________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्य स्वाध्यायस्येयाप्रतिक्रान्तिपूर्वकत्वं नाममाहं निर्दिष्टमत्र सूत्रे तन्न भवति तथा, ईर्यायाः सामायिकोचारणतः प्राकप्रतिक्रान्तत्वात् ।
यच्च "ईर्यापथप्रतिक्रमणमकृत्वा नान्यत्किमपि कुर्यात् , तदशुद्धतापत्तेः" इत्येतद्दशवकालिकबृहद्वृत्तिपाठो दर्श्यते तदप्ययुक्तं, यतोऽत्र साध्वाचारस्यैवाधिकारोऽस्ति, न च सामायिकशब्दोऽप्यवलोक्यतेऽत्र, दृश्यतां तत्रत्यः पूर्वापरसम्बन्धयुतोऽयं संपूर्णपाठः-" तथा अमीक्ष्ण-गमनागमनादिषु, विकृतिपरिमोगेऽपि चान्ये, किमित्याह-कायोत्सर्गकारी भवेत् , ईर्यापथप्रतिक्रमणमकृत्वा नान्यत्किमपि कुर्यात् , तदशुद्धतापत्तेः" इति (२८१ पत्रे), नह्यत्र सामायिकस्य नाममात्रमपि । एवमेव
"इरियं सुपडिकतो, कडसामाइओ य सुट्ट पिहियमुहो। सुत्तं दोसविमुत्तं, सपयच्छेयं गुणइ सड्ढो ॥१॥"
इत्येतच्छीमद्देवेन्द्रपरिविनिर्मितधर्मरत्नप्रकरणवृत्तिपाठं प्रदय सामायिकोच्चारास्त्रागीर्याप्रतिक्रान्तिप्रसाधनमप्ययुक्तमेव, यतो नात्र सामायिकग्रहणविधिः, किन्तु परावर्तनरूपस्वाध्यायविधिः, इदमुक्तं भवति-स्वाध्यायं कषुकामः श्राद्धः स्वाध्यायप्रारम्भात्प्रागवश्यं सुप्रतिक्रान्तेयः स्यात् , सुप्रतिक्रान्तेर्येणापि नाकृतसामायिकेन स्वाध्यायो विधेयः, अत एव पुनः प्रोक्तं-कृतसामायिकश्च स्यात् ; एतेन नियमिता स्वाध्यायात्प्रागीर्याप्रतिक्रमणस्य सामायिकग्रहणस्य चैतत्कर्तव्यद्वयस्यावश्यं विधेयता, न तु सामायिकोच्चारात्प्रागीर्याप्रतिक्रमणस्य । यदि चात्रोक्तामीर्या सामायिकविधिप्रतिबद्धां मन्यते तर्हि आवश्यकचूर्णि-वृत्यादिषु सामायिकनाममाहं प्रोक्तो विधिनिरर्थक एव स्यात्, अन्यश्चैत एव महर्षयः श्रीमद्देवेन्द्रसूरयः स्वकृतायां श्राद्धदिनकृत्य टीकायां कथं सामायिकोचारानन्तरमीयर्याप्रतिक्रमणं साक्षानिरूपयेयुः! अत: सिद्धमेतद्यदुत-नायं धर्मरत्नप्रकरणवृत्तिपाठः सामायिकग्रहणविधिप्रतिबद्धः ।
यच-" तओ राइए चरमजामे उहिऊण इरियावहियं पडिक्कमिय पुत्विं व पोति पेहिय नमोक्कारपुवं सामाइयसुत्तं कड्डिय |
SACRECASNA%
64
For Private And Personal Use Only