________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवतत्त्वस्वरूपम् ।
नवतत्त्वसं० प्रकरणम् स्वोपनवृत्तिः ।
॥२॥
43-455AC%
सम्यग्गुरुमुखोद्गीतं, निर्णीतं नयकोविदैः। विमर्शतः स्वसंवेद्यं, तत्त्वं तत्त्वं समाश्रय ॥६॥
व्याख्या-सद्गुरुमुखोद्गीतं तदेव वा सम्यक् निर्णीतं प्रमाणशास्त्रविद्भिः 'विमर्शतः' पूर्वापरविरोधवर्जनतो निर्णयात् , 'स्वसंवेद्य' आत्मनः प्रतीतिपथमागतं यत्तत्तत्वं त्वं समाश्रयेति ॥ ६ ॥ इदानीं तवपरिज्ञानं प्रति भव्यजनमनुजाननाह
यत्सर्वज्ञसमादिष्टं, यदुक्तं श्रुतनायकैः । रजस्तमोविनिर्मुक्तं, तत्तत्त्वं विद्धि बुद्धितः॥७॥ ___व्याख्या-यत्तत्वमर्थतः सर्वज्ञोपदिष्ट सूत्रतश्च यदुक्तं श्रुतनायक-गणधरैः 'रजस्तमोविनिर्मुक्तं' रागद्वेषविकाररहितं 'बुद्धितो' बोधात् तद्विद्धीति सम्बन्धः ॥ ७॥ इदानीं पञ्चभिः श्लोकः प्रकरणदेवतश्चमाहयः शाश्वतः शिवावासः, कृत्यपारमुपागतः । परमात्मा सदानन्दः, सर्वज्ञः परमेश्वरः ॥८॥ शब्दवर्णरसस्पर्श-गन्धादीनामगोचरः । निर्मायोऽनञ्जनज्योति-निर्मिथ्यः परमाक्षरः ॥९॥ सर्वातिशयसम्पन्नः, सर्वलोकहितात्मकः । कर्मकल्मषनिर्मुक्तः, शान्ताऽनन्तो निराश्रयः ॥ १०॥ दोषैर्मुक्तोऽरेतीप्सांत-स्वप्सांदखेदैरुग्भवः । झुत् चिन्ताजेरास्वेदै, राँगेोमोहभीस्मयैः ॥११॥ सत्त्वरजस्तमोऽतीतो, विश्वोत्तंसोऽपुनर्भवः । त्रिलोकीलोकसंसेव्यः, स देवः सुधियां मतः ॥१२॥
[पञ्चभिः कुलकम् ]
ECIAL
*
॥२॥
For Private And Personal Use Only