________________
Shri Mahavir Jain Aradhana Kendra
नवतच्चसं ० प्रकरणम्
स्वोपज्ञ
वृत्तिः । ॥ १० ॥
www.kobatirth.org
प्रतिपादकः । एवमेव " तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए, तेणेव उवागच्छर, उवागच्छित्ता गमनागमणाए पडिकमति, पडिकमित्ता संखं समणोवासगं वंदति नम॑सति " इति ( ५५३ पत्रे ) पञ्चमाङ्गसूत्रपाठेनापि सामायिकोञ्चारात्प्रागीर्यांप्रतिक्रमण प्रस्थापनं न कथमपि समिचीनतामवति, यतोऽत्र पाठे 'पुष्कलिना इयाँ प्रतिक्रम्य शङ्खो वन्दितो नमस्कृतश्चेत्येतावन्मात्रमेव तूपलभ्यते, ततः कथं सामायिकविधौ पुरस्करणार्होऽयं पाठः ? अपि चैतेन पाठेन तु यथेय प्रतिक्रम्य शङ्खो वन्दितः पुष्कलिना तथा गुरु- चैत्यवन्दनादिकमपि सर्वमीर्यांप्रतिक्रमणपुरस्सरमेव स्वीकार्य स्यात् ।
यच्च "सामायिकं प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्याः, ते च तत्रतस्तीर्थकृत एवे "त्युत्तराध्ययनैकोनत्रिंशाध्ययनगृहद्वृत्तिपाठेन सामायिकोश्चारात्प्रागी र्याप्रतिक्रमणव्यवस्थापनं तदपि स्वाग्रह विजृम्भितमेब, यतो नानेन वृत्तिपाठेन सामायिक ग्रहणविधिः प्रतिपाद्यते वृत्तिकारपूज्यैः, किन्तु ज्ञानादिमुक्तिमार्गप्रसाधकेन जन्तुना क्रमशः प्राप्तव्यानां संवेगाद्यकर्मतावसानानां गुणानां यः क्रमः सूत्रकारैर्व्यवस्थापितस्तस्य पारस्परिक सम्बन्धः प्रदर्शितो भवत्यनेन पाठेन । चेदनेनैव पाठेन स्वीक्रियते, यत्सामायिकोञ्चारात्प्रागी यां प्रतिक्रम्य चतुर्विंशतिस्तवः प्रकध्यस्तर्हि कथं सूत्रकारैरेव प्राक्चतुर्विंशतिस्तवमनुक्त्वा सामायिकं प्रोक्तं ? नैतावन्मात्रमेव, किन्त्वेतदेव सम्बन्धनिदर्शनाय वृत्तिकृद्भिः " आलोचनादीनि च सामायिकवत एव तत्त्वतो भवन्तीति " ( पत्र ५८० ) प्रोक्ते सत्यप्यालोचनादितोऽपि प्राक्कथं सामायिकं नोक्तं ? । अपि च " आलोचनादीनि " इत्यत्रादिशब्देन गृहीते निन्दा - गणे सामायिकदण्डको चरणेनैव भवतः, ईर्याप्रतिक्रमणेन तु निन्दा गर्हणाविरहिता मात्रालोचनैव भवति । अन्यच “ आलोचनादीनि च सामायिकवत एव तत्त्वतो मवन्ती" त्येतत्पाठेन सामायिकमुच्चार्येर्याप्रतिक्रमणेनालोचना विधेयेत्यप्यावेदितं भवति, सामायिक
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशव्रतविवरणे
सामायिक
ग्रहणविधिनिर्णयः ।
॥ १० ॥