________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
जवतवसं० प्रकरणम् स्वोपज्ञवृत्तिः । ॥ २१ ॥
धर्मस्य ['निर्माणकर्मणो'] निष्पादनकर्मणो भूमिः, गुणा-ज्ञानादयस्त एव रत्नानि, तदोघस्य 'रोहणं' रोहणगिरिमिति ॥७१॥ | मोक्षतच्चे श्लोकद्वयेन त्यागमाह
दशविधअदत्तं दुःखसन्दोह-दोहदं दुष्टदंष्ट्रिणम् । तं त्यागशरभो भीम, भ्रंशयेद्रभसाद भृशम् ॥ ७२॥18 यतिधर्मव्याख्या-'अदत्त' चौयं दुःखसन्दोहदोहदं-दुःखसङ्घातानां पोषकत्वेन दोहदं । दुष्टदंष्ट्रिणं-दुष्टकेसरिणं, तं 'भीम' रौद्रं
वर्णनम् । त्याग एव शरभः, स 'भृशं' अत्यर्थ 'रभसाद' औत्सुक्याद् भ्रंशयेदिति ।। ७२ ॥
महामोहजयस्त्यागा-तद्भवं ज्ञानमुत्तमम् । तस्मादक्षयमोक्षः स्या-त्सदानन्दमहोदयः ॥७३॥ __ व्याख्या-महामोहस्य 'जयः' पराजयः 'त्यागात्' लोभपरिहारात् । 'तद्भव' तज्जयभवं ज्ञानमुत्तमं, तच्च केवललक्षणं, तस्मादक्षयो मोक्षः स्यात् 'सदानन्दमहोदयः' सततानन्दमय इति ।। ७३ ।। सम्प्रति ब्रह्मवतं श्लोकचतुष्टयेनाह
कामं कामो महाभीमो, ग्रहोऽयं दुरवग्रहः । ब्रह्मवताभिचारेण, तदुच्चाटनमाचरेत् ॥ ७४ ॥ ___व्याख्या-'काम' अत्यर्थ 'कामः' कन्दपों 'महाभीमो' महारौद्रो ग्रहोऽयं दुस्खग्रहो-दुःखेनावगृह्यत इत्यर्थः, ब्रह्मव्रतमेवाभिचारो-मन्त्रप्रयोगस्तेन तदुच्चाटनं' कामग्रहोच्चाटनमाचरेदिति ।। ७४ ।। शीलं सर्वगुणापीलं, निर्मलं मलमार्जनम् । मङ्गल्यमालिकामूल-मुशन्ति गुणशालिनः ॥ ७५॥
व्याख्या-'शील' ब्रह्मव्रतं 'सर्वगुणापीलं' सर्वगुणोत्तंसं 'निर्मल' स्वयं पवित्रमन्येषां च मलमार्जकं 'मङ्गल्यमालिकामूलं' ॥२१॥
कामः' कन्दपों महाटनमाचरेदिति ।। ७४ ।
CROSOCIA
शान्ति गुणशालिनः
For Private And Personal Use Only