________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्वसं०
प्रकरणम् स्वोपन
वृत्तिः ।
॥२०॥
KMANAKARACTER
| 'मातृभृता' जननी [कल्पा] धर्मस्य. 'विकर्ममलमार्जनी' विरुद्धकर्ममलशोधिनीति सम्बन्धः ।।६२।। ऋजुतां श्लोकद्वयेनाह-18 मोक्षतत्वे मायासदर्पसर्पिण्याः, प्रसर्पिण्या जिघत्सया। निर्विषीकरणे तस्या, ऋजुता दमनौषधी ॥ ६३ ॥ दशविधव्याख्या-'माया' निकृतिः, सैव सदर्पसर्पिणी, तस्याः 'प्रसर्पिण्या:' प्रसर्पणशीलायाः, कया ? 'जिघत्सया' अत्तमि
18यतिधर्मच्छ या ! 'निर्विपीकरणे' निर्विषतासम्पादने तस्या, 'ऋजुता' प्राञ्जलता [सरलता] दमनौषधीति ।। ६३ ।।
निरूपणम् । ऋजुता जन्तुजातानां, कषायकषणात्मिका। निकषो धर्महम्नोऽसौ, भूमिर्मोक्षस्य सम्मता ॥६४॥ ____ व्याख्या-असाधृजुता 'जन्तुजातानां तत्समूहानां कषायकपणात्मिका-तद्विनाशात्मिका । 'निकपः' कषपट्टको 'धर्म: हेम्नः' पुण्यसुवर्णस्य । 'भूमि' उत्पत्तिभूर्मोक्षस्य सम्मतेति ।। ६४ ॥ श्लोकत्रयेण संयममुपश्लोकयतिवर्द्धमानमलं व्यालं, वेतालं ललितोल्वणम् । ताडयत्तोषदण्डेन, लोभाढू भावभीषणम् ॥६५॥ ___व्याख्या-'वर्द्धमान' वृद्धिमन्तं 'अलं' अत्यर्थ 'व्यालं' दुष्टं 'वेतालं' पिशाचं 'ललितोल्वणं' चेष्टितोत्कटं 'ताडयेत्' त्रासयेत तोष एव दण्डस्तेन, किनामकं वेतालं ? 'लोभाई"लोमनामकं 'भावभीषणं स्वभावभयानकम् ।। ६५ ॥ संयमो नयनैपुण्य-निदानं तद्भवा गुणाः । तैविभूतिः प्रभूता स्या-त्तस्या मङ्गलमालिका ॥६६॥ ___ व्याख्या-'संयमः' संयतत्वं 'नयनैपुण्यनिदान' न्यायप्राविण्यकारणं । तद्भवा' नयनैपुण्योद्भवा गुणा:-गुरुशुश्रूषादयः, तैर्गुणैर्विभूतिः 'प्रभूता' बह्वी स्यात् , तस्या-विभूतेः सकाशान् 'मङ्गलमालिका' निःश्रेयसपरम्परा ॥ ६६ ॥
KOCHACLOSE%
॥ २०॥
CE
For Private And Personal Use Only