' पोषकः 'सर्वभावानां सर्वपदार्थानां तद्विषयज्ञानजनकत्वात्, विवेकः समुदाहृत इति प्रकटः सम्बन्धः ॥ २४ ॥ विवेकाच्च निर्वेदगर्भः संवेगः स्यादतस्तमाह
भावनं भवभावानां तन्निदाने विरागिता । मोक्षाय मानसोद्योगः, संवेगो वै स गीयते ॥ २५ ॥
व्याख्या - यद् 'भावनं' चिन्तनं 'भवभावानां' सांसारिक वस्तूनां या च तन्निदाने' भवकारणे 'विरागिता' निर्वेदः, यश्व मोक्षाय 'मानसोद्योगः' चित्तोत्साहः, संवेगो 'वै' अहो स गीयत इति सम्बन्धः ।। २५ ।।
संवेगश्च जीवादिनवपदार्थविवेचनेन पृष्टः स्यादतस्तानाह
जीवाजीवस्तथा पुण्य, पापैमाश्रवैसंर्वरौ । निर्जरॉबन्धमोक्षौ च पदार्था नव संस्मृताः ॥ २६ ॥
व्याख्या - सुगम एवास्य सम्बन्धः ॥ २६ ॥ प्रथमं जीवस्वरूपमाह -
अव्यक्तो व्यक्तचैतन्यः, सङ्ख्यातीतप्रदेशवान् । जीवः स्वकर्मणां भोक्ता, वपुर्व्यापितया स्थितः ॥
व्याख्या—चक्षुरादिभिरगृह्यमाणत्वादव्यक्तः, स्वसंवेदनरूपत्वाद्व्यक्त चैतन्यः, लोकाकाशवदसङ्ख्य प्रदेशत्वात्सख्यातीतप्रदेशवान्, जीवः प्रतीतः, स्वकृतानुभवितृत्वेन स्वकर्मणां भोक्ता, वपुः परिमाणत्वेन वपुर्व्यापितया स्थितः, अनेन देहप्रमाणत्वमात्मनः प्रतिष्ठितमिति ॥ २७ ॥ साम्प्रतमनेकप्रकारैः श्लोकत्रयेण जीवभेदानाह— व्यवहाराव्यवहाराः सइयसञ्ज्ञाश्चराश्चराः । गर्भजेतरभेदाश्च, जीवा इत्थं द्विधा स्थिताः ॥ २८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
विवेक
संवेगयोः
स्वरूपम् ।
॥ १२ ॥
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SENTENCESCARE
स्त्रीपुन्नपुंसकैदै-स्त्रिधा जीवाः प्रकीर्तिताः । चतुश्चारैश्चतुर्भेदाः, पञ्चभिः खैश्च पश्चधा ॥ २९ ॥ भूम्यम्भोवहयो वात-वानस्पत्यत्रसाश्च षट् । चतुरशीतिलक्षाणि, जायन्ते योनिभेदतः ॥ ३०॥
व्याख्या-व्यवहारराशिपतितत्वाद्व्यवहारास्तद्विपरीता अव्यवहाराः, समनस्काः सज्ञिनः, अमनस्का असज्ञाः, ४|सा द्वीन्द्रियादयश्चराः, स्थावराः पृथिव्यादिका अचराः, गर्भसम्भूता गर्भजास्तद्विपरीता इतरे । इत्थमेभिः प्रकारर्जीवा
द्विधा स्थिताः ॥ २८ ॥ 'स्त्रीपुन्नपुंसकैदै रित्याद्या सुगममेव, नरकतिर्यनरामरगतिरूपैश्चतुश्चारैश्चतुर्भेदाः, पश्चभिः खैः[इन्द्रियः ] स्पर्शनादिभिः पञ्चधा ।। २९ ॥ भृम्याद्यास्त्रसावसानाः षट्, योनिभेदानां चतुरशीतिलक्षत्वाजीवानां चतुरशीतिलक्षाणि जायन्ते । योनिभेदानां चतुरशीतिर्लक्षा एवं भवन्ति-पृथिव्युदकवह्निमारुतानां प्रत्येकं सप्तसप्तयोनिलक्षाः, प्रत्येकवनस्पतीनां दश, साधारणवनस्पतीनां चतुर्दश, विकलेन्द्रियाणां प्रत्येकं द्वौ द्वौ, नारकाणां सुराणां च प्रत्येकं चत्वारः, तिर्यक्पश्चेन्द्रियाणां चत्वारः, मनुजानां पुनश्चतुर्दश, एवमनया सर्वसङ्ख्यया च चतुरशीतियोनिलक्षा भवन्ति ॥ ३०॥
एतानेव व्यवहारादीन जीवभेदान् श्लोकचतुष्टयेन विवृण्वन्नाहव्यक्ताश्चिपिणो युक्ता, भीसङ्गाहारमैथुनैः। एकेन्द्रियादयो जीवाः, संसारे व्यवहारिणः॥३१॥ निगोदाबादराः सूक्ष्मा, असङ्ख्या लोकवर्तिनः। अनन्तप्राणिनःसूक्ष्मा, एव चाव्यवहारिणः॥३२॥ ससज्ञा नारका दिव्याः, पश्चाक्षागर्भसम्भवाः। शेषाः सर्वेऽपि निस्सज्ञा-स्तिर्यञ्चो मनुजास्तथा ॥३३॥
SAHARAJ513
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतचसं० प्रकरणम् स्वोपन्नवृचिः ।
जीवतत्वे व्यवहार्यव्यवहा
CASSOCIR
यांचा
जीवा।
॥१३॥
एकादिचतुरक्षान्ताः, पञ्चाक्षा अप्यगर्भजाः। जीवाः सम्मछजा ज्ञेया, मनःपर्याप्तिवर्जिताः॥३४॥ - व्याख्या-'व्यक्ता' पृथिव्यादिस्कन्धापञ्चत्वेन उपलक्ष्याः, चिदूपिणश्चैतन्यवन्तः, युक्ताः-संयुक्ताः, कै? भीसङ्गाहास्मैथुनः, सङ्ग:-परिग्रहः, एकेन्द्रियादयः-पृथिव्यादयो जीवाः संसारे व्यवहारिणः ॥३१॥ साधारणजीवानां बादरत्वात्सूक्ष्मस्वाच्च तन्निगोदा अपि शरीरलक्षणापरपर्याया बादराः सूक्ष्माः, सङ्ख्याऽतीतत्वादसयाः , तेषामलोकेऽभावाल्लोकवर्तिनः, अनन्तप्राणिन:-अनन्तकायिकाः, सूक्ष्मा एव, न तु बादराः, अव्यवहारिणः, चकाराद्व्यवहारिणोऽप्यमी भवन्तीति ज्ञातव्यम् ॥ ३२ ॥ सज्ञा-मनोविज्ञान, तया सह वर्तन्त इति ससञ्ज्ञाः, नारका-नरकोत्पन्नाः, दिव्या-दिवि भवाः, पश्चाक्षा:-पश्चेन्द्रियास्तियञ्चो मनुजाच, ते द्वये[? द्वे]ऽपि कीदृशाः ? गर्भसम्भवाः, शेषा-उक्तेम्योऽन्ये सर्वेऽपि निस्सज्ञा-असचिनः, के? ते, तिर्यञ्चो मनुजास्तथा ।। ३३ ।। एवमेव तृतीयश्लोकोत्तरार्द्ध चतुर्थ श्लोकेन स्पष्टयति-एकेन्द्रियादयश्चतुरिन्द्रियान्ताः, पश्चाक्षा अपि-पञ्चेन्द्रिया अपि तिर्यश्चो मनुजाश्च, एते सर्वेऽप्यगर्भजाः सन्तो जीवाः समूछेजा ज्ञेयाः, यतो मनःपर्याप्तिवर्जिताः । व्यक्ताव्यक्तचराचरगर्भजेतरलक्षणं भेदत्रयं व्यवहाराव्यहारसयसज्ञिलक्षणमेदद्वयव्याख्यानेनैव गतार्थमिति पृथक न व्याख्यातम् ॥ ३४ ॥ जीवानामपरांश्चतुर्दशभेदानाहसूक्ष्मस्थलैकखा जीवा, द्विव्यक्षाश्चतुरिन्द्रियाः। सञ्झ्यज्ञाः पश्चखाः पर्या-तेतराभ्यां चतुर्दश ॥३५॥ ___ व्याख्या-'एकखा' एकेन्द्रिया जीवा द्विविधाः-सूक्ष्माः स्थूलाच, द्वित्रिचतुरिन्द्रियास्त्रयः, पश्चेन्द्रिया द्वये-सचिनोऽसब्जिनश्च, एते सप्तापि पर्याप्तापर्याप्तभेदाभ्यां चतुर्दशेति सम्बन्धः ॥ ३५ ॥
ACCAS
CANCECAUCACHE
P॥१३॥
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ICE%
साम्प्रतं जीवगतमार्गणानां पूर्व तावदष्टौ भेदानाहद्रव्यं क्रोधादयो योगो-पयोगी ज्ञानदर्शने । चारित्रं वीर्यमित्येव-मात्मनो मार्गणाऽष्टधा ॥ ३६॥
व्याख्या--'द्रव्यं' द्रव्यात्मा, कषायवतां क्रोधादयः कषायाः, सयोगानां योगा मनोवाकायरूपाः, सर्वजीवानामुपयोगचैतन्यं, सम्यग्दृष्टीनां ज्ञानं यथार्थावबोधः, दर्शनवतां दर्शनं-सामान्यज्ञानं चक्षुरादिदर्शनं वा, चारित्रवतां चारित्रं-क्रियाऽनुष्ठानं, तदन्तरायक्षयक्षयोपशमवतां वीर्य-शक्तिः । इत्येवं द्रव्यादिभिरष्टभिः प्रकारात्मनो मार्गणाऽष्टधेति सम्बन्धः ।। ३६ ॥
अपरा अपि जीवगतमार्गणाश्चतुर्दश आहगत्यक्षयोगवेदाङ्ग-कर्षायज्ञॉनसंयमैः। गलेश्याँभव्यसम्यक्त्व-साहारेश्च मार्गणाः ॥३७॥ व्याख्या-गत्यादिभिश्चतुर्दशमिर्जीवस्य मार्गणा अपि तावत्यः स्युरिति सम्बन्धः ॥ ३७॥ इदानीं गत्यादीनामेव पृथक्पृथग भेदानाचष्टेगतीन्द्रियादयश्चात्र, चतुष्पश्चादिभेदतः। द्विषष्टिभेदा विज्ञेया, भिद्यमानाः पृथक्पृथक् ॥३८॥
व्याख्या-गतीन्द्रियादयश्चतुर्दशाप्यत्र-मार्गणाविचारे चतुष्पञ्चादिभिर्मेदैर्यथाक्रमं पृथक्पृथगभिद्यमाना द्विषष्टिमेदा विजेया इति तात्पर्यार्थः। ते चामी-नारकतिर्यङ्नरामरलक्षणा गतयश्चतस्रः [४], स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि इन्द्रियाणि पश्च [९], मनोवाक्कायरूपा योगास्त्रयः [१२], स्त्रीपुनपुंसकलक्षणा वेदात्रयः [१५], अङ्गशब्दस्य कायपर्यायत्वात्पृथिव्य
ACARCIPS
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
नवतत्वसं० प्रकरणम् स्वोपज्ञवृतिः ।
॥१४॥
ॐकार
प्लेजःपवनवनस्पतित्रसकायाः पट [२१], क्रोधमानमायालोमलक्षणाः कषायाश्चत्वारः [२५], मतिश्रुतावधिमनःपर्याय केवलम
| जीवतत्वे त्यज्ञानश्रुताज्ञानविभङ्गरूपाणि ज्ञानान्यष्टौ [३३], सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धि-x [सूक्ष्मसम्पराय-यथाख्या
द्वापष्टितरूपाः संयमाः पञ्च, संयमग्रहणेन तत्प्रतिपक्षभृतो देशसंयमोऽसंयमश्च गृह्यते, अतोऽस्य भेदाः सप्त ४०, चक्षुरचक्षुरवधि
1मार्गणाः। केवलाख्यानि दर्शनानि चत्वारि ४४, कृष्णनीलकापोततेजःपबंशुक्ललेश्याः षट् ५०, भव्यत्वं-तथारूपानादिपारिणामिकभावात्सिद्धिगमनयोग्यत्वं, तत्प्रतिपक्षभूतस्याभव्यत्त्वस्य-सिद्धिगमनायोग्यत्वस्यापि ग्रहणाविभेदमेतत् ५२, सम्यक्त्वंसम्यकशब्दः प्रशंसार्थोऽविरुद्धार्थो वा, सम्यग्-जीवः, तद्भावः सम्यक्त्वं-प्रशस्तो मोक्षाविरोधी वा जीवस्य परिणामविशेषः, तच्च सम्यक्त्वं विधा-क्षायिक क्षायोपशमिकमौपशमिकं च, तत्र त्रिविधस्यापि दर्शनमोहनीयस्य क्षयेण-आत्यन्तिकोच्छेदेन निर्वृत्तं क्षायिक, यत्पुनरुदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापत्तिलक्षणेन विष्कम्भितोदयित्वरूपेण च निवृत्तं, तत्क्षायोपशमिकं, तथा उदीर्णस्य मिथ्यात्वस्य क्षये सत्यनुदीर्णस्य य उपशमो-विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं, तेन निवृत्तमौपशमिकं । सम्यक्त्वग्रहणेन तत्प्रतिपक्षभूतानि मिश्रसास्वादन मिथ्यात्वान्यपि ग्राह्याणि, अतः पद्रिकल्पमेतत् ५८, सज्ञाऽस्यास्तीति सज्ञी-विशिष्टस्मरणादिमनोविज्ञानभाक्, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियादिरसञ्जी, सोऽपि सनिग्रहणेन सूचितो द्रष्टव्यः, अतो मेदद्वयमस्य ६०, ओजोलोमप्रक्षेपाहाराणामन्यतममाहारयतीत्याहारकः तत्प्रतिपक्षभूतोऽनाहारकः, अतः] आहारकानाहारकभेदावपि द्वौ [६२] ॥ ३८॥
xनोपलभ्यत इतोऽप्रेतनोऽर्थोऽस्माभिरुपलब्धप्रतिषु, अतः पञ्चसङ्ग्रहकर्मग्रन्थवृत्त्योरुद्धृत्योपन्यस्तोऽयं [ ] एतच्चिद्वान्तर्गतः पाठः। ॥१४॥
+KACHAR
For Private And Personal use only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shirikissagarsur Gyarmandie
4-30-40%ACHCRACIDCASHANCHAL
जीवप्रस्तावाच जीवगुणस्थानकानि चतुर्दश श्लोकद्वयेनाहमिथ्या सोस्वादन मिश्रा-विरैतौ देशंसंयतः। प्रमत्ताप्रमत्ताप्रर्व-करणाश्चानिवृक्तिकः ॥ ३९ ॥ सूक्ष्मसम्परायस्तथो-पशान्तक्षीणमोहकौ। सेयोगायोगिनौ ज्ञेया-श्चतुर्दश गुणाः क्रमात् ॥४०॥
[युग्मम् ] व्याख्या-मिथ्याद्या अयोग्यन्ताश्चतुर्दश गुणा-अवयवे समुदायोपचाराद् गुणस्थानकानि 'क्रमात्' परिपाट्या ज्ञेया इत्यन्वयः । तत्र मिथ्येति भावप्रधानो निर्देश इति मिथ्यात्वं-तत्वा[A] श्रद्धानरूपं १ । आस्वादनं-अनन्तानुबन्धिकषायवेदनं, सह आस्वादनेन वर्त्तते सास्वादन, एतच्चानन्तानुबन्धिकषायोदयेऽन्तरकरणभाविप्रतिपतदौपशमिकसम्यक्त्वस्य जीवस्य जघन्यत | एकसमयमानमुत्कर्षतश्च पडावलिकामानं भवतीति २। मिश्रश्वावयवे समुदायव्यपदेशान्मिश्रदृष्टिः, ततश्च मिश्रा-सम्यक मिथ्या च दृष्टिर्यस्य स मिश्रदृष्टिः, स्थानस्थानवतोरमेदोपचारात् , अयं चान्तर्मुहूर्त भवति, ततः परं मिथ्यादृष्टिः सम्यग्दृष्टिर्वा स्यात् ३ । न विरतमस्यास्तीति अविरतः, एतस्य ज्ञानमेव, ज्ञानं सम्यग्दृष्टिरिति न्यायात् , विरतिः पुनः प्रत्याख्यानावरणकषायोदयवशान्न स्यात् ४ । देशे संयतो देशसंयतः, विरताविरत इत्यर्थः ५। प्रमत्ता-कषायादिप्रमादानामन्यतरेण प्रमादेन प्रमादवान् ६ । अप्रमत्तः-प्रमादरहितः ७। अपूर्व स्थितिघात-रसघात-गुणश्रेणि-गुणसङ्कम-स्थितिबन्धानां पश्चानामर्थानां करणं-निवर्त्तनं यस्यासावपूर्वकरणः, अयं च द्विधा-क्षपक उपशमको वा, क्षपणोपशमनार्हत्वात् , राज्याहराजकुमारवत् , न पुनरसौ क्षपयत्युपशमयति वा ८ । न निवृत्तिरस्यासावनिवृत्तिका, इदमत्र हृदयं-ये किलैतद्गुणस्थानकं युगपदारोहन्ति
SCIRCRACK
For Private And Personal use only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवतच्चे चतुर्दश
स्थानानि।
नवतत्त्वसं०८ तेषां सम्बन्धिनामध्यवसायानां परस्परं व्यावृत्तिर्निवृत्तिर्नास्तीति, तुल्याध्यवसाया इत्यर्थः ९॥३९॥ सूक्ष्मः सम्परायःप्रकरणम् किट्टीकृतलोभकषायोदयरूपो यस्य स सूक्ष्मसम्परायः, अयमपि द्विविधः-क्षपक उपशमको वा, यतः क्षपयति उपशमयति स्वोपन- बा लोभमेकम् १० । उपशान्त-क्षीणमोहकावित्यत्र मोहशब्दस्य प्रत्येकमभिसम्बन्धादुपशान्तमोहकः क्षीणमोहकश्च, उपवृत्तिः । शान्तमोहश्च स येनोदयोदीरणानिधत्तनिकाचनासङ्कमणोद्वर्तनापवर्तनाकरणायोगत्वेन मोहप्रकृतयः कृताः। मोहोपशमक्रम
थाय-यद्तानन्तानुबन्धिकषायान् प्रमत्तसंयतः प्रथम, मतान्तरेण पुनरविरतदेशविरतप्रमत्ताप्रमत्तानामन्यतर उपशमयति, तदनु दर्शनमोहत्रितयमुपशमयति, तदनु प्रमत्ताप्रमत्तगुणस्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्वकरणगुणस्थानोत्तरकालमनिवृत्तिकरणगुणस्थाने चारित्रमोहस्य प्रथमं नपुंसकवेदमुपशयति, ततः स्त्रीवेदं, ततो हास्यरत्यरतिशोकमयजुगुप्सारूपं युगपत्पटकं, ततः पुरुषवे[८]द:(.), ततो युगपद् द्वितीयतृतीयौ क्रोधौ, ततश्चतुर्थ क्रोधं, ततो युगपद् द्वितीयतृतीयौ मानौ, ततश्चतुर्थ मानं, ततो युगपद् द्वितीयतृतीये माये, ततश्चतुर्थी माया, ततो युगपद् द्वितीयतृतीयौ लोभौ, ततस्सूक्ष्मसम्पराये चतुर्थ लोभमुपशमयतीत्युपशमश्रेणिरेषा ११ । क्षीणमोहकश्च-क्षपितमोहः, मोहक्षपणक्रमश्चार्य-तत्र अविरतादिः प्रथममनन्तानुबन्धिनः क्षपयति, तदनु मोहदर्शनत्रयं, ततोऽपि द्वितीयतृतीयानष्टौ कषायांस्ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषट्क, ततः पुरुषवेद, ततः क्रमेण सज्वलनक्रोधमानमायालोभान [क्षपयतीति] क्षपकश्रेणिरेषा १२। सयोग इति वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमात्मनो वीर्य योगो मनोवाकायरूपस्तेन सह वर्तत इति, तत्र सयोगस्यास्य केवलिनो भगवतः काययोगः चक्रमणनिमेपोन्मेषादौ वाग्योगस्तु देशनादौ मनोयोगश्च मनःपर्यायज्ञानिभिवेय
AAAX
SAKAL
॥ १५॥
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कानुत्तरसुरादिभिर्वा मनसा दृ[]ष्टस्य सतो मनसैव देशनायां, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनावधि - ज्ञानेन वा जानन्ति ततस्तद्वारेण पृष्टमर्थमवगच्छन्तीति १३ । अयोगी तु निरुद्धमनोवाक्काययोगः, योगनिरोधश्वेत्थं, यदुत - योगः प्रत्येकं द्विविधः - सूक्ष्मो बादरथ, तत्र प्रथमं चादरकाययोगेन बादरवाङ्मनोयोगौ निरुणद्धि, ततः सूक्ष्मका योगेन बादरकाययोगं, सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात्, ततश्च सर्वबादरयोग निरोधानन्तरं सूक्ष्मक्रियमनिवर्त्तिशुक्लध्यानं ध्यायन् सूक्ष्मकाययोगेन सूक्ष्ममनोवाग्योगौ निरुणद्धि, ततस्तमेव सूक्ष्मकाययोगं स्वात्मनैव निरुद्धि, तन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपातिशुक्लध्यानं ध्यायन् ह्रस्वपञ्चाक्षरोच्चारणमात्रकालं शैलेशीकरणं प्रविशति । शीलस्य-योगलेश्याकलङ्कमुक्तयथाख्यात चारित्रलक्षणस्य य ईशः स शीलेशः, तस्येयं शैलेशी - त्रिभागोन स्वदेहावगाहनायामुदरादिरन्ध्रपूरणवशात्सङ्कोचितस्त्र प्रदेशस्य शीलेशस्यात्मनोऽत्यन्तस्थिराऽवस्थितिः, तस्यां करणं- पूर्वरचितशैलेशी समयसमान गुणश्रेणिकस्य वेदनीयनामगोत्राख्यस्य भवोपग्राहि कर्मत्रित यस्यासङ्ख्ये यगुणया श्रेण्या आयुश्शेषस्य यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तदनन्तरं मुक्तः स्यात् १४ ॥ ४० ॥ सम्प्रति द्वितीयमजीवपदार्थमाहधर्माधर्मनभःकाल - पुद्गलाश्चेति पञ्चधा । अजीवास्ते पुनर्भेदै - भिद्यमानाश्चतुर्दश ॥ ४१ ॥
व्याख्या—धर्मास्तिकायाद्या अजीवाः पञ्चधा स्युः, ते पुनः स्वैर्भेदैर्भिद्यमानाश्चतुर्दश-धर्माधर्मनमांसि त्रीणि द्रव्यदेशप्रदेशः प्रत्येकं भिद्यमानानि तानि नवसङ्ख्यानि भवन्ति, कालश्चैकरूपः, पुद्गलश्च स्कन्धदेशप्रदेश परमाणुभिश्चतुर्द्धा, एवमेते चतुर्दश ॥ ४१ ॥ एतेषां पञ्चानामप्यजीवानां कार्याणि श्लोकत्रयेण दर्शयन्नाह -
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
नवतत्त्वसं० प्रकरणम् स्वोपज्ञवृत्तिः ।
*अजीवतत्वे
धर्मास्तिकायादीनां स्वरूपम् ।
॥१६॥
धर्माद्गतिःस्थितिमता-मधर्मः स्थितिकारणम् । आकाशमवकाशाय, कालस्तु समयादिकः॥४२॥ स्थूलसूक्ष्मत्ववर्णाद्याः, शब्दसंस्थानतामसाः। बन्धभेदातपोद्योताः, सुखदुःखोच्छ्सनादयः॥४३॥ वाङ्मनःकायकर्माणि, जीवितं जननादयः। पुदगलोपग्रहादेव, कार्यभेदा भवन्त्यमी ॥४४॥
[त्रिभिर्विशेषकम् । ___व्याख्या-'धर्माद्' धर्मास्तिकायाद् गतिमतां पुद्गलानां जीवानां च 'गतिः' गमनं स्यात् । 'स्थितिमतां' स्थायिनां 'अधर्मः' अधर्मास्तिकायः 'स्थितिकारणं स्थितिहेतुः । 'अवकाशाय' अवकाशदानाय कारण[माकाश]माकाशास्तिकायः । कालस्तु 'समयादिक' समयावलिकादिव्यवहारकृत् ॥ ४२ ॥ 'स्थूलत्वं' पीनत्वं 'सूक्ष्मत्वं तनुत्वं 'वर्णः' श्वेतपीतादिः, आदिशब्दाद्गन्धादिपरिग्रहः, शब्दो वाग्वगणाजन्यः, संस्थान-समचतुरस्रादि, तामसस्तमोविकारः, बन्धमेदा-औदारिकवैक्रियाहारकतैजसभाषाऽऽनप्राणमनःकर्मवर्गणापुद्गलानां सम्बन्धविशेषाः, आतयः-अर्कविम्बादिगत उष्णः प्रकाशः, उद्द्योत:-चन्द्रबिम्बादिगतोऽनुष्णः प्रकाशः, सुख-सातं, दुःखं-असात, उच्चसन-उदानपवन:, आदि शब्दात्प्राणादिपरिग्रहः ॥ ४३ ।। वाङ्मनःकायकर्माणि-तद्व्यापाराः, जीवितं-प्राणधारणं, जनन-उत्पत्तिः, आदिशब्दावृत्यादिपरिग्रहः, ततोऽयमर्थः-स्थूलसूक्ष्मत्वाद्या अमी कार्यमेदाः पुद्गलोपग्रहादेव-तदुपष्टम्भादेव भवन्तीति सम्बन्धः ।। ४४ ॥
तृतीयं पुण्यपदार्थममिधित्सुराह
P
॥१६॥
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुण्यं स्वपरोपकारात् प्राणिसम्प्रीणनेन सः । क्षान्त्यादिभिर्गुणैस्तच्च तदमी मूलहेतवः ॥ ४५ ॥ व्याख्या - 'पुण्यं' शुभं कर्म स्वपरोपकारात्स्यात्, प्राणिसम्प्रीणनेन प्राणितोषेणेन सः-स्वपरोपकार इत्यधिकृतं । क्षान्त्यादिभिर्गुणैस्तच्च-प्राणिसम्प्रीणनं स्यात्, तत्तस्मात्कारणादमी - क्षान्त्यादयो गुणा मूलहेतवी - मूलकारणानि, पुण्यस्येति सम्बन्धः || ४५ ।। पुण्यविपक्षं पापमाह
