________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवतच्चे चतुर्दश
स्थानानि।
नवतत्त्वसं०८ तेषां सम्बन्धिनामध्यवसायानां परस्परं व्यावृत्तिर्निवृत्तिर्नास्तीति, तुल्याध्यवसाया इत्यर्थः ९॥३९॥ सूक्ष्मः सम्परायःप्रकरणम् किट्टीकृतलोभकषायोदयरूपो यस्य स सूक्ष्मसम्परायः, अयमपि द्विविधः-क्षपक उपशमको वा, यतः क्षपयति उपशमयति स्वोपन- बा लोभमेकम् १० । उपशान्त-क्षीणमोहकावित्यत्र मोहशब्दस्य प्रत्येकमभिसम्बन्धादुपशान्तमोहकः क्षीणमोहकश्च, उपवृत्तिः । शान्तमोहश्च स येनोदयोदीरणानिधत्तनिकाचनासङ्कमणोद्वर्तनापवर्तनाकरणायोगत्वेन मोहप्रकृतयः कृताः। मोहोपशमक्रम
थाय-यद्तानन्तानुबन्धिकषायान् प्रमत्तसंयतः प्रथम, मतान्तरेण पुनरविरतदेशविरतप्रमत्ताप्रमत्तानामन्यतर उपशमयति, तदनु दर्शनमोहत्रितयमुपशमयति, तदनु प्रमत्ताप्रमत्तगुणस्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्वकरणगुणस्थानोत्तरकालमनिवृत्तिकरणगुणस्थाने चारित्रमोहस्य प्रथमं नपुंसकवेदमुपशयति, ततः स्त्रीवेदं, ततो हास्यरत्यरतिशोकमयजुगुप्सारूपं युगपत्पटकं, ततः पुरुषवे[८]द:(.), ततो युगपद् द्वितीयतृतीयौ क्रोधौ, ततश्चतुर्थ क्रोधं, ततो युगपद् द्वितीयतृतीयौ मानौ, ततश्चतुर्थ मानं, ततो युगपद् द्वितीयतृतीये माये, ततश्चतुर्थी माया, ततो युगपद् द्वितीयतृतीयौ लोभौ, ततस्सूक्ष्मसम्पराये चतुर्थ लोभमुपशमयतीत्युपशमश्रेणिरेषा ११ । क्षीणमोहकश्च-क्षपितमोहः, मोहक्षपणक्रमश्चार्य-तत्र अविरतादिः प्रथममनन्तानुबन्धिनः क्षपयति, तदनु मोहदर्शनत्रयं, ततोऽपि द्वितीयतृतीयानष्टौ कषायांस्ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषट्क, ततः पुरुषवेद, ततः क्रमेण सज्वलनक्रोधमानमायालोभान [क्षपयतीति] क्षपकश्रेणिरेषा १२। सयोग इति वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमात्मनो वीर्य योगो मनोवाकायरूपस्तेन सह वर्तत इति, तत्र सयोगस्यास्य केवलिनो भगवतः काययोगः चक्रमणनिमेपोन्मेषादौ वाग्योगस्तु देशनादौ मनोयोगश्च मनःपर्यायज्ञानिभिवेय
AAAX
SAKAL
॥ १५॥
For Private And Personal Use Only