SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पुण्यं स्वपरोपकारात् प्राणिसम्प्रीणनेन सः । क्षान्त्यादिभिर्गुणैस्तच्च तदमी मूलहेतवः ॥ ४५ ॥ व्याख्या - 'पुण्यं' शुभं कर्म स्वपरोपकारात्स्यात्, प्राणिसम्प्रीणनेन प्राणितोषेणेन सः-स्वपरोपकार इत्यधिकृतं । क्षान्त्यादिभिर्गुणैस्तच्च-प्राणिसम्प्रीणनं स्यात्, तत्तस्मात्कारणादमी - क्षान्त्यादयो गुणा मूलहेतवी - मूलकारणानि, पुण्यस्येति सम्बन्धः || ४५ ।। पुण्यविपक्षं पापमाह पापं हिंसादिसम्भूर्त, ते तु रौद्रार्त्तभावतः । स कषायैः कृतोत्कर्ष - स्ततस्ते मुख्य कारणम् ॥ ४६ ॥ व्याख्या - 'पाप' अंशुमं कर्म 'हिंसादिसम्भूर्त' प्राणिवधादिजनितं । 'ते तु' हिंसादयो 'रौद्रार्त्तभावतः' रौद्रार्चपरिणामतः । 'स' रौद्रार्त्तभावः कषायैः क्रोधादिभिः कृतोत्कर्षः । ततः कारणात्ते - कषायाः पापस्य मुख्यकारणमिति सम्बन्धः ॥ ४६ ॥ अधुना पुण्यप्रकृतीनां पापप्रकृतीनां च यथाक्रमं भेदानाह द्विचत्वारिंशत्साताद्याः, पुण्यप्रकृतयो मताः । असाताद्या यशीतिस्तु, पापप्रकृतयः स्मृताः ॥४७॥ व्याख्या — द्विचत्वारिंशत्सङ्ख्याः पुण्यप्रकृतयः साताद्या मताः, ताश्चैताः- सातं नरायुस्तिर्यगायुः सुरायुः उच्चैगोत्रं पराधातः आतपः उद्योतः उच्छ्लासः निर्माण पश्चेन्द्रियजातिः वज्रर्षभनाराचसंहननं समचतुरस्त्र संस्थानं त्रसत्वं बादरं पर्याप्तं प्रत्येकं स्थिरं शुभं सुभगं सुस्वरं आदेयं यशः कीर्तिः तीर्थङ्करनामकर्म सुवर्णः सुगन्धः सुरसः सुस्पर्शः, देवगतिः देवानुपूर्वी मनुष्यगतिः मनुष्यानुपूर्वी, औदारिकं वैक्रियं आहारकं तैजसं कार्मणं [ शरीरमिति गम्यम् ] औदारिकाङ्गोपाङ्ग वैक्रियाङ्गो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020501
Book TitleNavtattva Samvedan Prakaranam
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherKisanlal Sampatlal Lunavat
Publication Year1951
Total Pages67
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy