________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
मोक्षतत्वे सम्यक्त्वप्राप्तिक्रमः।
नवतत्वसं० अन्तर्मुहर्त्तमात्रेण, करणेनानिवृत्तिना । कृतान्तरो लभेतासा-वौपशमिकदर्शनम् ॥ १०३ ।। प्रकरणम् व्याख्या-अन्तर्मुहर्त्तमात्रेण-तत्प्रमाणेन करणेन तृतीयेन 'अनिवृत्तिना' अनिवृत्तिनाम्ना 'कृतान्तरो' विहितान्तौंस्वोपना ४ा हुर्तिकान्तरकरणो 'लभेत' प्राप्नुयाद् 'असौ' जीव औपशनिकदर्शनं, औपशमिकदर्शनं चात्रोपलक्षणं, दर्शनमोहक्षयोपशमे वृत्तिः । क्षयोपशमिक, तन्क्षये च क्षायिकं सम्यक्त्वं प्रामोतीत्यर्थः । एतदुत्पत्तिक्रमश्चायं-विशेषतः किलायुर्वर्जानि ज्ञानावरणादीनि
मप्तकर्माणि, तिष्वन्तरायसहितान्यायानि त्रीणि] त्रिंशत्सागरोपमकोटाकोटीप्रमाणानि, नामगोत्रे तु विंशतिसागरोपमकोटा॥२८॥
कोटीप्रमाणे, मोहनीयं तु सप्ततिसागरोपमकोटाकोटीप्रमाणं । तत्र गम्भीरतरभवाम्भोधिमध्यवर्ती कश्चिजन्तुः प्रथममना.
भोगिकेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्त करणेनायुर्व र्जानि सप्तापि ज्ञानावरणादीनि कर्माणि पल्योपमासहरूयेयभाग. गहीनसागरोपमकोटाकोटीस्थितिकानि करोति, ततः अनाभोगिकेन यथाप्रवृत्तकरणेनानन्तगुणविशुद्ध्या वर्तमानः पल्योपमा | सङ्ख्येयभागहीनमागरोपमकोटाकोटीस्थिति काया मोहनीयकर्मलतायाः कर्मदलि कमन्तर्मुहूर्त यावद्वेदयित्वा अपूर्वकरणं गच्छति । अत्रापूर्वाणि चत्वारि करोति-स्थितिघातं रसघातं गुणश्रेणि स्थितिबन्धं चेति । अत्रायातच रागद्वेषपरिणामरूपं घनकर्कशं ग्रन्थि भिनत्ति, विभिद्य च ग्रन्थि अनिवृत्तिकरणमन्तर्मुहूर्तप्रमाणं प्रयाति । अनिवृत्तिकरणं चानेन हेतुना भण्यते,
यतोत्रायातः प्राणी सम्यक्त्वमनवाप्य न निवर्त्तते । एतदनन्तरं चान्तरकरणमन्तर्मुहर्तप्रमाणं कुरुते, कृते चात्र स्थितिद्वयं है। विधत्ते-प्रथमामन्तरकरणादधस्तनीमान्तमाहूर्तिकीयां द्वितीयां तस्मादेवान्तरकरणावं । तत्र प्रथमायां स्थितौ मिथ्यात्व
दलिकवेदनान्मिथ्यादृष्टिरुच्यते, अन्तर्मुहर्तेन तु तस्यामनुभूतायां अन्तरकरणप्रथमसमय एवं औपशमिकसम्यग्दृष्टिः स्यात् ,
A
%
For Private And Personal use only