________________
Shri Mahavir Jain Aradhana Kendra
नवतच्च सं०
प्रकरणम्
स्वोपज्ञ
वृत्तिः ।
॥ ३० ॥
www.kobatirth.org
कालो ध्रुवः परावर्तै- रुत्पत्तिव्ययसङ्गतः । क्षणादिलक्षणो लक्ष्य - त्रिधैवैष विचक्षणैः ॥ ११४ ॥ व्याख्या - कालो 'ध्रुवः' सनातनः 'परावर्त्तः' परावर्त्तनैरुत्पत्तिव्ययमङ्गतः कालः कीदृक् ? 'लक्ष्यो' लक्षणीयः, कैः १ विचक्षणैस्त्रिधा - त्रिभिः प्रकारैरुत्पत्यादिभिरेवेति, तदेवं सर्वभावानां धर्मास्तिकायादीनामुत्पत्ति व्ययौव्यात्मकत्वे समर्थितेऽनेकान्तः सिद्ध एव सिद्धे चास्मिन्न विरोध उद्भावयितव्यः ॥ ११४ ॥
एतच्च स्याद्वादतवं यथावस्थितं विज्ञाय न जैनाः क्वापि व्यामुद्यन्तीत्याह
एवं स्याद्वादवेत्तारो, नवतत्त्वनिरीक्षणाः । सर्वार्थेषु न मुह्यन्ति, संवेदनविचक्षणाः ॥ ११५ ॥
व्याख्या - एवं 'स्याद्वादवेत्तारः' पूर्वोक्तविचारेण स्याद्वादविशारदाः 'नवतस्त्रनिरीक्षणाः' सर्वार्थेषु पर्यालोचकाः 'संवेदनविचक्षणाः' प्रस्तुत संवेदनाख्यधर्मप्रकरण प्रवीणाः सर्वार्थेषु हेयोपादेयेषु 'न मुह्यन्ति' न व्यामोहं कुर्वन्ति, हेयं देयतया उपादेयं चोपादेयतया जानन्तीत्यर्थः ॥ ११५ ॥
sara प्रकरणकारः प्रकरणकरणमनुमन्यमान औद्धत्यं च परिहरन् विदुषामभ्यर्थनां करोतिसंवेदनं पदार्थानां नवानामिति वर्णितम् । संशोध्यं बालिशस्येदं, विद्वद्भिर्मदनुग्रहात् ॥ ११६ ॥ व्याख्या - पदार्थानां जीवादीनां 'नवानी' नवसङ्ख्यानां 'इति' प्राक्तनप्रकारेण संवेदनं 'वर्णितं' निरूपितं परं संशो धनीयमित्यर्थः, बालिशस्य वैधेयस्य, केः संशोध्यं १ विद्वद्भिः श्रुतधरैः कस्मात् ? मदनुग्रहात् - ममोपरि कृतप्रसादैरित्यर्थः
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
स्याद्वादस्वरूप
निरूपणम् ।
॥ ३० ॥