________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AMACHAR
है। आत्मन आत्मस्वरूपे-लोकालोकप्रकाशकज्ञानलक्षणे यदवस्थानं, स मोक्ष उच्यत इति सम्बन्धः ।। ५८ ॥
___यदुक्तमत्र श्लोके 'क्षान्त्यादिगुणयुक्ताना'मिति तद्विपक्षदोषोत्कीर्तनपुरस्सरं क्षान्त्यादिदशविधयतिधर्माभिधानेन व्याचिख्यासुर्दशविधस्यापि साधुधर्मस्य शिरोरत्नं क्षमा, ततः प्रथमं तामेव श्लोकद्वयेन वर्णयन्नाह
सर्वसन्तापकृतक्रोधो, ज्वलन्निव दवानलः । मन्तव्या मेघमालेव, क्षान्तिस्तस्योपशान्तये ॥५९।। ____ व्याख्या-'सर्वसन्तापकृत्' सर्वान्तर्दाहकृत् क्रोधः, क इव ?, ज्वलन्निव दवानलः, मन्तव्या 'मेघमालेव' मेघपङ्क्तिरिव शान्तिस्तस्य-क्रोधस्य 'उपशान्तये' उपशमनायेति ।। ५९ ।। क्षमा क्षमा हि धर्मस्य, सर्ववैरनिबर्हणी। अमन्दानन्दसन्दोहा, ध्यातव्या धीधनैः सदा ॥ ६०॥
व्याख्या-क्षमा 'क्षमा' धर्मस्योत्पत्तिभूमिः सर्ववैरनिबर्हणी' समस्तविरोधविनाशिनी, अमन्दानन्दसन्दोहा-केवलानन्दमयी ध्यातव्या 'धीधने' बुद्धिमद्भिः सदेति सम्बन्धः।। ६० ॥ श्लोकद्वयेन मार्दवमुपदिशन्नाह
वाल्लभ्यबुद्धिलाभौजो-जातिरूपकुलश्रुतैः । दन्तिवन्मदमत्तानां, वारणं मार्दवाङ्कशम् ॥ ६१॥ व्याख्या-वाल्लभ्यायैः करणभृतयों मदस्तेन मत्तानां 'दन्तिबद्' दन्तिनामिव 'वारणं' निवारक मार्दवमेवाशं मार्दवाकुशम् ॥ मृदुता सर्वभूतानां, मैत्रीभावसमुद्भवा । मातृभूता हि धर्मस्य, विकर्ममलमार्जनी ।। ६२॥ व्याख्या-'मृदुता' मृदुत्वं 'सर्वभूतानां' सर्वजन्तूनां मैत्रीभावस्य समुद्भवो यस्याः सा मैत्रीभावसमुद्भवा, अतएव
For Private And Personal Use Only