SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie ॐॐ-% A SOCIRCRACK सर्वकर्मान्तकं तप इति ॥ ८१॥ स्तोकोहारनिराहार-वृत्तिसङ्केपलीनताः। कार्यक्लेशरसत्यागौ, षोढा बाह्यमिदं तपः॥ ८२॥ ___व्याख्या-स्तोकाहारादिभिः प्रकारैः पोढा बाह्यमितरैरपि प्रतीयमानत्वादिदं तपः, तत्र स्तोकाहार-ऊनोदरता, स च द्विविधो-द्रव्यतो भावतच, द्रव्यतस्त्वनेकपा द्वात्रिंशत्कवलमानपूर्णाहारापेक्षया एकादिकवलन्यूनाहारग्रहणतः स्यात् । भावतः पुनः कषायत्यागः[१]। निराहारः पुनराहारामावः, स च द्विविधो-यावत्कथिकः स्तोककालीनश्च, यावत्कथिकोऽपि विधा-पादपोपगमनमिङ्गिनीमरणं भक्तपरिक्षा चेति, तत्राद्यं सर्वथा परिस्पन्दवर्जितं निष्प्रतिकर्म चतुर्विधाहारत्यागनिष्पन च । द्वितीयमपि तथैव, नवरं-इङ्गित नियमित]देशे सक्रमणाद्यपरिहारवत् । तृतीयं च सप्रतिकर्म त्रिविधचतुर्विधाहारत्यागनिष्पन्नं वा । स्तोककालीनः पुनश्चतुर्थभक्तादिषण्मासान्तः[२]। वृत्तिसङ्केपस्तु वृत्तेभिक्षाचर्यायाः सोपणमल्पताकरणं वृत्तिसक्षेपश्चतुर्द्धा करणं द्रव्यादिभेदात् , तत्र द्रव्यतः सलेपमलेपं वा मया ग्राह्यमित्यादि, एवं क्षेत्रतः स्वग्रामे परग्रामे वा एतावत्सु गृहेषु यल्लप्स्यत इत्यादि, एवं कालतः पूर्वान्हे मध्यान्हेऽपरान्हे वा, भावतः पुनरुवक्षिप्तमेव वा निक्षिप्तमेव वा गायतो वा रुदतो वा यल्लप्स्यत इत्यादि ३। लीनता चतुर्विधा-इन्द्रियकषाययोगविविक्तचर्यामेदात , तत्रेन्द्रियकषाययोगाः प्रतीताः, विविक्तचर्या तु स्त्रीपशुपण्ड ककृशीलवर्जितनिरवद्याश्रयाश्रयणं ४ । कायक्लेशो-वीरासनोत्कटिकासनगोदोहिकासनादिशीतवातातपसहनशिरोलोचादिरनेकविधः ५। रसत्यागस्तु द्रव्यतो रसानां दुग्धदधिघृतादीनां सर्वेषामन्यतरेषां वा, भावतः शान्तरसवर्ज श्रृङ्गारादीनां वा 'त्यागः त्यजनम् [६] ॥ ८२ ॥ Keर' For Private And Personal Use Only
SR No.020501
Book TitleNavtattva Samvedan Prakaranam
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherKisanlal Sampatlal Lunavat
Publication Year1951
Total Pages67
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy