________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
नवतत्त्वसं० प्रकरणम् स्वोपज्ञवृत्तिः ।
*अजीवतत्वे
धर्मास्तिकायादीनां स्वरूपम् ।
॥१६॥
धर्माद्गतिःस्थितिमता-मधर्मः स्थितिकारणम् । आकाशमवकाशाय, कालस्तु समयादिकः॥४२॥ स्थूलसूक्ष्मत्ववर्णाद्याः, शब्दसंस्थानतामसाः। बन्धभेदातपोद्योताः, सुखदुःखोच्छ्सनादयः॥४३॥ वाङ्मनःकायकर्माणि, जीवितं जननादयः। पुदगलोपग्रहादेव, कार्यभेदा भवन्त्यमी ॥४४॥
[त्रिभिर्विशेषकम् । ___व्याख्या-'धर्माद्' धर्मास्तिकायाद् गतिमतां पुद्गलानां जीवानां च 'गतिः' गमनं स्यात् । 'स्थितिमतां' स्थायिनां 'अधर्मः' अधर्मास्तिकायः 'स्थितिकारणं स्थितिहेतुः । 'अवकाशाय' अवकाशदानाय कारण[माकाश]माकाशास्तिकायः । कालस्तु 'समयादिक' समयावलिकादिव्यवहारकृत् ॥ ४२ ॥ 'स्थूलत्वं' पीनत्वं 'सूक्ष्मत्वं तनुत्वं 'वर्णः' श्वेतपीतादिः, आदिशब्दाद्गन्धादिपरिग्रहः, शब्दो वाग्वगणाजन्यः, संस्थान-समचतुरस्रादि, तामसस्तमोविकारः, बन्धमेदा-औदारिकवैक्रियाहारकतैजसभाषाऽऽनप्राणमनःकर्मवर्गणापुद्गलानां सम्बन्धविशेषाः, आतयः-अर्कविम्बादिगत उष्णः प्रकाशः, उद्द्योत:-चन्द्रबिम्बादिगतोऽनुष्णः प्रकाशः, सुख-सातं, दुःखं-असात, उच्चसन-उदानपवन:, आदि शब्दात्प्राणादिपरिग्रहः ॥ ४३ ।। वाङ्मनःकायकर्माणि-तद्व्यापाराः, जीवितं-प्राणधारणं, जनन-उत्पत्तिः, आदिशब्दावृत्यादिपरिग्रहः, ततोऽयमर्थः-स्थूलसूक्ष्मत्वाद्या अमी कार्यमेदाः पुद्गलोपग्रहादेव-तदुपष्टम्भादेव भवन्तीति सम्बन्धः ।। ४४ ॥
तृतीयं पुण्यपदार्थममिधित्सुराह
P
॥१६॥
For Private And Personal Use Only