पापं हिंसादिसम्भूर्त, ते तु रौद्रार्त्तभावतः । स कषायैः कृतोत्कर्ष - स्ततस्ते मुख्य कारणम् ॥ ४६ ॥
व्याख्या - 'पाप' अंशुमं कर्म 'हिंसादिसम्भूर्त' प्राणिवधादिजनितं । 'ते तु' हिंसादयो 'रौद्रार्त्तभावतः' रौद्रार्चपरिणामतः । 'स' रौद्रार्त्तभावः कषायैः क्रोधादिभिः कृतोत्कर्षः । ततः कारणात्ते - कषायाः पापस्य मुख्यकारणमिति सम्बन्धः ॥ ४६ ॥ अधुना पुण्यप्रकृतीनां पापप्रकृतीनां च यथाक्रमं भेदानाह
द्विचत्वारिंशत्साताद्याः, पुण्यप्रकृतयो मताः । असाताद्या यशीतिस्तु, पापप्रकृतयः स्मृताः ॥४७॥
व्याख्या — द्विचत्वारिंशत्सङ्ख्याः पुण्यप्रकृतयः साताद्या मताः, ताश्चैताः- सातं नरायुस्तिर्यगायुः सुरायुः उच्चैगोत्रं पराधातः आतपः उद्योतः उच्छ्लासः निर्माण पश्चेन्द्रियजातिः वज्रर्षभनाराचसंहननं समचतुरस्त्र संस्थानं त्रसत्वं बादरं पर्याप्तं प्रत्येकं स्थिरं शुभं सुभगं सुस्वरं आदेयं यशः कीर्तिः तीर्थङ्करनामकर्म सुवर्णः सुगन्धः सुरसः सुस्पर्शः, देवगतिः देवानुपूर्वी मनुष्यगतिः मनुष्यानुपूर्वी, औदारिकं वैक्रियं आहारकं तैजसं कार्मणं [ शरीरमिति गम्यम् ] औदारिकाङ्गोपाङ्ग वैक्रियाङ्गो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुण्य-पापप्रकृतयः आश्रवसंवरौ च।
नवतचसं० ला | पाङ्गं आहारकाङ्गोपाङ्गं, अगुरुलघु शुभविहायोगतिरिति । व्यशीतिः पुनः पापप्रकृतयोऽसाताद्याः स्मृताः, ताश्चेमा:-असात प्रकरणम्
स्थावरं सूक्ष्म अपर्याप्तं साधारणं अस्थिरं अशुभं दुभंगं दुःस्वरं अनादेयं अयशोऽकीर्तिः, दुर्वर्णः दुर्गन्धः विरसः दुःस्पर्शः, स्वोपच
एकेन्द्रियजाति: द्वीन्द्रियजातिः त्रीन्द्रियजातिः चतुरिन्द्रियजातिः, ऋषभनाराचं नाराचं अर्द्धनाराचं कीलिका सेवातं, चिः ।
न्यग्रोध(परि)मण्डलं सादि वामनं कुब्ज हुण्डं, अशुभविहायोगतिः तिर्यग्गतिः तिर्यगानुपूर्वी नरकगतिः नरकानुपूर्वी उपघातः नरकायुः नीचैर्गोत्रं केवलज्ञानावरणं केवलदर्शनावरणं, अनन्तानुबन्धिनः कषायाश्चत्वारः प्रत्याख्यानावरणकषायाश्चत्वारः अप्रत्याख्यानावरणकषाया अपि चत्वारः, मिथ्यात्वं निद्रापश्चकं संज्वलनकषायाश्चत्वारः, मतिश्रुतावधिमनःपर्यायाणामावरणानि चत्वारि, चक्षुरचक्षुरवधिदर्शनानामावरणानि त्रीणि, दानलाभभोगोपभोगवीर्यान्तरायाः पञ्च, हास्य रतिः अरतिः शोकः भयं जुगुप्सा[च षट् ], स्त्रीपुनपुंसकवेदास्त्रय इति ॥ ४७ ।। उक्तश्चतुर्थः पदार्थः, सम्प्रति पञ्चममाहजीवसरस्तमोनीर-पूरणे श्रोतसा समः। वाकायमनसां कर्म-योगो विश्रुत आश्रवः॥४८॥
व्याख्या-जीव एव सरस्तत्र 'तमांसि' पापानि, तान्येव नीराणि, तत्पूरणे 'श्रोतसा' जलप्रवेशद्वारेण 'समः' तुल्यः वाकायमनसां 'कर्मयोगः' क्रियायोगो विश्रुत आश्रव इति ॥ ४८॥ आश्रवविपक्षं षष्ठं संवरमाहशब्दरूपरसस्पर्श-गन्धेष्वासक्तिवर्जनात् । मनस्संवरणाच्चैव, संवरः सम्प्रकीर्तितः॥ १९॥
व्याख्या-शब्दायेषु विषयेषु 'आसक्तिवर्जनाद्' अभिष्वङ्गत्यागान्मनस्संवरणाच्चैव-तन्निरोधादेव संवरः सम्प्रकीर्तित इति ॥
RIGOROGR
ISARAIL
॥१७॥
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HARGAVARAAE
उक्तः संवरः, इदानीं निर्जरामाहप्रायश्चित्तादिभिःषभिः, षडभिश्चानशनादिभिः। कीर्तिताऽऽभ्यन्तर्वा-िस्तपोभिः कर्मनिर्जरा।
व्याख्या-प्रायश्चित्तादिभिः षड्भिराभ्यन्तरैरनशनादिभिश्च षड्भिर्बास्तिपोभिः कर्मणां निर्जरणं कर्मनिर्जरा कीर्त्तितेति सम्बन्धः ॥ ५० ॥ उक्ता निर्जरा, अथ श्लोकद्वयेन बन्धमाहपञ्चप्रकारं मिथ्यात्वं, कषायाः पञ्चविंशतिः। योगाः पञ्चदश तथाऽविरतिः सूर्यसम्मिता ॥५१॥ सप्तपश्चाशदित्येते, कर्मबन्धस्य हेतवः । प्रकृतिस्थित्यनुभाव-प्रदेशैः स चतुर्विधः॥५२॥[ युग्मम् ]
व्याख्या-'पश्चप्रकारं पञ्चभेदं मिथ्यात्वं, तद्यथा-आभिग्रहिकं अनामिग्रहिक अभिनिवेशजं सांशयिकं अनाभोगजं चेति । कषाया:-क्रोधादयश्चत्वारः, प्रत्येकमनन्तानुवन्धि-प्रत्याख्याना-प्रत्याख्यान-सज्वलनभेदैभिंद्यमानाः षोडश । कषायशब्दस्य नोकपायेष्वपि प्रसिद्धत्वात्कषाया नोकषाया अपि, ते च हास्यरत्यरतिशोकमयजुगुप्साषट्कस्त्रीपुनपुंसकलक्षणवेदत्रयाभ्यां नव, एवं कषायाः पञ्चविंशतिः । योगाः सत्यं असत्यं सत्यामृर्ष [ असत्यामृष] मनश्चतुर्विध, सत्यं असत्यं सत्यामृर्ष असत्यामृषं वचोभिश्चतुर्भदं, औदारिक औदारिकमिश्रो वैक्रियो वैक्रियमिश्र आहारक आहारकमिश्रः कार्मणश्चेति कायः सप्तविधः, इत्यमी सम्मिलिताः पञ्चदश । देशविरतेादशमेदत्वात्तद्विपरीताऽविरतिः 'सूर्यसम्मिता सूर्यपरिच्छिन्ना, द्वादशमेदेत्यर्थः ॥ ५१ ॥ इत्येते सर्वेऽपि मिलिताः सप्ताधिकाः पश्चाशद्भवन्ति कर्मबन्धस्य हेतवः । स-कर्मणां बन्धः प्रकृतिस्थि
ACCACCIRCTC3%ACANCHECCANCE
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्च सं०
प्रकरणम्
स्वोपज्ञवृत्तिः ।
॥ १८ ॥
www.kobatirth.org
त्यनुभावप्रदेशैश्चतुर्विधः । प्रकृतिः - स्वभावः, स्थितिः - कालावधारणं, अनुभावो-रस एकस्थानकादिः, प्रदेशः - अंश इति ॥ ५२ ॥ बन्धस्तु बन्धनीयकर्मगोचरस्ततस्तान्येव समेदानि श्लोकत्र येणाह -
पञ्चधा ज्ञानावरणं, नवधा दर्शनावृतिः । वेदनीयं द्विधा मोह-स्त्वष्टाविंशतिधा मतः ॥ ५३ ॥ आयुश्चतुर्विधं नाम, स्याच्छतं त्रिभिरुत्तरम्। द्विप्रकारं पुनर्गोत्र-मन्तरायस्तु पञ्चधा ॥ ५४ ॥ अष्टपञ्चाशता युक्तं, शतमित्यष्टकर्मणाम् । भूरिकर्मनिदानैस्तत्, प्रकृतिर्बहुधा मता ॥ ५५ ॥
व्याख्या–‘पञ्चधा' पञ्चप्रकारं 'ज्ञानावरणं' मतिश्रुतावधिमनः पर्याय केवलज्ञानानामावरणं । 'नवधा' नवभिः प्रकारैश्चक्षुरचक्षुरधिकेवलदर्शनावरण-निद्रा-निद्रानिद्रा-प्रचलाप्रचलाप्रचला- स्त्यानाद्धं मे दैर्दर्शनावृतिः । वेदनीयं सातासात भेदाभ्य द्विधा । मोहस्तु-मोहः पुनरष्टाविंशतिधा मतस्तत्र तिम्रो दर्शनमोहनीयप्रकृतयो मिध्यात्वमिश्रसम्यक्त्वरूपाः, पञ्चविंशतिचारित्रमोहनीयप्रकृतयः पूर्वोक्तस्वरूपकषायरूपाः ॥ ५३ ॥ आयुर्नरकतिर्यङ्नरामरभेदैश्चतुर्विधं । 'नाम' नाम[ कर्म, तस्य प्रकृतयो द्विधा - पिण्डप्रकृतयः प्रत्येक प्रकृतयश्च तत्र पिण्डप्रकृतीनां मूलभेदाश्चतुर्दश, तद्यथा-गतिर्जातिः शरीरमङ्गोपाङ्ग बन्धनं ] सङ्घातः संहननं संस्थानं वर्णः गन्धः रसः स्पर्शः आनुपूर्वी विहायोगतिश्चेति । तत्र गतिर्नश्कतिर्यङ्नरामरमेदैचतुर्विधा । जातिरेकद्वित्रिचतुष्पञ्चेन्द्रियैः पश्चधा । शरीरमोदारिक वैक्रिया-हारक- तैजस-कार्मणभेदैः पञ्चविधं । अङ्गोपाङ्गमौदारिक-वैक्रिया-हारकमेदैस्रिविधं । बन्धनं पञ्चदशभेदं तद्यथा - औदारिकौदारिकबन्धनं औदारिकतैजसबन्धनं औदारिक
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
बन्धतवे
ज्ञानावर
णादिकर्म
चतुष्क
प्रकृतयः ।
॥ १८ ॥
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
%
ANCHC
कार्मणबन्धनं औदारिकतैजसकामणबन्धन, वैक्रियवैक्रियबन्धनं वैक्रियतेजसबन्धनं वैक्रियकार्मणबन्धनं वैक्रियतैजसकार्मणबन्धनं, आहारकाहारकबन्धनं आहारकतेजसबन्धनं आहारककामगबन्धनं आहारकतेजसकार्मणबन्धनं, तेजसतेजसबन्धनं तैजसकामेणबन्धनं कार्मणवन्धनं चेति । सङ्घात-औदारिकवैक्रियाहारकतैजसकार्मण भेदैः पञ्चविधः। संहननं-वज्रर्षभनाराच-ऋषभनाराच नाराच-अर्द्धनाराच-कीलिका-सेवार्तमेदैः पड्विधं । संस्थान-समचतुरस्रन्यग्रोध[परि] मण्डल-सादि-वामन-कुब्ज-हुण्डभेदैः षड्डिधं । वर्ण:-कृष्ण-नील लोहित-हारिद्र-शुक्लभेदैः पञ्चविधः। गन्धः-सुरभ्यसुरभिभेदाभ्यां द्विधा । रसः-तिक्त-कटु-कषाया-म्ल-मधुरभेदैः पञ्चविधः। स्पर्शः-कर्कश-मृदु-गुरु लघु शीतोष्ण स्निग्ध-रूक्षभेदैरष्टधा ! आनुपूर्वीनरकतिर्यनरामरभेदैश्चतुर्विधा । विहायोगति:-प्रशस्ताप्रशस्तभेदाभ्यां द्विधा । इति पिण्डप्रकृतीनां पश्चसप्ततिर्भेदाः। प्रत्येक प्रकृतयस्त्विमा:-पराघातः उद्योतः आतपः उवासः अगुरुलघु तीर्थकरनामकर्म निर्माणं उपघातः सनाम बादरं पर्याप्त प्रत्येकं स्थिरं शुभं सुभगं सुस्वरं आदेयं यशःकीर्तिः स्थावरं सूक्ष्म अपर्याप्तं साधारणं अस्थिरं अशुभं दुर्भगं दुस्वरं अनादेयं अयशोऽकीर्तिरित्यष्टाविंशतिः प्रत्येकप्रकृतयः, पिण्डप्रकृतिप्रभेदैः पञ्चसप्तत्या सहितास्त्रिभिरुत्तरं शतं भवन्ति । द्विप्रकारमुच्चैनींचैर्मेदाम्यां गोत्रं । अन्तरायः पुननि लाभ-भोगो-पभोग-वीर्यान्तरायमेदैः पञ्चविधः। ५४ ॥ [इति'] एवं पूर्वोक्तभेद प्रकारेणाष्टपञ्चाशता युक्तं शतमष्टानां कर्मणां 'भूरिकर्मनिदानैः' बहुमिः कर्मकारणैस्तत्-कर्मप्रकृतिस्तेषां कर्मभेदानां स्वभावापरनामिका प्रकृतिः 'बहुधा' बहुभिः प्रकारैर्मतेति ।। ५५॥ तदेवाद्यश्लोकार्द्धन प्रकृतेस्त्रैविध्यप्रतिपादनेन समर्थयमानः कर्मणां बन्धश्च लेश्यावशतः स्यादिति तदुत्तरार्द्धन लेख्योत्पत्तिमाह
CH-%
CE%eos
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmande
नवतत्त्वसंकट स्थितिभावप्रदेशैःसा, तीव्रा मन्दाऽथ मध्यमा। कषायैः स्थितिपाकैश्च,षड्लेश्यानां समुद्भवः॥५६॥ प्रकरणम् | व्याख्या-स्थितिभावप्रदेशैः पूर्वोक्तस्वरूपैः सा-कर्मप्रकृतिस्तीबा मन्दाऽथ स्थितिपाकैश्च मध्यमा, कषायैः-क्रोधादिभिः स्वोपज्ञ
कर्मणां स्थितिपरिपाकैः षण्णां लेश्यानां समुद्भव-उत्पत्तिरिति ॥ ५६ ॥ ताश्च तारतम्येन नामतः कार्यतश्च दर्शयन्नाह- निरूपणम्। वृत्तिः ।
तारतम्येन मन्तव्याः, कृष्णा नीला कपिञ्जला। पीता पद्मप्रभा शुक्ला, षडेताः कर्मवन्धिकाः॥५७॥ ॥१९॥ व्याख्या-'तारतम्येन' तरतमभावेन कृष्णाद्याः शुक्लावसाना पडेताः, लेश्या इत्यधिकृतं, कर्मबन्धिका:-कर्मवन्ध-18
विधायिका मन्तव्या इति सम्बन्धः । आसां च स्वरूपमिदम् -
"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" ___ कृष्णादिद्रव्याणि तु सकलकर्मप्रकृतिनिस्यन्दभूतानि, एतच्च स्वरूपं लेश्यानां तारतम्येनाभिधीयमानं जम्बूखादकपुरुष-16 षट्कदृष्टान्तेन प्रतिपत्तव्यं, तथाहि-केचन पद् पुरुषा वनं गताः सन्तः फलभरननं जम्बूवृक्षमद्राक्षुः, तदर्शने च तेषां पण्णामपि फलार्थिनां यथाक्रम वृक्ष-शाखा-प्रशाखा-गुच्छ-तत्स्थफलच्छेद-स्वयंपतितग्रहणाध्यवसायाः प्रवर्तन्ते, ते च तारतम्येन तदुत्तरोत्तराध्यवसायवशतः क्रमशः कृष्णादिलेश्यासु षट्पु वर्तन्त इति ।। ५७॥ बन्धानन्तरं मोक्षस्यावसरस्ततस्तमेवाहक्षान्त्यादिगुणयुक्तानां, ज्ञानिनां क्षीणकर्मणाम् । आत्मस्वरूपेऽवस्थान-मात्मनो मोक्ष उच्यते॥५८॥ व्याख्या-क्षान्त्यादिगुणविशिष्टानां 'ज्ञानिना' अप्रतिपातिज्ञानवतां 'क्षीणकर्मणां क्षपिताशेषकर्मांशानां सम्बन्धिन ॥१९॥
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AMACHAR
है। आत्मन आत्मस्वरूपे-लोकालोकप्रकाशकज्ञानलक्षणे यदवस्थानं, स मोक्ष उच्यत इति सम्बन्धः ।। ५८ ॥
___यदुक्तमत्र श्लोके 'क्षान्त्यादिगुणयुक्ताना'मिति तद्विपक्षदोषोत्कीर्तनपुरस्सरं क्षान्त्यादिदशविधयतिधर्माभिधानेन व्याचिख्यासुर्दशविधस्यापि साधुधर्मस्य शिरोरत्नं क्षमा, ततः प्रथमं तामेव श्लोकद्वयेन वर्णयन्नाह
सर्वसन्तापकृतक्रोधो, ज्वलन्निव दवानलः । मन्तव्या मेघमालेव, क्षान्तिस्तस्योपशान्तये ॥५९।। ____ व्याख्या-'सर्वसन्तापकृत्' सर्वान्तर्दाहकृत् क्रोधः, क इव ?, ज्वलन्निव दवानलः, मन्तव्या 'मेघमालेव' मेघपङ्क्तिरिव शान्तिस्तस्य-क्रोधस्य 'उपशान्तये' उपशमनायेति ।। ५९ ।। क्षमा क्षमा हि धर्मस्य, सर्ववैरनिबर्हणी। अमन्दानन्दसन्दोहा, ध्यातव्या धीधनैः सदा ॥ ६०॥
व्याख्या-क्षमा 'क्षमा' धर्मस्योत्पत्तिभूमिः सर्ववैरनिबर्हणी' समस्तविरोधविनाशिनी, अमन्दानन्दसन्दोहा-केवलानन्दमयी ध्यातव्या 'धीधने' बुद्धिमद्भिः सदेति सम्बन्धः।। ६० ॥ श्लोकद्वयेन मार्दवमुपदिशन्नाह
वाल्लभ्यबुद्धिलाभौजो-जातिरूपकुलश्रुतैः । दन्तिवन्मदमत्तानां, वारणं मार्दवाङ्कशम् ॥ ६१॥ व्याख्या-वाल्लभ्यायैः करणभृतयों मदस्तेन मत्तानां 'दन्तिबद्' दन्तिनामिव 'वारणं' निवारक मार्दवमेवाशं मार्दवाकुशम् ॥ मृदुता सर्वभूतानां, मैत्रीभावसमुद्भवा । मातृभूता हि धर्मस्य, विकर्ममलमार्जनी ।। ६२॥ व्याख्या-'मृदुता' मृदुत्वं 'सर्वभूतानां' सर्वजन्तूनां मैत्रीभावस्य समुद्भवो यस्याः सा मैत्रीभावसमुद्भवा, अतएव
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्वसं०
प्रकरणम् स्वोपन
वृत्तिः ।
॥२०॥
KMANAKARACTER
| 'मातृभृता' जननी [कल्पा] धर्मस्य. 'विकर्ममलमार्जनी' विरुद्धकर्ममलशोधिनीति सम्बन्धः ।।६२।। ऋजुतां श्लोकद्वयेनाह-18 मोक्षतत्वे मायासदर्पसर्पिण्याः, प्रसर्पिण्या जिघत्सया। निर्विषीकरणे तस्या, ऋजुता दमनौषधी ॥ ६३ ॥ दशविधव्याख्या-'माया' निकृतिः, सैव सदर्पसर्पिणी, तस्याः 'प्रसर्पिण्या:' प्रसर्पणशीलायाः, कया ? 'जिघत्सया' अत्तमि
18यतिधर्मच्छ या ! 'निर्विपीकरणे' निर्विषतासम्पादने तस्या, 'ऋजुता' प्राञ्जलता [सरलता] दमनौषधीति ।। ६३ ।।
निरूपणम् । ऋजुता जन्तुजातानां, कषायकषणात्मिका। निकषो धर्महम्नोऽसौ, भूमिर्मोक्षस्य सम्मता ॥६४॥ ____ व्याख्या-असाधृजुता 'जन्तुजातानां तत्समूहानां कषायकपणात्मिका-तद्विनाशात्मिका । 'निकपः' कषपट्टको 'धर्म: हेम्नः' पुण्यसुवर्णस्य । 'भूमि' उत्पत्तिभूर्मोक्षस्य सम्मतेति ।। ६४ ॥ श्लोकत्रयेण संयममुपश्लोकयतिवर्द्धमानमलं व्यालं, वेतालं ललितोल्वणम् । ताडयत्तोषदण्डेन, लोभाढू भावभीषणम् ॥६५॥ ___व्याख्या-'वर्द्धमान' वृद्धिमन्तं 'अलं' अत्यर्थ 'व्यालं' दुष्टं 'वेतालं' पिशाचं 'ललितोल्वणं' चेष्टितोत्कटं 'ताडयेत्' त्रासयेत तोष एव दण्डस्तेन, किनामकं वेतालं ? 'लोभाई"लोमनामकं 'भावभीषणं स्वभावभयानकम् ।। ६५ ॥ संयमो नयनैपुण्य-निदानं तद्भवा गुणाः । तैविभूतिः प्रभूता स्या-त्तस्या मङ्गलमालिका ॥६६॥ ___ व्याख्या-'संयमः' संयतत्वं 'नयनैपुण्यनिदान' न्यायप्राविण्यकारणं । तद्भवा' नयनैपुण्योद्भवा गुणा:-गुरुशुश्रूषादयः, तैर्गुणैर्विभूतिः 'प्रभूता' बह्वी स्यात् , तस्या-विभूतेः सकाशान् 'मङ्गलमालिका' निःश्रेयसपरम्परा ॥ ६६ ॥
KOCHACLOSE%
॥ २०॥
CE
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ASHOGXXBA
मेनावाक्कायदण्डानां, कषायाणां च धर्षणात् । अक्षाणामात्रवाणां च, संवृत्त्या संयमः स्मृतः॥६७॥
व्याख्या-मनोवाक्कायेत्यादितृतीयश्लोकेन संयमस्य सप्तदशभेदत्वमभिहितमिति ॥ ६७ ॥ अथ शौचं श्लोकद्वयेनाहहिंसा पिशाचिका पापा, सत्पथप्रतिपन्थिनी। तस्या दयासमुद्भुतं, शौचमुच्छेदनक्षमम् ॥६८॥
व्याख्या-हिंसैव पिशाचिका, पापा पापहेतुत्वात् 'मत्पथप्रतिपन्थिनी' सन्मार्गविरोधिनी, तस्या-हिंसापिशाचिकाया [ 'दयासमुद्भून' ] दयाजनितं शौचमुच्छेदनक्षममिति ।। ६८ ॥
भावशुद्धिभवं शौचं, पापपङ्कप्रमार्जकम् । धर्मकर्मकरं सम्य-गात्मनैर्मल्यकारकम् ।। ६९ ॥
व्याख्या-'भावशुद्धि आशय शुद्धिः, तद्भवं 'शौचं शुचित्वं पापमलविशुद्धिजनक-धर्मकृत्यविधायकं सम्यग्यथा भकत्येवमात्मनो-जीवस्य 'नर्मल्यं पवित्रता, तत्कारकमिनि ॥ ६९ ॥ सत्यं श्लोकद्वयेनाहमनोवल्मिकमध्यस्थां, भीमां मिथ्याभुजङ्गमीम्।सत्यमन्त्रेण सन्त्रास्य,लात श्रेयोऽभिधं निधिम् ।७०।
व्याख्या-'मनः' अन्तःकरणं, तदेव वल्मीकस्तन्मध्यस्थां 'भीमा' रौद्रां, मिध्यैव भुजङ्गमी, तां, सत्यमेव मन्त्रस्तेन सन्त्रास्य 'लात'गृहीत श्रेयोऽभिधं-तदभिधानं 'निधि' निधानम् ॥ ७० ॥ सत्यं विद्धि समृद्धीनां, हेतुभूतं हितात्मकम् । धर्मनिर्माणकर्मणो, गुणरत्नौघरोहणम् ॥७१॥ व्याख्या- 'सत्य' नृतं 'विद्धि' जानीहि 'समृद्धीनां श्रियां 'हेतुभृतं' [कारणभृतं, किंविशिष्टं ? 'हितात्मक'] हितस्वरूपं,
%ACHCHEk4%95%ERCICS
%
-
)
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
जवतवसं० प्रकरणम् स्वोपज्ञवृत्तिः । ॥ २१ ॥
धर्मस्य ['निर्माणकर्मणो'] निष्पादनकर्मणो भूमिः, गुणा-ज्ञानादयस्त एव रत्नानि, तदोघस्य 'रोहणं' रोहणगिरिमिति ॥७१॥ | मोक्षतच्चे श्लोकद्वयेन त्यागमाह
दशविधअदत्तं दुःखसन्दोह-दोहदं दुष्टदंष्ट्रिणम् । तं त्यागशरभो भीम, भ्रंशयेद्रभसाद भृशम् ॥ ७२॥18 यतिधर्मव्याख्या-'अदत्त' चौयं दुःखसन्दोहदोहदं-दुःखसङ्घातानां पोषकत्वेन दोहदं । दुष्टदंष्ट्रिणं-दुष्टकेसरिणं, तं 'भीम' रौद्रं
वर्णनम् । त्याग एव शरभः, स 'भृशं' अत्यर्थ 'रभसाद' औत्सुक्याद् भ्रंशयेदिति ।। ७२ ॥
महामोहजयस्त्यागा-तद्भवं ज्ञानमुत्तमम् । तस्मादक्षयमोक्षः स्या-त्सदानन्दमहोदयः ॥७३॥ __ व्याख्या-महामोहस्य 'जयः' पराजयः 'त्यागात्' लोभपरिहारात् । 'तद्भव' तज्जयभवं ज्ञानमुत्तमं, तच्च केवललक्षणं, तस्मादक्षयो मोक्षः स्यात् 'सदानन्दमहोदयः' सततानन्दमय इति ।। ७३ ।। सम्प्रति ब्रह्मवतं श्लोकचतुष्टयेनाह
कामं कामो महाभीमो, ग्रहोऽयं दुरवग्रहः । ब्रह्मवताभिचारेण, तदुच्चाटनमाचरेत् ॥ ७४ ॥ ___व्याख्या-'काम' अत्यर्थ 'कामः' कन्दपों 'महाभीमो' महारौद्रो ग्रहोऽयं दुस्खग्रहो-दुःखेनावगृह्यत इत्यर्थः, ब्रह्मव्रतमेवाभिचारो-मन्त्रप्रयोगस्तेन तदुच्चाटनं' कामग्रहोच्चाटनमाचरेदिति ।। ७४ ।। शीलं सर्वगुणापीलं, निर्मलं मलमार्जनम् । मङ्गल्यमालिकामूल-मुशन्ति गुणशालिनः ॥ ७५॥
व्याख्या-'शील' ब्रह्मव्रतं 'सर्वगुणापीलं' सर्वगुणोत्तंसं 'निर्मल' स्वयं पवित्रमन्येषां च मलमार्जकं 'मङ्गल्यमालिकामूलं' ॥२१॥
कामः' कन्दपों महाटनमाचरेदिति ।। ७४ ।
CROSOCIA
शान्ति गुणशालिनः
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्याणपरम्पराकारणं 'उशन्ति' भाषन्ते गुणशालिन इति ॥ ७५ ॥ करणत्रयण योगै-मनोवाकायसज्ञितैः। आहारादिकसज्ञाभि-रिन्द्रियैः श्रवणादिभिः॥ ७६॥ पृथ्व्यादिनवभिर्जीवै-रजीवदशमैस्तथा ।क्षान्त्यादिधर्मेर्दशभिः,सङ्ख्या शैलाङ्गिकी भवेत्।७७। [युग्मम् ]
व्याख्या करणत्रयेण करणकारणानुमतिरूपेण योगैमनोवाकायसज्ञितैः आहारादिकसज्ञाभिश्चतसृभिरिन्द्रियैः श्रवणादिभिः ॥ ७६ ।। पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पश्चेन्द्रियरूपैर्नवभिर्जीवैः पुद्गलाद्यजीवदशमः, क्षान्त्यादिभिधमः सङ्ख्या अष्टादशमहस्रप्रमाणा 'शैलाङ्गिकी' शीलाङ्गनिष्पन्ना भवेत् , तथाहि-कस्मिंश्चित्पट्टकादावौत्तराधर्येण त्रि-त्रि] चतु:पञ्च-दश दशमङ्ख्ये मूलपदकलापे लिखिते मति भङ्गका उत्थाप्यन्ते, न करोमि मनसा आहारसज्ञाविप्रहीणः श्रोत्रेन्द्रिय संवृतः पृथ्वीमायारम्भ शान्तियुक्तः सन्नित्ये[व] मेकं शीलाङ्गं भवति, पूर्वोक्तालापकेन क्रमेण मार्दवादिपदसंयोगे शेषाणि नव शीलाङ्गानि भवन्ति, एता ने च सर्वसङ्ख्यया शीलाङ्गानि दश प्रथमजीवभेदेन लब्धानि, एवमजीवपर्यन्तैः शेषेर्नवभिः प्रत्येक दश दश लब्धानि, पिण्डितानि च शतं भवन्ति । एतच्छतं श्रोत्रेन्द्रियेण लब्धं, शेपैरपि चतुभिरिन्द्रियैः प्रत्येकं शतं शतं प्राप्त जातानि पञ्चशतानि, एषा पश्चशती प्राप्ता प्रत्येकं चतसृभिः सज्ञाभिर्जातं सहस्रद्वयं, एतच्चासादितं मनोवाकायैः पृथक्पृथगेवं जाताः षट्सहस्राः, एते षडपि सहस्रा लब्धाः प्रत्येक करणत्रयेण, एवं च सजज्ञे शेलानिकी सङ्ख्या अष्टादशसहस्राणीति ।। ७७ ।। श्लोकद्वयेन निस्सङ्गतामाह
लिखिते पनि भङ्गको पन्ना भवेत्, तबाही प्रगलायजी
ACCANDICROCARECRUIRECOR
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kasiassagarsur Gyarmandie
स्वतचसं० प्रकरणम् स्वोपज्ञवृत्तिः ।
मोक्षतत्त्वे दशविधयतिधर्मस्वरूपम् ।
॥२२॥
%ARHARASH
मूर्छाब्धौ मजतां भीमे, वाञ्छावीचिषु मुह्यताम् । निस्सङ्गतातरी सारा, तदुत्तरणकारणम् ।।७८॥
व्याख्याः-मृच्छैवाब्धि ब्धिस्तत्र 'भीमे' भयानके 'मजतां तदन्तर्बुडता 'वाञ्छा' अपरापरस्पृहास्त एव 'वीचयः' कल्लोलास्तामु मुह्यतां निस्सङ्गता' निर्ममता, सैव 'तरी' नौः 'सारा' प्रधाना 'तत्तरण कारणं' मूर्णिवात्तरणहेतुरित्यर्थः ।। निस्सङ्गता धृतेर्मूलं, ततो ध्यानं सुधात्मकम्। तस्माज्ज्ञानमनन्तं स्या-त्तत्सिद्धौ सर्वसिद्धयः॥७९॥
व्याख्या-'निस्सङ्गता' निरभिष्वङ्गता 'धृतेः' सन्तोषस्य 'मूलं' कारण । 'ततो' धृतेः सकाशात् 'ध्यान' धर्मध्यानं शुक्लध्यानं वा 'सुधात्मकं' अमृतात्मकं । 'तस्मात्' ध्यानात् 'जान' केवलज्ञानमनन्तं ज्ञेयानन्तत्वेन अक्षयत्वेन वा स्यात् । तस्मादनन्तज्ञानस्य 'सिद्धौ' निष्पत्ती सर्वसिद्धयो निःश्रेयसाधवाप्तिरूपाः स्युरिति ।। ७९ ॥
निस्सङ्गता च तपोविशेष विना न स्यादतः श्लोकचतुष्टयेन तपोविशेषमाहकर्माजीर्णमलं मूला-दुन्मूलयति निर्मलः। तपोवैश्वानरचर्ण-स्तूर्णमेवति निश्चितम् ॥ ८॥
व्याख्या-कर्म ज्ञानावरणादि, तदेव संसारं मिथ्यात्वादिभिः कारणैस्सञ्चीयमानत्वादजीर्णमलम्तं 'मूलात्' समूलं 'उन्मूल. यति' अपनयति 'निर्मलो' निर्दोषस्तप एव वैश्वानरचूर्ण-स्तत्तद्रव्यसंयोगः 'तूर्णमेव' शीघ्रमेवेति निश्चितं श्रीतीर्थनाथादिभिः ।। वामनःकायसंशुद्धया, क्रोधाहकारवर्जनात् । विवेकायत्तचित्तानां, सर्वकर्मान्तकं तपः ।। ८१॥ व्याख्या-वानमनःकायसंशुद्ध्या-एतत्रयपवित्रतया यत्क्रोधाहकारवर्जनं, तस्माद्विवेकायत्तचित्तानां-तदधीनमानसानां
For Private And Personal use only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
ॐॐ-%
A
SOCIRCRACK
सर्वकर्मान्तकं तप इति ॥ ८१॥
स्तोकोहारनिराहार-वृत्तिसङ्केपलीनताः। कार्यक्लेशरसत्यागौ, षोढा बाह्यमिदं तपः॥ ८२॥ ___व्याख्या-स्तोकाहारादिभिः प्रकारैः पोढा बाह्यमितरैरपि प्रतीयमानत्वादिदं तपः, तत्र स्तोकाहार-ऊनोदरता, स च द्विविधो-द्रव्यतो भावतच, द्रव्यतस्त्वनेकपा द्वात्रिंशत्कवलमानपूर्णाहारापेक्षया एकादिकवलन्यूनाहारग्रहणतः स्यात् । भावतः पुनः कषायत्यागः[१]। निराहारः पुनराहारामावः, स च द्विविधो-यावत्कथिकः स्तोककालीनश्च, यावत्कथिकोऽपि विधा-पादपोपगमनमिङ्गिनीमरणं भक्तपरिक्षा चेति, तत्राद्यं सर्वथा परिस्पन्दवर्जितं निष्प्रतिकर्म चतुर्विधाहारत्यागनिष्पन च । द्वितीयमपि तथैव, नवरं-इङ्गित नियमित]देशे सक्रमणाद्यपरिहारवत् । तृतीयं च सप्रतिकर्म त्रिविधचतुर्विधाहारत्यागनिष्पन्नं वा । स्तोककालीनः पुनश्चतुर्थभक्तादिषण्मासान्तः[२]। वृत्तिसङ्केपस्तु वृत्तेभिक्षाचर्यायाः सोपणमल्पताकरणं वृत्तिसक्षेपश्चतुर्द्धा करणं द्रव्यादिभेदात् , तत्र द्रव्यतः सलेपमलेपं वा मया ग्राह्यमित्यादि, एवं क्षेत्रतः स्वग्रामे परग्रामे वा एतावत्सु गृहेषु यल्लप्स्यत इत्यादि, एवं कालतः पूर्वान्हे मध्यान्हेऽपरान्हे वा, भावतः पुनरुवक्षिप्तमेव वा निक्षिप्तमेव वा गायतो वा रुदतो वा यल्लप्स्यत इत्यादि ३। लीनता चतुर्विधा-इन्द्रियकषाययोगविविक्तचर्यामेदात , तत्रेन्द्रियकषाययोगाः प्रतीताः, विविक्तचर्या तु स्त्रीपशुपण्ड ककृशीलवर्जितनिरवद्याश्रयाश्रयणं ४ । कायक्लेशो-वीरासनोत्कटिकासनगोदोहिकासनादिशीतवातातपसहनशिरोलोचादिरनेकविधः ५। रसत्यागस्तु द्रव्यतो रसानां दुग्धदधिघृतादीनां सर्वेषामन्यतरेषां वा, भावतः शान्तरसवर्ज श्रृङ्गारादीनां वा 'त्यागः त्यजनम् [६] ॥ ८२ ॥
Keर'
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्चसं ० प्रकरणम्
स्वोपज्ञ
वृत्तिः ।
॥ २३ ॥
www.kobatirth.org
प्रायश्चित्तं विनीतत्वं वैयावृत्त्यं श्रुतादरः । ध्यानं संहननोत्सर्गः, षोढेत्याभ्यन्तरं तपः ॥ ८३ ॥ व्याख्या- प्रायश्चिनप्रभृतिभिर्भेदैरित्येवं 'पोटा' पद्मकारमाभ्यन्तरं - अन्तःकपायकपणात् तपः । (१ - ) तत्र प्रायश्चित्तं दशधा - आलोचनेप्रतिक्रमणंमिश्र विवेकोत्सर्ग तर्प छेद मूला नवस्थाप्यतापाराञ्चिकेंमेदात् । तत्र आलोचनं गुरोः पुरतः स्वदुश्व४रितप्रकाशनं १ । तथा प्रतीपं क्रमणं प्रतिक्रमणं - अतिचारान्निवृत्य गुणेष्वेव गमनं २ । मिश्रं - आलोचनप्रतिक्रमणरूपमुभयं ३ | विवेकः - अनेषणीयभक्तादित्यागः ४ । व्युत्सर्गः - कायोत्सर्गः ५ । तपस्तु निर्विकृतिकादि ६ । छेदः - तपसा दुर्दमादेः साधो रहोरात्र पञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनं ७ मूलं आकुय्या प्राणातिपातादिषु महाव्रतानां मूलत आरोहणं ८ । अनवस्थाप्यता- दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामारोपणं, एतच्च प्रायश्चित्तं विहितसाधर्मिकेतर सम्बधिक्षुल्लकादिस्तैन्यस्य पूर्वोक्त मध्यात्कस्यापि दत्तहस्तादिप्रहारस्य साधोः स्यात् ९ । पाराञ्चिकमिति, पारं अन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा अञ्चति-गच्छतीत्येवं शीलं पाराश्चि तदेव पाराश्चिकं, एतत्प्रायश्चित्तं तु लिङ्गिधाते लिङ्गिनीप्रतिसेवायां तीर्थकरागमाशातनायां च षण्मासेभ्यः प्रभृति द्वादशवर्षाणि यावदवधूतवेषस्य प्रच्छन्नगृहीतसाधुलिङ्गस्य स्यात् १० । (२) विनीतत्वं विनयवत्त्वं विनयश्च सप्तधा - ज्ञानदर्शन चारित्र मनोवाक्कायोपचारभेदात् । तत्राद्यो मत्यादीनां श्रद्धानभक्तिबहुमानतदृष्टार्थ भावनाविधिग्रहणाभ्यां (2) स्वरूपः १ । द्वितीयस्तु सम्यग्दर्शन गुणाधिकेषु शुश्रूषाऽनाशातनाभेदात् द्विविधः, तत्र शुश्रूषाविनयो दशधा तद्यथा-सत्कारः अभ्युत्थानं सन्मानः आसनाभिग्रहः आसनानुप्रेदानं कृर्तिकर्म अञ्जलिग्रहः आगच्छदभिर्गमनं स्थिते पर्युपासना गच्छेदनुत्रजनं चेति । एते दशापि भेदाः प्रसिद्धा एव । अनाशातनाविनयस्तु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मोक्षतत्वे द्विविधस्य
तपस:
स्वरूपम् ।
॥ २३ ॥
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चदशधा, तद्यथा-जिन धर्म-सूरि-वाच-स्थेविर-कुल-गण-सङ्घ-साम्भोगिक क्रिया-ज्ञानपञ्चकं [च] । एतेषामनाशातना । ३चारित्रविनयस्तु सामायिकादिचारित्राणां श्रद्धानकरणप्ररूपणानि । मनोवाकायविनयस्तु आचार्यादिषु अकुशलानां चित्तादीनां सदा निरोधः कुशलानां तु पुनरुदीरणेति । उपचारविनयस्तु सप्तधा-अभ्यासासनं १, छन्दोऽनुवर्तनं २, कृतप्रतिकृतिः ३, कारितनिमित्तकरणं ४, दुःखार्तगवेषणं ५, देशकालज्ञानं ६, सर्वत्रानुमतिश्च ७, एते सप्तापि भेदा विनयस्य प्रतीता एव, नवरंकारितनिमित्तकरणं सम्यगर्थपदस्य दापितस्य विशेषेण विनये वृत्तिस्तदर्थानुष्ठानं च । (३)-चयावृत्यं च दशधा-आचार्योपाध्यायस्थविरतपस्विग्लोनशैक्षकसाधर्मिककुलंगणेसा भेदात् । (४) श्रुतादर:-श्रुतप्रयत्नः, स च वाचनाप्रच्छनापरावर्तनाsनुप्रेक्षाधर्मकथाविषयः। (५)-ध्यान-अन्तर्मुहूर्त्तमात्रं चित्तैकाग्रता, तच्चारौद्रधर्मशुक्लभेदाचतुर्दा, तत्राद्ययोर्भवहेतुत्वादितरयोश्च मुक्तिनिमित्तत्वादितरे एवं तपः। (६) संहननोत्सर्गस्तु संहननस्य-शरीरस्य उपलक्षणत्वादितरेषामपि गणोपध्याहाराणां द्रव्यत उत्सर्गः, एवं चासौ द्रव्यतः संहननोत्सर्गश्चतुर्धा, भावतस्तु नानाविधः, कोपादित्यागरूपत्वादस्य ॥ ८३ ।। सप्रतिपक्षक्षान्त्यादिदशविधयतिधर्मप्रतिपादनेन समर्थितं 'क्षान्त्यादिगुणयुक्ताना'मिति 'ज्ञानिना'मित्याद्यातन्वन्नाहमतिः श्रुतं परोक्षाख्यं, प्रत्यक्षमवधिर्मनः । केवलं चेति विज्ञेयं, ज्ञानं पञ्चविधं बुधैः ॥ ८४॥
व्याख्या-'मति:' मतिज्ञानं 'श्रुतं' श्रुतज्ञानं, एतद्वयमपि 'परोक्षाख्यं परोक्षसझं, प्रत्यक्षं पुनः पदेकदेशे पदसमुदायोपचारात् ['अवधिः'] अवधिज्ञानं 'मनः' मनःपर्यायज्ञानं 'केवलं' केवलज्ञानं चेत्येवं ज्ञेयं ज्ञानं पश्चविधं बुधैरिति ॥८४॥
४ अष्टपञ्चाशत्तमवृस्याद्यं पदं, सम्प्रति तत्रस्थमेव ।
ACCALCARRECASAR
A
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
मोक्षतत्वे ज्ञानपश्चकस्वरूपम् ।
नवतत्त्वसंग
सम्प्रति मतिश्रुतयोर्मेदानाहप्रकरणम् का सद्योजा विनयोत्पन्ना, कर्मजा पारिणामिकी । मतिश्चतुर्विधा सिद्धा, चतुर्दशविधं श्रुतम् ॥८५॥ स्वोपज- ___व्याख्या-'सद्योजा' औत्पत्तिकी 'विनयोत्पन्ना' वैनयिकी 'कर्मजा' अभ्याससम्भवा 'पारिणामिकी' भविष्यदर्थसंवावृत्तिः । दिनी, तदेवं मतिश्चतुर्विधा सिद्धा। एषा चतुर्विधाऽपि मतिरश्रुतनिस्सृता, श्रुतसंस्कारानपेक्षत्वात् । यश्च श्रुतनिस्सृतं मतिज्ञानं
तदष्टाविंशतिविधं, यतः-प्रथमं तावन्मतिज्ञानं अवग्रहहाऽपायधारणामेदाचतुर्दा। तत्रावग्रहो द्विधा-व्यञ्जनावग्रहोऽर्थावग्रहश्च । ॥२४॥
तत्र व्यञ्जनावग्रहश्चक्षुर्मनोवर्जानामिन्द्रियाणां स्वविषयद्रव्यैः सह सम्बन्धस्तेनासौ चतुर्विध एव । अर्थावग्रहस्तु 'किमपीदं' इत्येतावन्मात्रो मनःषष्ठः पञ्चभिरिन्द्रियैर्वस्त्ववबोधस्ततश्चैवमसौ पोढा । ईहादयोऽपि प्रत्येक मनःषष्ठेन्द्रियपञ्चकसम्भवत्वात्योढेव, किमयं स्थाणुः पुरुषो वा ? इत्यादिवस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा । 'पुरुष एवायं' इति वस्तुव्यवसायात्मको निश्चयोऽपायः, निश्चितस्याविच्युतिस्मृतिवासनात्मिकाभिरवस्थात्तिर्धारणं धारणा । एषा चाष्टाविंशतिः बहु-बहुविध-क्षिप्रैअंनिस्सृत-असन्दिग्धे-(वैः सप्रतिपदिशभिर्गुणितानि जातानि षट्त्रिंशानि त्रीणि शतानि, अश्रुतनिस्सृतबुद्धिचतुष्टयनिक्षेपाच मतित्रानभेदानां तान्येव चत्वारिंशानि त्रीणि शतानि भवन्ति । श्रुतं-श्रुतज्ञानं चतुर्दशविधं सपतिपक्षाक्षरसञ्झिसम्यक्सादिसपर्यवसितगमिकाङ्गप्रविष्टभेदेभ्यः । तत्राक्षरश्रुतं त्रिविधं सजा-व्यञ्जन-लब्धिमेदात् । तत्र सञ्ज्ञाऽक्षरं लेख्यलिपिरूपं, व्यञ्जनाक्षरं भाषावर्गणा, तदेतद्वितीयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतं, लब्ध्यक्षरं तु श्रवणादर्थप्रत्यायनाहोऽक्षरोपलब्धिः। अनक्षरश्रुतं नखच्छोटिकादि । सञ्चिश्रुतं समनस्कस्य मनस्सहायरिन्द्रियजेनितममिलाप
CAKES
%95
%25
॥२४॥
%
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२-४
प्लाविताहणं । तदेव मनोरहितेन्द्रियजभसनिश्रुतममनस्कस्य । सम्यकश्रुतं-अर्हत्प्रणीतं । इतरदसम्यग्दृष्टिस्तदेव मिथ्याश्रुतं, अन्यथाऽवबोधात् । सादिश्रुतं-ज्ञानात्मकं सम्यग्दृष्टेरज्ञानात्मकं वा सम्यक्त्वयतस्य मिथ्यादृष्टेः, अलब्धपूर्वसम्यक्त्वस्य तु तदेवानादिश्रुतं । सपर्यवसितं भव्यानां, केवलोत्पत्तौ ध्रुवं पर्यवसानात , अपर्यवसितमभव्यानां, केवलानुत्पादाद ।
भिन्नेऽर्थजाते यत्सदृशाक्षरालापं तद्गमिकं, असदृशं त्वगमिकं । अङ्गप्रविष्टं-आचारागादीन्यङ्गानि, तत्प्रविष्ट, शेषं प्रकीमार्णकाद्यनङ्गप्रविष्टमिति चतुर्दशधा श्रुतज्ञानमिति ।। ८५ ।।
उक्तं मतिश्रुतलक्षणं परोक्षं, अधुनाऽवधिमनः केवललक्षणं प्रत्यक्षं व्याचिख्यासुराहहै अनेकधाऽवधिः सज्ञि-मनसा वेदनं पुनः। मनःपर्यायविज्ञानं, केवलं सर्वभाववित् ।। ८६॥
___ व्याख्या-'अनेकधा' अनेकप्रकारं 'अवधिः' अवधिज्ञानं, तद्यथा-अनुगामि अननुगामि अवस्थितं अनवस्थितं हीयमानक प्रवर्द्धमानकं । तत्रानुगामि-यदेशान्तरगतमपि ज्ञानिनमनुगच्छति, यत्तु तद्देशस्थस्यैव भवति, स्थानस्थदीपवत् , देशान्तरगतस्य स्वपैति, तदननुगामि । अवस्थितं यदप्रतिपाति, अनवस्थितं यत्प्रतिपतति । हीयमानकं यजघन्येनाङ्गुलासङ्ख्येयभागादिविषयमुत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः सङ्क्लेशवशात्क्रमेण हानि विषयसङ्कोचात्मिकां याति यावदङ्गुलासङ्ख्येयभागः, येन त्वलोकस्य प्रदेशोऽपि दृष्टस्तस्य न हीयते, बर्द्धमानकं यदलासङ्ख्येयभागादिविषयमुत्पद्य पुनर्वृद्धिं विषयविस्तरणात्मिकां याति यावदलोके कल्पनया लोकप्रमाणान्यसङ्ख्येयानि खण्डानीति पड्विधमवधिज्ञानं । यद्वा सङ्ख्यातीतभेदं, तद्विषयस्य जघन्योत्कृष्टमध्यमभेदैरसङ्ख्यत्वात् । सज्ञिमनसा 'वेदनं' परिच्छेदनं पुनर्मनःपर्यायविज्ञानं,
*
RECTREk
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्वसं० प्रकरणम् स्वोपज्ञवृत्तिः ।
है मोक्षतत्त्वे
चारित्रपञ्चकस्वरूपम् ।
॥२५॥
ॐॐॐICRACK
| तद्विधा ऋजुमति-विपुलमतिभेदात् , तत्र ऋजुमतेरर्द्धतृतीयाङ्गुलहीनो मनुष्यलोकविषयः, स एव विपुलमतेः सम्पूर्णः । 'केवलं' केवलज्ञानं सर्वभाववित्-लोकालोकप्रकाशकमिति ॥ ८६ ॥
ज्ञानं च चारित्रसहितं मोक्षाय स्यादिति पश्चधा चारित्रमाहसामायिक तथा छेदो-पस्थाप्यं पारिहारिकम् । सूक्ष्मलोभं यथाख्यातं, चारित्रमिति पञ्चधा ॥८॥ - व्याख्या-सामायिकादिभिर्भदैरित्येवं पञ्चधा चारित्रमिति सम्बन्धः। तत्र सामायिकं पूर्वोक्तशब्दार्थ द्विविध-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च भरतरावतेषु प्रथमपश्चिमतीर्थेष्वनारोपितमहाव्रतस्य शिक्षकस्य विज्ञेयं, यावस्कथिकं तु यावजीविकं, तच्च मध्यमजिनविदेहतीर्थान्तर्गतसाधूनामवसेयं, तेषामुपस्थापनाया अभावात् । छेदोपस्थाप्पमिति छेदेन-पूर्वपर्यायनिरोधेनोपस्थाप्यः-शिष्यस्त द्योगाचारित्रमप्युपस्थाप्यं, एतच्च महाव्रतानां पुनरारोपणमुच्यते, तच्च द्विधासातिचारमनतिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते तीर्थान्तरसक्रान्ती वा, यथा पार्श्वनाथतीर्थादुर्द्धमानस्वामितीर्थ सङ्क्रामतः केशिगणधरस्य पश्चयामधर्मप्राप्ताविति, सातिचारं तु मूलगुणघातिनो यत्पुनरपि व्रतारोपणमिति । पारिहारिकमिति परिहारस्तपोविशेषस्तत्प्रयोजनं चारित्रं पारिहारिक, तदपि द्विविध-निर्विशमानकं निर्विष्टकायिक च, तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव निर्विष्टकायिकास्तदव्यतिरेकाचारित्रमपि निर्विष्टकायिकमिति ! तच्च चारित्रं तृतीयं नवभिस्साधुभिः कर्तव्यं, तथाहि-तन्मध्याच्चत्वार: पारिहारिका भवन्ति, अपरे तु तद्वैयावृत्य कराश्चत्वार एवानुपारिहारिकाः, एकः पुनः
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पस्थितो वाचनाचार्यो-गुरुभूत इत्यर्थः । तत्र पारिहारिकाणामयं परिहारस्त्रिधा जघन्य मध्यमोत्कृष्टभेदात् शीतोष्ण वर्षाकालेषु प्रत्येक मेष त्रिविधोऽपि स्यात् । तत्र ग्रीष्मे चतुर्थ जघन्यं षष्ठं मध्यममष्टममुत्कृष्टं शीतकाले च षष्ठं जघन्यमष्टमं मध्यमं दशममुत्कृष्टं वर्षाकाले पुनरष्टमं जघन्यं दशमं मध्यमं द्वादशमुत्कृष्टं, पारण के सर्वत्राप्याचाम्लं । अन्यच्च संसृष्टाद्याः सप्त भिक्षूणां भिक्षा भवन्ति, तत्राद्ययोः संसृष्टासंसृष्टयोरग्रहणमेव, पञ्चसु पुनरुद्धृताद्यासु ग्रहणं, तथा[ तत्रा]ध्येकया भक्षमेकया च पानकमित्येवं द्वयोरभिग्रह इति, यश्व कल्पस्थितो ये चानुपारिहारिकास्ते प्रतिदिनमाचाम्लं कुर्वन्ते । अन्यच्च पारिहारिकाः षण्मासान् यावत्परिहारतपः कृत्वाऽनुपारिहारिका भवन्ति, अनुपारिहारिकास्तु षण्मासान्यावत्पारिहारिका भवन्ति, कल्पस्थितोऽपि षण्मासिकं तपोविशेषं करोति, शेषाः सर्वेऽपि अनुपारिहारिकभावं व्रजन्ति तन्मध्याच्च कश्चित् कल्पस्थितत्वं, एवमिदं तृतीयं चारित्रमष्टादशमासप्रमाणं स्यात्, एतच्चारित्रकल्पसमाप्तौ च जिनकल्पिकत्वं प्रतिपद्यन्ते गच्छं वाऽनुप्रविशन्ति, अन्यच्चेदं प्रतिपद्यमाना जिनस्य जिनोपासकस्य वा पार्श्वे प्रतिपद्यन्ते, नान्यस्य । सूक्ष्मलोभमिति किड्डीकृतसंज्वलनलोभांश मित्यर्थः । एतच्च द्विधा - शुद्ध्यमानकं क्लिश्यमानकं च तत्राद्यं क्षपकोपशमश्रेणिद्वयमारोहतः स्यात्, द्वितीयं तूपशमश्रेणितः प्रच्यवमानस्येति । यथाख्यातमिति यथा येन प्रकारेणाकपायतया आख्यातं - उक्तं जिनैस्तथैव यत्तद्यथाख्यातं, एतच्चोपशान्तक्षीणमोहसयोगायोगानामेव स्यात् ॥ ८७ ॥
