________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चदशधा, तद्यथा-जिन धर्म-सूरि-वाच-स्थेविर-कुल-गण-सङ्घ-साम्भोगिक क्रिया-ज्ञानपञ्चकं [च] । एतेषामनाशातना । ३चारित्रविनयस्तु सामायिकादिचारित्राणां श्रद्धानकरणप्ररूपणानि । मनोवाकायविनयस्तु आचार्यादिषु अकुशलानां चित्तादीनां सदा निरोधः कुशलानां तु पुनरुदीरणेति । उपचारविनयस्तु सप्तधा-अभ्यासासनं १, छन्दोऽनुवर्तनं २, कृतप्रतिकृतिः ३, कारितनिमित्तकरणं ४, दुःखार्तगवेषणं ५, देशकालज्ञानं ६, सर्वत्रानुमतिश्च ७, एते सप्तापि भेदा विनयस्य प्रतीता एव, नवरंकारितनिमित्तकरणं सम्यगर्थपदस्य दापितस्य विशेषेण विनये वृत्तिस्तदर्थानुष्ठानं च । (३)-चयावृत्यं च दशधा-आचार्योपाध्यायस्थविरतपस्विग्लोनशैक्षकसाधर्मिककुलंगणेसा भेदात् । (४) श्रुतादर:-श्रुतप्रयत्नः, स च वाचनाप्रच्छनापरावर्तनाsनुप्रेक्षाधर्मकथाविषयः। (५)-ध्यान-अन्तर्मुहूर्त्तमात्रं चित्तैकाग्रता, तच्चारौद्रधर्मशुक्लभेदाचतुर्दा, तत्राद्ययोर्भवहेतुत्वादितरयोश्च मुक्तिनिमित्तत्वादितरे एवं तपः। (६) संहननोत्सर्गस्तु संहननस्य-शरीरस्य उपलक्षणत्वादितरेषामपि गणोपध्याहाराणां द्रव्यत उत्सर्गः, एवं चासौ द्रव्यतः संहननोत्सर्गश्चतुर्धा, भावतस्तु नानाविधः, कोपादित्यागरूपत्वादस्य ॥ ८३ ।। सप्रतिपक्षक्षान्त्यादिदशविधयतिधर्मप्रतिपादनेन समर्थितं 'क्षान्त्यादिगुणयुक्ताना'मिति 'ज्ञानिना'मित्याद्यातन्वन्नाहमतिः श्रुतं परोक्षाख्यं, प्रत्यक्षमवधिर्मनः । केवलं चेति विज्ञेयं, ज्ञानं पञ्चविधं बुधैः ॥ ८४॥
व्याख्या-'मति:' मतिज्ञानं 'श्रुतं' श्रुतज्ञानं, एतद्वयमपि 'परोक्षाख्यं परोक्षसझं, प्रत्यक्षं पुनः पदेकदेशे पदसमुदायोपचारात् ['अवधिः'] अवधिज्ञानं 'मनः' मनःपर्यायज्ञानं 'केवलं' केवलज्ञानं चेत्येवं ज्ञेयं ज्ञानं पश्चविधं बुधैरिति ॥८४॥
४ अष्टपञ्चाशत्तमवृस्याद्यं पदं, सम्प्रति तत्रस्थमेव ।
ACCALCARRECASAR
A
For Private And Personal Use Only