________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HEC
*****
%
%
****
%
*
नवतत्वसंवेदनोपक्रमःअयि भोः सहृदयवराः सज्जनाः ! नाज्ञातचरमेतजिनप्रवचनमर्मज्ञानां, यदुत यथा समुपलभ्यते सार्वीये वाङ्मये जीवादितत्त्वनवकस्वरूपं न तथाऽन्यदीयेषु शास्त्रेषु, तथा चानेकैः प्रत्नतररिवरादिकैर्जिनप्रवचनविद्धरन्धरैईब्धान्यनेकानि ग्रन्थरत्नानि समुपलभ्यन्तेऽद्यापि विभिन्नेषु शास्त्रसन्हेषु, तेष्वेतदप्येकतम ग्रन्थरलं पण्डितश्रीमदम्बप्रसादश्राद्धवरविहितं स्वोपज्ञवृत्तिसमलङ्कतं "नवतत्वसंवेदना"ख्यमन्वर्थाभिधानं भावत्के करकमले सहर्ष समयते, यल्लघीयानप्ययं ग्रन्थो नवतत्त्वसंवेदनाविष्करणेऽनन्यतुलामाबिभर्ति । ___श्राद्धवरश्चायं कतम भूमण्डलं कं च कुलादिकं स्वजन्मना पावयामास ! के के चैतद्व्यतिरिक्ता अन्ये ग्रन्था प्रथिता ! इत्येतजिज्ञासायाः पूरणे नास्ति ममाल्पबुद्धेरवकाशः, तत्तदैतिघसाधनसामग्र्याः ज्ञानादेश्चाप्यभावात् । परन्तु वृत्तेः प्रशस्तिगतेन
"विंशत्यधिकद्वादश-शतेष्वतीतेषु विक्रमसमानाम् । फाल्गुशुक्लनवम्यां, सोमे विवरणमिदं चक्रे ॥२॥" इत्यनेन पद्येन स्पष्टमुक्तं कविना स्वसत्ताकालो वैक्रमीयस्त्रयोदशशताब्द्या आद्यश्चरणः ।
ग्रन्थमानं चास्य मूलग्रन्थस्य श्लोकानां सप्तदशाधिकं शतं, वृत्तेश्च व्यधिकं षड्शतं श्लोकमानं । निष्टङ्कितं चात्र स्वरूपेष्वपि पद्येषु तत्तत्तत्त्वानां स्वरूपसंवेदनं सुचारुतया सुबोधतया चापि । प्रसङ्गागतान्यन्यान्यपि विषयाणि, यथा-चतुरशीतिलक्षजीवायोनिगणना, पिण्डैषणाशुद्धौ द्विचत्वारिंशद्दोषनिरूपणं, अनित्याद्याः सूर्यसम्मिता भावनाः, अष्टादशसहस्रशीलाङ्गरथगणना, इत्याद्या अनेके विषया सुस्पष्टं चर्चिता मूले वृत्तावपि चेति व्याख्यानादावुपयोगितामवधार्यास्य यथावगमं संशोधन विधाय सम्पादनमकारि ।
निम्नलिखितं प्रतित्रयं सम्प्रयोजितं मयाऽस्य संशोधनेऽतस्तत्तत्प्रतिसमर्पकमहाशयानामनुग्रहं मुहर्मुहुः स्मृतिपथमानयामि ।
%
***
%-562-
%AGO
For Private And Personal Use Only