________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BHASHRS
ॐOCA-%A
AREA
4
ॐ ही अहं नमः सर्वज्ञाय । नमो नमः परमसुविहित-प्रवचनप्रभावक-श्रीमजिनदत्त-कुशल-मोहन-यश:-केशरपदपङ्कजेभ्यः । परमसुविहित-सुगृहीतनामधेय-स्वनामधन्य-विद्वजनमान्य-श्राद्धवर्य-श्रीअम्बप्रसादसङ्कलितं स्वोपज्ञवृत्तिसमलङ्कतं
नवतत्त्वसंवेदन-प्रकरणम् ।
- reasetअर्हन्तममलालोकं, नत्वा नित्यं शिवोदयम् । संवेदनावबोधाय, विधास्ये वृत्तिदीपिकाम् ॥१॥
इह हि मुमुक्षवो हेयं हातुमुपादेयमुपादातुं च प्रवृत्तिमासूत्रयन्ति, बहिरङ्गान्तरङ्गतया च हेये द्वे, उपादेयेऽपि द्विविधे, तत्र बहिरङ्गं हेयं अहिविषकण्टकादि, अन्तरङ्गन्तु कषायादि, उपादेयं तु बहिरङ्ग स्रगङ्गनाचन्दनादि, अन्तरङ्ग तु शान्त्यादि । न च मुमुक्षूणां बहिरङ्गाभ्यां हेयोपादेयाभ्यां प्रयोजनं, किन्त्वन्तरङ्गाम्यां, तयोर्यथाक्रमं हातुमुपादातुं चेष्टत्वात् । हेयस्य हानमुपादेयस्य चोपादानं न जीवाजीवादिपदार्थसंवेदनं विना सद्यः सम्पद्यते, तदनेन संवेदेन यद्यपि जिनागमरहस्यप्रतिपादकं संवेदननामकं प्रकरणं प्रकृतं, तथापि शिष्टसमवमनुवर्तमानः प्रत्यूहव्यूहं शमयन् प्रथम तावत्प्रकरणकारः परमतवस्तवमाह
DARSIC
%A4%
AES
For Private And Personal Use Only