SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BHASHRS ॐOCA-%A AREA 4 ॐ ही अहं नमः सर्वज्ञाय । नमो नमः परमसुविहित-प्रवचनप्रभावक-श्रीमजिनदत्त-कुशल-मोहन-यश:-केशरपदपङ्कजेभ्यः । परमसुविहित-सुगृहीतनामधेय-स्वनामधन्य-विद्वजनमान्य-श्राद्धवर्य-श्रीअम्बप्रसादसङ्कलितं स्वोपज्ञवृत्तिसमलङ्कतं नवतत्त्वसंवेदन-प्रकरणम् । - reasetअर्हन्तममलालोकं, नत्वा नित्यं शिवोदयम् । संवेदनावबोधाय, विधास्ये वृत्तिदीपिकाम् ॥१॥ इह हि मुमुक्षवो हेयं हातुमुपादेयमुपादातुं च प्रवृत्तिमासूत्रयन्ति, बहिरङ्गान्तरङ्गतया च हेये द्वे, उपादेयेऽपि द्विविधे, तत्र बहिरङ्गं हेयं अहिविषकण्टकादि, अन्तरङ्गन्तु कषायादि, उपादेयं तु बहिरङ्ग स्रगङ्गनाचन्दनादि, अन्तरङ्ग तु शान्त्यादि । न च मुमुक्षूणां बहिरङ्गाभ्यां हेयोपादेयाभ्यां प्रयोजनं, किन्त्वन्तरङ्गाम्यां, तयोर्यथाक्रमं हातुमुपादातुं चेष्टत्वात् । हेयस्य हानमुपादेयस्य चोपादानं न जीवाजीवादिपदार्थसंवेदनं विना सद्यः सम्पद्यते, तदनेन संवेदेन यद्यपि जिनागमरहस्यप्रतिपादकं संवेदननामकं प्रकरणं प्रकृतं, तथापि शिष्टसमवमनुवर्तमानः प्रत्यूहव्यूहं शमयन् प्रथम तावत्प्रकरणकारः परमतवस्तवमाह DARSIC %A4% AES For Private And Personal Use Only
SR No.020501
Book TitleNavtattva Samvedan Prakaranam
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherKisanlal Sampatlal Lunavat
Publication Year1951
Total Pages67
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy