________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kasiassagarsur Gyarmandie
स्वतचसं० प्रकरणम् स्वोपज्ञवृत्तिः ।
मोक्षतत्त्वे दशविधयतिधर्मस्वरूपम् ।
॥२२॥
%ARHARASH
मूर्छाब्धौ मजतां भीमे, वाञ्छावीचिषु मुह्यताम् । निस्सङ्गतातरी सारा, तदुत्तरणकारणम् ।।७८॥
व्याख्याः-मृच्छैवाब्धि ब्धिस्तत्र 'भीमे' भयानके 'मजतां तदन्तर्बुडता 'वाञ्छा' अपरापरस्पृहास्त एव 'वीचयः' कल्लोलास्तामु मुह्यतां निस्सङ्गता' निर्ममता, सैव 'तरी' नौः 'सारा' प्रधाना 'तत्तरण कारणं' मूर्णिवात्तरणहेतुरित्यर्थः ।। निस्सङ्गता धृतेर्मूलं, ततो ध्यानं सुधात्मकम्। तस्माज्ज्ञानमनन्तं स्या-त्तत्सिद्धौ सर्वसिद्धयः॥७९॥
व्याख्या-'निस्सङ्गता' निरभिष्वङ्गता 'धृतेः' सन्तोषस्य 'मूलं' कारण । 'ततो' धृतेः सकाशात् 'ध्यान' धर्मध्यानं शुक्लध्यानं वा 'सुधात्मकं' अमृतात्मकं । 'तस्मात्' ध्यानात् 'जान' केवलज्ञानमनन्तं ज्ञेयानन्तत्वेन अक्षयत्वेन वा स्यात् । तस्मादनन्तज्ञानस्य 'सिद्धौ' निष्पत्ती सर्वसिद्धयो निःश्रेयसाधवाप्तिरूपाः स्युरिति ।। ७९ ॥
निस्सङ्गता च तपोविशेष विना न स्यादतः श्लोकचतुष्टयेन तपोविशेषमाहकर्माजीर्णमलं मूला-दुन्मूलयति निर्मलः। तपोवैश्वानरचर्ण-स्तूर्णमेवति निश्चितम् ॥ ८॥
व्याख्या-कर्म ज्ञानावरणादि, तदेव संसारं मिथ्यात्वादिभिः कारणैस्सञ्चीयमानत्वादजीर्णमलम्तं 'मूलात्' समूलं 'उन्मूल. यति' अपनयति 'निर्मलो' निर्दोषस्तप एव वैश्वानरचूर्ण-स्तत्तद्रव्यसंयोगः 'तूर्णमेव' शीघ्रमेवेति निश्चितं श्रीतीर्थनाथादिभिः ।। वामनःकायसंशुद्धया, क्रोधाहकारवर्जनात् । विवेकायत्तचित्तानां, सर्वकर्मान्तकं तपः ।। ८१॥ व्याख्या-वानमनःकायसंशुद्ध्या-एतत्रयपवित्रतया यत्क्रोधाहकारवर्जनं, तस्माद्विवेकायत्तचित्तानां-तदधीनमानसानां
For Private And Personal use only