________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मङ्गलामिधेयादयः।
नवतच्चसं. प्रकरणम् स्वोपनवृत्तिः ।
ANSARASWARORE
अहं यत्प्राणिभिः पुण्यै-रुपायैरुपयाच्यते । तस्मै कल्याणकन्दाय, स्वानन्दाय नमो नमः॥१॥ ____ व्याख्या-अहमिति 'अहं' योग्यं, यद्वा पूज्यं अथवा परममन्त्राक्षरवीजं नादविन्दुकलाज्योतिःकलितं, यदिवा अकारादिहकारपर्यन्तं वाङ्मयं आहोश्विद् अहमित्यक्षरस्य पश्चपरमेष्ठिवाचकत्वेन अहंदादिरूपं पत्परमतत्त्वं प्राणिभिः 'पुण्यैः' पवित्रैः पुण्यहेतुत्वेन वा पुण्यैरुपायै-गुरूपासना[दिभिः कारणैरुपयाच्यते, तस्मै परमतच्चाय 'कल्याणकन्दाय' श्रेयाप्रमवाय स्वानन्दाय नमो नम इति सम्बन्धः ॥१॥
इह च प्रकरणादावभिधेयसम्बन्धप्रयोजनाभिमतमन्तरेण न प्रेक्षावन्तः प्रवर्तितुमुत्सहन्ते, ततोऽभिधेयाद्यभिधानार्थमाहसम्यक्तत्त्वावबोधाय, साधुवृत्तविशुद्धये। जीवादिनवतत्त्वानां, किश्चिद्वक्ष्यामि लक्षणम् ॥२॥
व्याख्या-'सम्यक्तचावबोधाय' समीचीनपरमार्थावगमाय 'साधुवृत्तविशुद्धये' सच्चारित्रविशोधनाय 'जीवादिनवतच्चाना' जीवाजीवादिनवपदार्थानां 'किश्चित्' सविसं 'लक्षणं' स्वरूपं वक्ष्यामीति सम्बन्धः। इह च जीवादय: पदार्था अभिधेयाः, अभिधानं तु संवेदनं, अभिधा[ना] भिधेयलक्षणस्तु सम्बन्धः । प्रयोजनं च द्विधा-अनन्तरपरम्परभेदात् , तत्रानन्तरं द्विविधं-कर्तृगतं श्रोतगतं च, कर्तृगतं-स्वतन्त्रतया सम्यक्तत्वावबोधः, श्रोतगतं तु स एव परतन्त्रतथा, परम्परं तु परमपदप्राप्तिरूपं द्वयोरपि समानमिति ॥ २॥
जीवादिलक्षणं च भण्यमानं स एव अद्धत्ते, मोहादिमिः कारणैर्यः कार्याणि लोकद्वयविरुद्धानि न धत्तेऽत एवाह
For Private And Personal Use Only