________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HARGAVARAAE
उक्तः संवरः, इदानीं निर्जरामाहप्रायश्चित्तादिभिःषभिः, षडभिश्चानशनादिभिः। कीर्तिताऽऽभ्यन्तर्वा-िस्तपोभिः कर्मनिर्जरा।
व्याख्या-प्रायश्चित्तादिभिः षड्भिराभ्यन्तरैरनशनादिभिश्च षड्भिर्बास्तिपोभिः कर्मणां निर्जरणं कर्मनिर्जरा कीर्त्तितेति सम्बन्धः ॥ ५० ॥ उक्ता निर्जरा, अथ श्लोकद्वयेन बन्धमाहपञ्चप्रकारं मिथ्यात्वं, कषायाः पञ्चविंशतिः। योगाः पञ्चदश तथाऽविरतिः सूर्यसम्मिता ॥५१॥ सप्तपश्चाशदित्येते, कर्मबन्धस्य हेतवः । प्रकृतिस्थित्यनुभाव-प्रदेशैः स चतुर्विधः॥५२॥[ युग्मम् ]
व्याख्या-'पश्चप्रकारं पञ्चभेदं मिथ्यात्वं, तद्यथा-आभिग्रहिकं अनामिग्रहिक अभिनिवेशजं सांशयिकं अनाभोगजं चेति । कषाया:-क्रोधादयश्चत्वारः, प्रत्येकमनन्तानुवन्धि-प्रत्याख्याना-प्रत्याख्यान-सज्वलनभेदैभिंद्यमानाः षोडश । कषायशब्दस्य नोकपायेष्वपि प्रसिद्धत्वात्कषाया नोकषाया अपि, ते च हास्यरत्यरतिशोकमयजुगुप्साषट्कस्त्रीपुनपुंसकलक्षणवेदत्रयाभ्यां नव, एवं कषायाः पञ्चविंशतिः । योगाः सत्यं असत्यं सत्यामृर्ष [ असत्यामृष] मनश्चतुर्विध, सत्यं असत्यं सत्यामृर्ष असत्यामृषं वचोभिश्चतुर्भदं, औदारिक औदारिकमिश्रो वैक्रियो वैक्रियमिश्र आहारक आहारकमिश्रः कार्मणश्चेति कायः सप्तविधः, इत्यमी सम्मिलिताः पञ्चदश । देशविरतेादशमेदत्वात्तद्विपरीताऽविरतिः 'सूर्यसम्मिता सूर्यपरिच्छिन्ना, द्वादशमेदेत्यर्थः ॥ ५१ ॥ इत्येते सर्वेऽपि मिलिताः सप्ताधिकाः पश्चाशद्भवन्ति कर्मबन्धस्य हेतवः । स-कर्मणां बन्धः प्रकृतिस्थि
ACCACCIRCTC3%ACANCHECCANCE
For Private And Personal Use Only