SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie अधुना तत्वप्रतिपत्तिं प्रति योग्यानामुपदेशसर्वस्वमाह-- अन्तजिनागममहानिधितः प्रलम्ब-प्रज्ञाभुजात्तगुणरत्नसमूहभासा । दत्तप्रकाशमहितकविधानधावी, हित्वा तमोभजत तत्त्वमिति प्रणीतम् ॥११७॥ [ वसन्ततिलका ] व्याख्या:-इति संवेदनविरचनप्रकारेण प्रणीतं तत्त्वं भजत हे जना ! इत्युपदेशः। किं कृत्वा ? 'हित्वा' त्यक्त्वा 'तमोऽज्ञानं, अहितैकविधानधावी-दुर्गतिगमननिदानानां एकं यद्विधानं, तत्प्रतिधावी-तत्प्रतिधावनशीलमित्यर्थः । किंविष्टं तत्वं ? 'दत्तप्रकाशं' विहितावलोकं । कया , प्रलम्बप्रज्ञाभुजात्तगुणरत्नसमूहभासा-प्रलम्बो योऽसौ प्रज्ञाभुजः, तेन 'आत्तो' ग्रहीतो यो गुणरत्नसमूहस्तस्य 'मा' प्रभा, तया । कस्मात् , अन्तर्जिनागममहानिधित:-जिनागम एव महानिधिर्जिनागममहानिधिर्जिनागममहानिधेः 'अन्तः' मध्यं, तत्तस्मात्ततः । पादाद्यन्ताक्षरैय॑स्तक्रमेण कविनामाङ्कितं वृत्तमिदम् ॥११७॥ यदवयं मया किश्चि-अल्पितं स्वल्पबुद्धिना । विहितानुग्रहै। शोध्यं, तत्समग्रं बहुश्रुतैः ॥ १॥ विंशत्यधिकद्वादश-शतेष्वतीतेषु विक्रमसमानाम् । फाल्गुनशुक्लनवम्यां, सोमे विवरणमिदं चक्रे ॥२॥ यत्प्राप्तं सुकृतं पदार्थविशदं निष्पाद्य संवेदनं, तद्वृत्तिं च मया समस्तभविनस्तेनामुना क्षायिकम् । सम्यक्त्वं प्रतिपद्य मुक्तमनसः सर्वज्ञधर्मे रति, कुर्वन्तु प्रतिषिद्धपापविषयाः सदुद्धिशुद्धाशयाः ॥ ३ ।। [शार्दूलवृत्तम् ] ॥ ग्रं०६०३ । इति श्रीनवतत्त्व[संवेदन-प्रकरण]वृत्तिः सम्पूर्णा ॥ Recotek SOCIAKikoCKASSORocockCHE For Private And Personal Use Only
SR No.020501
Book TitleNavtattva Samvedan Prakaranam
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherKisanlal Sampatlal Lunavat
Publication Year1951
Total Pages67
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy