________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्याणपरम्पराकारणं 'उशन्ति' भाषन्ते गुणशालिन इति ॥ ७५ ॥ करणत्रयण योगै-मनोवाकायसज्ञितैः। आहारादिकसज्ञाभि-रिन्द्रियैः श्रवणादिभिः॥ ७६॥ पृथ्व्यादिनवभिर्जीवै-रजीवदशमैस्तथा ।क्षान्त्यादिधर्मेर्दशभिः,सङ्ख्या शैलाङ्गिकी भवेत्।७७। [युग्मम् ]
व्याख्या करणत्रयेण करणकारणानुमतिरूपेण योगैमनोवाकायसज्ञितैः आहारादिकसज्ञाभिश्चतसृभिरिन्द्रियैः श्रवणादिभिः ॥ ७६ ।। पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पश्चेन्द्रियरूपैर्नवभिर्जीवैः पुद्गलाद्यजीवदशमः, क्षान्त्यादिभिधमः सङ्ख्या अष्टादशमहस्रप्रमाणा 'शैलाङ्गिकी' शीलाङ्गनिष्पन्ना भवेत् , तथाहि-कस्मिंश्चित्पट्टकादावौत्तराधर्येण त्रि-त्रि] चतु:पञ्च-दश दशमङ्ख्ये मूलपदकलापे लिखिते मति भङ्गका उत्थाप्यन्ते, न करोमि मनसा आहारसज्ञाविप्रहीणः श्रोत्रेन्द्रिय संवृतः पृथ्वीमायारम्भ शान्तियुक्तः सन्नित्ये[व] मेकं शीलाङ्गं भवति, पूर्वोक्तालापकेन क्रमेण मार्दवादिपदसंयोगे शेषाणि नव शीलाङ्गानि भवन्ति, एता ने च सर्वसङ्ख्यया शीलाङ्गानि दश प्रथमजीवभेदेन लब्धानि, एवमजीवपर्यन्तैः शेषेर्नवभिः प्रत्येक दश दश लब्धानि, पिण्डितानि च शतं भवन्ति । एतच्छतं श्रोत्रेन्द्रियेण लब्धं, शेपैरपि चतुभिरिन्द्रियैः प्रत्येकं शतं शतं प्राप्त जातानि पञ्चशतानि, एषा पश्चशती प्राप्ता प्रत्येकं चतसृभिः सज्ञाभिर्जातं सहस्रद्वयं, एतच्चासादितं मनोवाकायैः पृथक्पृथगेवं जाताः षट्सहस्राः, एते षडपि सहस्रा लब्धाः प्रत्येक करणत्रयेण, एवं च सजज्ञे शेलानिकी सङ्ख्या अष्टादशसहस्राणीति ।। ७७ ।। श्लोकद्वयेन निस्सङ्गतामाह
लिखिते पनि भङ्गको पन्ना भवेत्, तबाही प्रगलायजी
ACCANDICROCARECRUIRECOR
For Private And Personal Use Only