चारित्रं च भावनावत एवं निर्मलं स्यादिति द्वादश भावना नामतस्तावदाहअनित्यांऽत्राणं संसारा-न्यत्वैक्यस्वसंवराः । निर्जराऽशुचिलोकक्षी - बोधेर्दुर्लभत भवे
For Private And Personal Use Only
॥ ८८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् स्वोपज्ञ
169
नवतत्वसं०४ा स्वाख्याता च धर्मस्य, प्रणीतस्य जिनेश्वरैः। भावनीया भवोद्विग्नै-रिमा द्वादश भावनाः॥८९॥15 मोक्षतत्त्वे व्याख्या-अनित्याद्या इमा द्वादश भावना भवोद्विग्नैर्भव्य वनीया इति सम्बन्धः ।। ८८-८९ ॥
द्वादशतत्र क्रमप्राप्तां प्रथममनित्यभावनामाह
भावनावृत्तिः ।
18) अनित्याः प्रीतयो भोगा, यौवनं जीवितं धनम् । स्वामी सम्बन्धिनो भृत्या, भाव्यमेतन्मुहर्मुहः ॥९०॥निरूपणम् । ॥ २६ ॥ व्याख्या-'अनित्या प्रतिक्षणभङ्गराः 'प्रीतयः स्नेहा 'भोगा' विलासा 'यौवन तारुण्यं 'जीवित आयुः धन' स्व'स्वामी'
प्रभुः 'सम्बन्धिनो' बान्धवा 'भृत्याः' सेवकाः 'भाव्यं' भावनीयं मुहुर्मुहुरेतदिति ॥ ९० ॥ द्वितीयामत्राणभावनामाहत्राणं विना विनश्यन्ति, देवेन्द्राश्चक्रवर्तिनः। का कथेतरलोकानां, कालक्रोडनिवासिनाम् ॥ ९१॥
व्याख्या-'त्राणं' शरणं विना 'विनश्यन्ति' विपद्यन्ते, के ? 'देवेन्द्राः' सुरेन्द्राः 'चक्रवर्त्तिनः' षट्खण्डपृथिवीश्वराः, * ततः का कथा ? न कापीत्यर्थः 'इतरलोकानां' शेषलोकानां 'कालक्रोडनिवासिना' मृत्युत्सङ्गस्थायिनामिति ॥ ९१ ॥
सम्प्रति संसारभावनामाहजननी जायते जाया, शत्रुमित्रं पिता सुतः । श्वपचोऽपि द्विजत्वेन, संसारे कर्मयोगतः ॥ ९२ ॥
व्याख्या-माता कान्ता कान्ता च माता, शत्रुमित्रं मित्रं च शत्रुः, पिता पुत्रः पुत्रश्च पिता, चाण्डालो ब्राह्मणः ब्राह्मणश्च चाण्डालः, इति संसरण संसारे कर्मवशाद्भवतीति ।। ९२ ॥ अन्यत्वभावनामाह
॥ २६॥
SANCHAR
ACHOCALACHER
-
-
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिन्नो देहादितःप्राणी, पुण्यापुण्योपभोगवान् । यस्य यत्कर्म तत्तेन, भोग्यमेवेति भाव्यताम् ॥९३॥ ____ व्याख्या-'भिन्नः' पृथक् शरीरादेः प्राणी 'पुण्यापुण्योपभोगवान्' शुभाशुभकर्मोपभोगकयुतः, ततोऽयं तात्पर्यार्थःयस्य प्राणिनो यत्कर्म शुभमशुभं वा, तत्तेन भोग्यमेवेति 'भाव्यता' परिभाव्यतामिति ॥ ९३ ।। एकत्वभावनामाहन पश्चात्कश्चिदायातो, नाग्रे कोऽपि गमिष्यति । पुण्यपापं पुरस्कृत्य, भोग्यमेकाकिना फलम् ॥१४॥
व्याख्या-न पश्चात्पूर्वभवात्कश्चित्सहाऽऽयातो 'नाग्रे पुरतः कोऽपि सह गमिष्यति, केवलं 'पुण्यपापे' शुभाशुभकर्मणी 'पुरस्कृत्य' पुरस्सरे कृत्वा 'भोग्य' अनुभवनीयं, तयोः 'एकाकिना' असहायेन फलमिति ।। ९४ ।।
सम्प्रत्येक श्लोकेनाश्रव-संवर-निर्जरा-भावनात्रयमाहनवानां कर्मणां बन्धा-दाश्रवे तदसङ्ग्रहात्। संवरे निर्जरायां च, यतेत मतिमान्सदा ॥ ९५ ॥
व्याख्या-'नवानां' अभिनवानां कर्मणां ज्ञानावरणादीनां 'बन्धात्' प्रकृत्यादिभिः सङ्ग्रहाद् 'आश्रवे' आश्रवभावनायां, तेषां कर्मणां 'असङ्ग्रहात' असम्बन्धात 'संवरे संवरमावनायां, पूर्वबद्धकर्मक्षपणाच 'निजेरायां' निर्जगभावनायां सदा मतिमान् यतेतेति ।। ९५ ॥ अथाशुचित्वभावनामाहअन्तर्मलघटस्येव, बहिः प्रक्षालनादिभिः । न स्यादस्य शरीरस्य, शुचित्वं बाह्यशौचतः ॥ ९६ ॥
व्याख्या-यथाऽन्तर्मलघटस्य बहिः प्रक्षालनादिभिःशुचित्वं न स्यादेवमस्य शरीरस्य बाह्यशौचतः स्नानादेस्तम स्यादिति
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्त्वसं० प्रकरणम् स्वोपज्ञवृत्तिः । ॥२७॥
ROCHAKAREENA
अथ श्लोकद्वयेन लोकेक्षाभावनामाह
| मोक्षतच्चे लोको वैशाखसंस्थान-कटीकरनराकृतिः। तनुस्त्यानानिलाधार-स्तनुस्त्यानार्णवस्थितिः ॥ ९७॥
| भावनाव्याख्या-लोकश्चतुर्दशरज्वात्मका, कीदृशो ?, वैशाखसंस्थानकटीकरनराकृतिः, यादृशो वैशाखस्थानकस्थः कटी
निरूपणम् । दत्तहस्तद्वयश्च पुरुषः स्यात्तादृगाकार इत्यर्थः । 'तनुस्त्यानानिलाधार' तनुवातघनवाताश्रितः, तनुस्त्यानार्णवस्थितिः-तनदधिनोदधिकृतावस्थान इत्यर्थः ।। ९७॥ स पुनः सप्तधाऽधस्ता-न्मध्ये नानाविधास्पदः । ऊर्द्ध पञ्चदशोद्देशः, षडधर्मादिव्यवस्थितः॥९८॥
व्याख्या--'स' पुनर्लोकः पूर्वोक्तस्वरूपोऽधस्ताद् रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-धूमप्रभा-पङ्कप्रभा-तमःप्रभातमस्तमःप्रभाभेदैः 'सप्तधा' सप्तविधः, मध्ये नानाविधास्पदो-नग-नद-नदी द्वीप विजयाद्याम्पद इत्यर्थः । ऊर्द्ध पश्चदशोद्देशस्तद्यथा-सौधर्मः ईशानः सनत्कुमार: माहेन्द्रः ब्रह्मलोकः लान्तकः शुक्रः सहस्रार: आनतः प्राणतः आरणः अच्युतः १२ नववेयकाणि १३ पश्चानुत्तरविमानानि १४ परमपदं १५ चेति । षड्धर्मादिव्यवस्थित इति षभिर्धर्मादिभिर्धर्मास्तिकायादिभिर्व्यवस्थितः, ते च व्यवस्थिता यत्र स तथेति ॥ ९८ । सम्प्रति बोधेर्दुर्लभत्वलक्षणां भावनामाह-- भवेऽतिदुर्लभां लब्ध्वा, सामग्री नृभवादिकाम् । कथं सा नीयते ? ध्वंसं, सद्धर्मार्जनवर्जितैः ॥१९॥ व्याख्या- 'भवे' संसारे 'अतिदुर्लभां' अतिदुष्प्रापां लब्ध्वा' प्राप्य 'सामग्री' कारणकलापं, कीदृशीं ?, नृभवादिकां
IP॥ २७॥
AAROCHACXRENCE
4%
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
1
ACCO
R RECORRECTGCTRESAR
मनुजजन्मादिकां, सद्धर्म:-क्षान्त्यादिस्तदुपार्जनपरामुखैः पापरतेः कथं सा सामग्री नीयते ! 'ध्वंस' विनाशमिति ॥ ९९ ॥
उक्तं बोधेर्दुर्लभत्वं, सम्प्रति धर्मस्वाख्याततामाहभवाब्धौ निपतजन्तु-जातपोतोपमः सदा । जिनधर्मः समाख्यातो, निष्कारणकृपापरैः ॥ १०॥ ___व्याख्या-संसारसागरे मञ्जतां जीवसङ्घातानां सुदृढः प्रवहणायमानः रागादिजेतृभिः कारणवर्ज दयोद्यतैः क्षान्त्यादिको धर्म उपदिष्ट इति ॥ १०॥ समर्थितं "ज्ञानिना"मित्यपि विशेषणं, सम्प्रति "क्षीणकर्मणा"मिति विशेषणं समर्थयितुं यथा जीवो योग्यतामासाद्य कर्मग्रथिं विभिद्य सम्यक्त्वमाप्नोति तथा श्लोकत्रयेण प्राहयथाप्रवृत्तक्रियया, कर्मभिस्तनुतां गतः। भजते योग्यतां जीवो, नदीग्रावेव घोलनैः ॥१०१ ॥
व्याख्या--'यथाप्रवृत्तक्रियया' यथाप्रवृत्तकरणेन अकामनिर्जरासझकेन कर्मभि-रायुर्वज्ञानावरणादिभिः सप्तभिः 'तनुता' अल्मस्थितित्वं गतः 'भजते' आश्रयते योग्यता, धर्म प्रतीति दृश्यं । 'जीव' प्राणी। क इव के ? नदीग्रावेव घोलन:8| यथा नदीपाषाण इतस्ततः परावर्तनः स्वयमेव विषमोऽपि वृत्तः स्यादेवं जीवोऽपि धर्माहः स्यादित्यर्थः ॥ १०१॥ है| वीर्यादव्यहं रणेऽरीणां, यथा वीरो भिनत्त्यलम् । अपूर्वकरणाजीवः, कर्मग्रन्थि तथा दृढाम् ॥१०२॥
___व्याख्या-इति(?) 'वीर्यात्' सामर्थ्यात् 'व्यूह' चक्रं 'रणे' सङ्ग्रामे 'अरीणां' शत्रूणां यथा 'वीर' शूरः 'अलं' अत्यर्थ | भिनत्ति, अपूर्वकरणाद्वितीयाजीवः ['दृढा' अतिनिबिडां]कर्मग्रन्थि-कर्मणां धनपरिणाम दुभेदं तथा भिनत्तीत्यर्थः ॥१०२।।
0CRECRACROCEKACAE%
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
मोक्षतत्वे सम्यक्त्वप्राप्तिक्रमः।
नवतत्वसं० अन्तर्मुहर्त्तमात्रेण, करणेनानिवृत्तिना । कृतान्तरो लभेतासा-वौपशमिकदर्शनम् ॥ १०३ ।। प्रकरणम् व्याख्या-अन्तर्मुहर्त्तमात्रेण-तत्प्रमाणेन करणेन तृतीयेन 'अनिवृत्तिना' अनिवृत्तिनाम्ना 'कृतान्तरो' विहितान्तौंस्वोपना ४ा हुर्तिकान्तरकरणो 'लभेत' प्राप्नुयाद् 'असौ' जीव औपशनिकदर्शनं, औपशमिकदर्शनं चात्रोपलक्षणं, दर्शनमोहक्षयोपशमे वृत्तिः । क्षयोपशमिक, तन्क्षये च क्षायिकं सम्यक्त्वं प्रामोतीत्यर्थः । एतदुत्पत्तिक्रमश्चायं-विशेषतः किलायुर्वर्जानि ज्ञानावरणादीनि
मप्तकर्माणि, तिष्वन्तरायसहितान्यायानि त्रीणि] त्रिंशत्सागरोपमकोटाकोटीप्रमाणानि, नामगोत्रे तु विंशतिसागरोपमकोटा॥२८॥
कोटीप्रमाणे, मोहनीयं तु सप्ततिसागरोपमकोटाकोटीप्रमाणं । तत्र गम्भीरतरभवाम्भोधिमध्यवर्ती कश्चिजन्तुः प्रथममना.
भोगिकेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्त करणेनायुर्व र्जानि सप्तापि ज्ञानावरणादीनि कर्माणि पल्योपमासहरूयेयभाग. गहीनसागरोपमकोटाकोटीस्थितिकानि करोति, ततः अनाभोगिकेन यथाप्रवृत्तकरणेनानन्तगुणविशुद्ध्या वर्तमानः पल्योपमा | सङ्ख्येयभागहीनमागरोपमकोटाकोटीस्थिति काया मोहनीयकर्मलतायाः कर्मदलि कमन्तर्मुहूर्त यावद्वेदयित्वा अपूर्वकरणं गच्छति । अत्रापूर्वाणि चत्वारि करोति-स्थितिघातं रसघातं गुणश्रेणि स्थितिबन्धं चेति । अत्रायातच रागद्वेषपरिणामरूपं घनकर्कशं ग्रन्थि भिनत्ति, विभिद्य च ग्रन्थि अनिवृत्तिकरणमन्तर्मुहूर्तप्रमाणं प्रयाति । अनिवृत्तिकरणं चानेन हेतुना भण्यते,
यतोत्रायातः प्राणी सम्यक्त्वमनवाप्य न निवर्त्तते । एतदनन्तरं चान्तरकरणमन्तर्मुहर्तप्रमाणं कुरुते, कृते चात्र स्थितिद्वयं है। विधत्ते-प्रथमामन्तरकरणादधस्तनीमान्तमाहूर्तिकीयां द्वितीयां तस्मादेवान्तरकरणावं । तत्र प्रथमायां स्थितौ मिथ्यात्व
दलिकवेदनान्मिथ्यादृष्टिरुच्यते, अन्तर्मुहर्तेन तु तस्यामनुभूतायां अन्तरकरणप्रथमसमय एवं औपशमिकसम्यग्दृष्टिः स्यात् ,
A
%
For Private And Personal use only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PRE
-34-
%EC
तदनन्तरं च मिथ्यात्वमिश्रसम्यक्त्वलक्षणपुञ्जत्रयसम्भवे मिथ्यात्वमोहनीयक्षयोपशमे क्षायोपशमिकसम्यग्दृष्टिस्तत्क्षये च. क्षायिकसम्यग्दृष्टिः स्यादिति ॥ १०३॥ तदनन्तरं चोत्तरोत्तरगुणप्राध्या केवलज्ञानं स्यादिति श्लोकद्वयेनाहततः क्रमेण सम्प्राप्य, चारित्रं देशसर्वतः । प्राप्तोत्तरोत्तरगुणो, विशुद्धाध्यवसायतः ॥ १०४ ॥ क्षपकश्रेणिमारुह्य, मोहमुन्मूल्य मूलतः। घातिकर्मक्षयाज्ज्ञानं, लभते केवलात्मकम् ॥१०५॥ [ युग्मम् ] ___ व्याख्या--'ततः सम्यक्त्वप्रायनन्तरं 'क्रमेण' परिपाट्या 'सम्प्राप्य' आसाद्य, किं तत् ?, चारित्रं, कथं ? देशसर्वतः४/ देशतः सर्वतश्चेत्यर्थः । जीवः प्राप्तोत्तरोत्तरगुणस्थानको विशुद्धाध्यवसायेभ्यः ॥ १०४॥क्षपकश्रेणि-प्रयु[प्रो] कस्वरूपामारुह्य 'मोह' मोहनीयमुन्मूल्य मृलादेव 'घातिकर्मक्षयात्' ज्ञानदर्शनावरणमोहान्तरायक्षपणाज्ज्ञानं केवलात्मकं लभत इति ॥१०५॥ केवलज्ञानलाभानन्तरं येन क्रमेण मुक्तः स्यात्तं क्रमं श्लोकद्वयेनाह
[युग्मम् ] आन्तौहर्तिकं कालं, विहृत्यासौ जघन्यतः। पूर्वकोटिं च देशोनां, स्थित्वोत्कर्षेण केवली ॥१०६ ॥ योगान्निध्य क्रमशः, क्षीणकर्मचतुष्टयः।ऋजुगत्याऽस्पृशन् गच्छे-ज्ज्ञानात्मा मुक्तिमव्ययाम् ॥१०७॥ ____ व्याख्या-'आन्तमौहूर्तिक' अन्तर्मुहर्तप्रमाणं 'कालं' समयं 'विहृत्य' विहारं कृत्वा असौ-केवली 'जघन्यतः' स्वल्पतः, यद्वा पूर्वस्य प्रमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पश्चाशरसहस्राश्च वर्षकोटीनामनेन पूर्वप्रमाणेन पूर्वाणां कोटिं 'देशोना' | वर्षाष्टकन्यूनी, अयमभिप्राय:-अष्टानां वर्षाणां मध्ये व्रताधिकारो नास्ति, तत्परिणामाभावादिति देशोनामित्युक्तं 'स्थित्वा'
%%
%AC
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CHECE%
मोक्षसुखं | स्याद्वाद
स्वरूपनिरूपणं च।
नवतचसं०४ अवस्थितिं कृत्वा 'उत्कर्षण' उत्कृष्टपदेन ।। १०६ ॥ योगान्मनोवाकायान् पूर्वोक्तबादरमूक्ष्मादिप्रकारेण क्रमशो 'निरुध्य' प्रकरणम्
निषिध्य क्षीणकर्मचतुष्टयः' क्षपितवेदनीयनामगोत्रायुलक्षणभवोपग्राहिकर्मचतुष्टयः 'ऋजुगत्या' ऋजुश्रेण्याऽस्पृशन् एकसमस्वोपन
येन 'गच्छेद्' व्रजेन्मुक्ति 'अव्ययां' अक्षयामिति ।। १०७ ।। मुक्तस्य यत्सुखं स्यात्तदावेदयन्नाहवृतिः । अनन्तमपरायत्त-मनाबाधमनुत्तरम् । अनौपम्यं सुखं तत्र, तस्य स्वाभाविकं सदा ॥ १०८ ॥ ॥२९॥
___व्याख्या-'अनन्त' अन्तरहितत्वादव्ययं वा 'अपरायत्त' स्वायत्तं, तत एव 'अनाबाध' निराबाधं, अनुत्तरं तदुत्तरसुखाभावात् 'अनौपम्य' असदृशं सुखं परमानन्दरूपं तत्र-मुक्तौ तस्य-मुक्तस्य 'स्वाभाविक' स्वभावरूपं सदा, स्यादित्यध्याहार्य मिति ॥ १०८॥ मुक्तिसुखं हि ज्ञानवतः स्यात् , ज्ञानं न स्याद्वादपरिभावनं विनेति समस्तभावानामुत्पत्तिव्ययधौ व्यसमर्थनेन स्याद्वादमावेदयन्नाहस्यादुत्पत्तिव्ययधौव्य-युक्तं व्यक्तं स्वभावतः। स्वरूपं विश्वभावानां, विश्वाभ्यन्तरभाविनाम् ॥१०९॥ ___व्याख्या-स्यादित्याख्यातप्रतिरूपकाव्ययस्य कथञ्चित्पर्यायत्वात् 'स्यात्' कथञ्चिदुत्पत्तिव्ययध्रौव्ययुक्तं 'व्यक्तं' स्पष्ट वा 'स्वभावतः स्वभावात् 'स्वरूप लक्षणं 'विश्वभावानां समस्तवस्तूनां 'विश्वाम्यन्तरभाविनां त्रैलोक्योदरवर्तिनामिति ॥१०९॥ ___एतदेवोत्पत्तिव्ययध्रौव्यलक्षणत्रयं षण्णां धर्मास्तिकायादीनां प्रत्येकं श्लोकपश्चकेन दर्शयन्नाहलोकस्थित्या सदा स्थैर्य, व्ययोत्पत्ती पराश्रिते। त्रैधं व्यवस्थितं तस्मा-धर्माधर्मास्तिकाययोः ॥११०॥
ACCIAL
ASCHOCOCCAKACE
MU॥२९॥
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuti Gyanmandie
व्याख्या-'लोकस्थित्या' लोकस्वभावेन 'सदा सर्वदा 'स्थैर्य स्थिरत्वं । 'व्ययोत्पत्ती' विनाशजन्मनी पुनः पराश्रिते पुद्गलाद्याश्रिते 'धर्माधर्मास्तिकाययो' धर्मास्तिकायस्याधर्मास्तिकायस्य चेति, तस्मात्प्राक्तनोपपच्या 'वैध' त्रिविधत्वं 'व्यवस्थितं' प्रतिष्ठितमिति ॥ ११॥ व्योम ध्रुवं स्वभावेन, पुद्गलद्रव्यचारतः। आपूर्तुत्सारणाभ्यां स्या-दुत्पत्तिव्ययधर्मकम् ॥१११॥
व्याख्या-'व्योम' आकाशं 'ध्रुवं' नित्यं 'स्वभावेन' स्वरूपेण 'पुद्गलद्रव्यचारतः' परमावादिपुद्गलद्रव्यसञ्चारात 'आपूय॒त्सारणाभ्या' आपूरणेन अपसारणेन वा 'स्यादुत्पत्तिव्ययधर्मक' कथञ्चिदुत्पत्तिव्ययस्वरूपमिति ॥ १११ ॥ पुद्गलः पुद्गलत्वेन, नित्यश्चित्रविवर्त्तनः। तदा नृत्या व्ययोत्पत्ती, त्रैगुण्यं तद्धि निश्चितम् ॥११२॥ ___ व्याख्या-पुद्गलः परमाण्वादिः 'पुद्गलत्वेन, द्रव्यत्वेन नित्यः, [किं लक्षणः पुद्गलः ? 'चित्रविवर्त्तन' नानारूपपरिवर्तन
शीला, यत्तदोनित्याभिसम्बन्धाद्यदा पुद्गलचित्रविवर्तनस्तदा तस्मिन् 'गयोत्पत्ती' विनाशोत्पत्तिरूपा वर्तना 'नृत्या' नृत्यकारिBा केव नर्तिका समस्ति, अतएव] चित्रविवर्तनत्वेन तस्य त्रैगुण्यं, तत्तस्मात्कारणात् 'हि' स्फुटं 'निश्चितं' निर्णीतमित्यर्थः ॥११२॥ ४ जीवो जीवत्वमाश्रित्य, नित्यः संसरणात्मकः। तस्मादेव व्ययोत्पत्ती, ततस्त्रैधं प्रतिष्ठितम् ॥११३॥ ____ व्याख्या-'जीवः' प्राणी जीवत्वमाश्रित्य नित्यः, किश्चासौ 'संसरणात्मकः' चातुर्गतिकसंसारपरिभ्रमणशीलः, तस्मादेव संसरणाद् व्ययोत्पत्ती तस्य भावात्मकस्य, ततश्चैवं त्रिगुणात्मकत्वं प्रतिष्ठितं-युक्तियुक्तमित्यर्थः ॥ ११३ ॥
RACateeCREA345544
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नवतच्च सं०
प्रकरणम्
स्वोपज्ञ
वृत्तिः ।
॥ ३० ॥
www.kobatirth.org
कालो ध्रुवः परावर्तै- रुत्पत्तिव्ययसङ्गतः । क्षणादिलक्षणो लक्ष्य - त्रिधैवैष विचक्षणैः ॥ ११४ ॥ व्याख्या - कालो 'ध्रुवः' सनातनः 'परावर्त्तः' परावर्त्तनैरुत्पत्तिव्ययमङ्गतः कालः कीदृक् ? 'लक्ष्यो' लक्षणीयः, कैः १ विचक्षणैस्त्रिधा - त्रिभिः प्रकारैरुत्पत्यादिभिरेवेति, तदेवं सर्वभावानां धर्मास्तिकायादीनामुत्पत्ति व्ययौव्यात्मकत्वे समर्थितेऽनेकान्तः सिद्ध एव सिद्धे चास्मिन्न विरोध उद्भावयितव्यः ॥ ११४ ॥
एतच्च स्याद्वादतवं यथावस्थितं विज्ञाय न जैनाः क्वापि व्यामुद्यन्तीत्याह
एवं स्याद्वादवेत्तारो, नवतत्त्वनिरीक्षणाः । सर्वार्थेषु न मुह्यन्ति, संवेदनविचक्षणाः ॥ ११५ ॥
व्याख्या - एवं 'स्याद्वादवेत्तारः' पूर्वोक्तविचारेण स्याद्वादविशारदाः 'नवतस्त्रनिरीक्षणाः' सर्वार्थेषु पर्यालोचकाः 'संवेदनविचक्षणाः' प्रस्तुत संवेदनाख्यधर्मप्रकरण प्रवीणाः सर्वार्थेषु हेयोपादेयेषु 'न मुह्यन्ति' न व्यामोहं कुर्वन्ति, हेयं देयतया उपादेयं चोपादेयतया जानन्तीत्यर्थः ॥ ११५ ॥
sara प्रकरणकारः प्रकरणकरणमनुमन्यमान औद्धत्यं च परिहरन् विदुषामभ्यर्थनां करोतिसंवेदनं पदार्थानां नवानामिति वर्णितम् । संशोध्यं बालिशस्येदं, विद्वद्भिर्मदनुग्रहात् ॥ ११६ ॥ व्याख्या - पदार्थानां जीवादीनां 'नवानी' नवसङ्ख्यानां 'इति' प्राक्तनप्रकारेण संवेदनं 'वर्णितं' निरूपितं परं संशो धनीयमित्यर्थः, बालिशस्य वैधेयस्य, केः संशोध्यं १ विद्वद्भिः श्रुतधरैः कस्मात् ? मदनुग्रहात् - ममोपरि कृतप्रसादैरित्यर्थः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादस्वरूप
निरूपणम् ।
॥ ३० ॥
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
अधुना तत्वप्रतिपत्तिं प्रति योग्यानामुपदेशसर्वस्वमाह-- अन्तजिनागममहानिधितः प्रलम्ब-प्रज्ञाभुजात्तगुणरत्नसमूहभासा । दत्तप्रकाशमहितकविधानधावी, हित्वा तमोभजत तत्त्वमिति प्रणीतम् ॥११७॥ [ वसन्ततिलका ] व्याख्या:-इति संवेदनविरचनप्रकारेण प्रणीतं तत्त्वं भजत हे जना ! इत्युपदेशः। किं कृत्वा ? 'हित्वा' त्यक्त्वा 'तमोऽज्ञानं, अहितैकविधानधावी-दुर्गतिगमननिदानानां एकं यद्विधानं, तत्प्रतिधावी-तत्प्रतिधावनशीलमित्यर्थः । किंविष्टं तत्वं ? 'दत्तप्रकाशं' विहितावलोकं । कया , प्रलम्बप्रज्ञाभुजात्तगुणरत्नसमूहभासा-प्रलम्बो योऽसौ प्रज्ञाभुजः, तेन 'आत्तो' ग्रहीतो यो गुणरत्नसमूहस्तस्य 'मा' प्रभा, तया । कस्मात् , अन्तर्जिनागममहानिधित:-जिनागम एव महानिधिर्जिनागममहानिधिर्जिनागममहानिधेः 'अन्तः' मध्यं, तत्तस्मात्ततः । पादाद्यन्ताक्षरैय॑स्तक्रमेण कविनामाङ्कितं वृत्तमिदम् ॥११७॥
यदवयं मया किश्चि-अल्पितं स्वल्पबुद्धिना । विहितानुग्रहै। शोध्यं, तत्समग्रं बहुश्रुतैः ॥ १॥ विंशत्यधिकद्वादश-शतेष्वतीतेषु विक्रमसमानाम् । फाल्गुनशुक्लनवम्यां, सोमे विवरणमिदं चक्रे ॥२॥ यत्प्राप्तं सुकृतं पदार्थविशदं निष्पाद्य संवेदनं, तद्वृत्तिं च मया समस्तभविनस्तेनामुना क्षायिकम् । सम्यक्त्वं प्रतिपद्य मुक्तमनसः सर्वज्ञधर्मे रति, कुर्वन्तु प्रतिषिद्धपापविषयाः सदुद्धिशुद्धाशयाः ॥ ३ ।। [शार्दूलवृत्तम् ]
॥ ग्रं०६०३ । इति श्रीनवतत्त्व[संवेदन-प्रकरण]वृत्तिः सम्पूर्णा ॥
Recotek
SOCIAKikoCKASSORocockCHE
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtharg Acharya Shri Kailassagarsun Gyanmandir आसन् खरतरे गच्छे, सुविशुद्धक्रियाऽन्विते / ख्याता मोहनलालेति, क्रियोद्धारविधायकाः // 1 // prarurNarsurasRINENIRNORNSurNINirauryg श्राद्धवर्यश्रीमदम्बप्रसादसन्हब्धं स्वोपज्ञवृत्त्या समलङ्कतं नवतत्त्वसंवेदन-प्रकरणं समाप्तम् / जाज नाजानाजानाजानाका तच्छिष्यशिष्यपन्यास-गणिकेशरसन्मुनेः / शिष्यं हि गणिबुझ्यब्धि, ते प्रयच्छन्तु शं सदा // 2 // For Private And Personal Use Only