________________
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
मोक्षतत्वे ज्ञानपश्चकस्वरूपम् ।
नवतत्त्वसंग
सम्प्रति मतिश्रुतयोर्मेदानाहप्रकरणम् का सद्योजा विनयोत्पन्ना, कर्मजा पारिणामिकी । मतिश्चतुर्विधा सिद्धा, चतुर्दशविधं श्रुतम् ॥८५॥ स्वोपज- ___व्याख्या-'सद्योजा' औत्पत्तिकी 'विनयोत्पन्ना' वैनयिकी 'कर्मजा' अभ्याससम्भवा 'पारिणामिकी' भविष्यदर्थसंवावृत्तिः । दिनी, तदेवं मतिश्चतुर्विधा सिद्धा। एषा चतुर्विधाऽपि मतिरश्रुतनिस्सृता, श्रुतसंस्कारानपेक्षत्वात् । यश्च श्रुतनिस्सृतं मतिज्ञानं
तदष्टाविंशतिविधं, यतः-प्रथमं तावन्मतिज्ञानं अवग्रहहाऽपायधारणामेदाचतुर्दा। तत्रावग्रहो द्विधा-व्यञ्जनावग्रहोऽर्थावग्रहश्च । ॥२४॥
तत्र व्यञ्जनावग्रहश्चक्षुर्मनोवर्जानामिन्द्रियाणां स्वविषयद्रव्यैः सह सम्बन्धस्तेनासौ चतुर्विध एव । अर्थावग्रहस्तु 'किमपीदं' इत्येतावन्मात्रो मनःषष्ठः पञ्चभिरिन्द्रियैर्वस्त्ववबोधस्ततश्चैवमसौ पोढा । ईहादयोऽपि प्रत्येक मनःषष्ठेन्द्रियपञ्चकसम्भवत्वात्योढेव, किमयं स्थाणुः पुरुषो वा ? इत्यादिवस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा । 'पुरुष एवायं' इति वस्तुव्यवसायात्मको निश्चयोऽपायः, निश्चितस्याविच्युतिस्मृतिवासनात्मिकाभिरवस्थात्तिर्धारणं धारणा । एषा चाष्टाविंशतिः बहु-बहुविध-क्षिप्रैअंनिस्सृत-असन्दिग्धे-(वैः सप्रतिपदिशभिर्गुणितानि जातानि षट्त्रिंशानि त्रीणि शतानि, अश्रुतनिस्सृतबुद्धिचतुष्टयनिक्षेपाच मतित्रानभेदानां तान्येव चत्वारिंशानि त्रीणि शतानि भवन्ति । श्रुतं-श्रुतज्ञानं चतुर्दशविधं सपतिपक्षाक्षरसञ्झिसम्यक्सादिसपर्यवसितगमिकाङ्गप्रविष्टभेदेभ्यः । तत्राक्षरश्रुतं त्रिविधं सजा-व्यञ्जन-लब्धिमेदात् । तत्र सञ्ज्ञाऽक्षरं लेख्यलिपिरूपं, व्यञ्जनाक्षरं भाषावर्गणा, तदेतद्वितीयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतं, लब्ध्यक्षरं तु श्रवणादर्थप्रत्यायनाहोऽक्षरोपलब्धिः। अनक्षरश्रुतं नखच्छोटिकादि । सञ्चिश्रुतं समनस्कस्य मनस्सहायरिन्द्रियजेनितममिलाप
CAKES
%95
%25
॥२४॥
%
For Private And Personal Use Only