SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कानुत्तरसुरादिभिर्वा मनसा दृ[]ष्टस्य सतो मनसैव देशनायां, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि मनःपर्यायज्ञानेनावधि - ज्ञानेन वा जानन्ति ततस्तद्वारेण पृष्टमर्थमवगच्छन्तीति १३ । अयोगी तु निरुद्धमनोवाक्काययोगः, योगनिरोधश्वेत्थं, यदुत - योगः प्रत्येकं द्विविधः - सूक्ष्मो बादरथ, तत्र प्रथमं चादरकाययोगेन बादरवाङ्मनोयोगौ निरुणद्धि, ततः सूक्ष्मका योगेन बादरकाययोगं, सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात्, ततश्च सर्वबादरयोग निरोधानन्तरं सूक्ष्मक्रियमनिवर्त्तिशुक्लध्यानं ध्यायन् सूक्ष्मकाययोगेन सूक्ष्ममनोवाग्योगौ निरुणद्धि, ततस्तमेव सूक्ष्मकाययोगं स्वात्मनैव निरुद्धि, तन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपातिशुक्लध्यानं ध्यायन् ह्रस्वपञ्चाक्षरोच्चारणमात्रकालं शैलेशीकरणं प्रविशति । शीलस्य-योगलेश्याकलङ्कमुक्तयथाख्यात चारित्रलक्षणस्य य ईशः स शीलेशः, तस्येयं शैलेशी - त्रिभागोन स्वदेहावगाहनायामुदरादिरन्ध्रपूरणवशात्सङ्कोचितस्त्र प्रदेशस्य शीलेशस्यात्मनोऽत्यन्तस्थिराऽवस्थितिः, तस्यां करणं- पूर्वरचितशैलेशी समयसमान गुणश्रेणिकस्य वेदनीयनामगोत्राख्यस्य भवोपग्राहि कर्मत्रित यस्यासङ्ख्ये यगुणया श्रेण्या आयुश्शेषस्य यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तदनन्तरं मुक्तः स्यात् १४ ॥ ४० ॥ सम्प्रति द्वितीयमजीवपदार्थमाहधर्माधर्मनभःकाल - पुद्गलाश्चेति पञ्चधा । अजीवास्ते पुनर्भेदै - भिद्यमानाश्चतुर्दश ॥ ४१ ॥ व्याख्या—धर्मास्तिकायाद्या अजीवाः पञ्चधा स्युः, ते पुनः स्वैर्भेदैर्भिद्यमानाश्चतुर्दश-धर्माधर्मनमांसि त्रीणि द्रव्यदेशप्रदेशः प्रत्येकं भिद्यमानानि तानि नवसङ्ख्यानि भवन्ति, कालश्चैकरूपः, पुद्गलश्च स्कन्धदेशप्रदेश परमाणुभिश्चतुर्द्धा, एवमेते चतुर्दश ॥ ४१ ॥ एतेषां पञ्चानामप्यजीवानां कार्याणि श्लोकत्रयेण दर्शयन्नाह - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020501
Book TitleNavtattva Samvedan Prakaranam
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherKisanlal Sampatlal Lunavat
Publication Year1951
Total Pages67
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy