________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuti Gyanmandie
न मोहाद्भयतो लोभा-दाम्नायादुपरोधतः । लोकद्वयविरोधीनि, कुर्यात्काणि बुद्धिमान् ॥३॥ ___ व्याख्या-मोहाद्-अज्ञानसंशयविपर्ययरूपात , भयतः-इहलोक परलोका-दाना-कस्मिका-जीविका-मरणा-श्लोकरूपसप्तभेदभिन्नात् , लोभान-तृष्णारूपात , आम्नायाद्-धर्मविरुद्धपूर्वजाचारात्, उपरोधतो-दाक्षिण्यात् , लोकद्वयविरोधीनिदुर्नयाचरणानि मद्यमांसादिप्रवर्तनानि कार्याणि बुद्धिमान कुर्यादित्यन्वयः ॥ ३ ॥ __ तस्माद्विरुद्धकार्याणि परिहृत्य तत्वं गृह्णीतेत्युपदिशन्नाहविचाराम्भोधिमालोड्य, विमर्शाद्रिप्रकर्षतः । तमोविषं विहायेह, ग्राह्यं तत्त्वामृतं बुधैः॥४॥ ___ व्याख्या-'विचारो' युक्तायुक्तबिकल्पनं, स एवातिगम्भिरत्वादम्भोधिस्तं 'आलोय' विलोय 'विमर्शः परिभावनं, स एवाद्रिमन्दरः, तस्य 'प्रकर्षः' आकर्षण, विमर्शपक्षे चोत्कर्षस्तस्मात् 'तमः' अज्ञानमेव विषं विहायेह 'भवे' जन्मनि संसारे वा 'बुधैः' देवैः कोविदैव तत्वरूपममृतं ग्राह्यमिति ॥ ४॥ एतदपि परीक्ष्य ग्राह्यमित्याहतापच्छेदकषावत्तः, स्वर्ण निर्णीयते यथा। तथा तत्त्वं परीक्ष्येत, गुरुतः शास्त्रतः स्वतः॥५॥ _ व्याख्या-तापादिभिः स्वर्ण यथा निर्णीयते 'तथा' तद्वत्तवं परीक्ष्येत, कस्मात् ?, गुरुतः-अभिधास्यमान 'योऽकषाय' इत्यादिलक्षणात् , शास्त्रतो वीतरागप्रणीतात् , वीतरागस्तु वक्ष्यमाण 'यः शाश्वत:' इत्यादिलक्षणोपलक्षितः, स्वतः-आत्मप्रत्ययादिति ॥ ५॥ परीक्षितं च तत्वमकृतकालक्षेपमुपादेयमित्युपदिशन्नाह
% A4+
Aॐ
For Private And Personal Use Only