________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२-४
प्लाविताहणं । तदेव मनोरहितेन्द्रियजभसनिश्रुतममनस्कस्य । सम्यकश्रुतं-अर्हत्प्रणीतं । इतरदसम्यग्दृष्टिस्तदेव मिथ्याश्रुतं, अन्यथाऽवबोधात् । सादिश्रुतं-ज्ञानात्मकं सम्यग्दृष्टेरज्ञानात्मकं वा सम्यक्त्वयतस्य मिथ्यादृष्टेः, अलब्धपूर्वसम्यक्त्वस्य तु तदेवानादिश्रुतं । सपर्यवसितं भव्यानां, केवलोत्पत्तौ ध्रुवं पर्यवसानात , अपर्यवसितमभव्यानां, केवलानुत्पादाद ।
भिन्नेऽर्थजाते यत्सदृशाक्षरालापं तद्गमिकं, असदृशं त्वगमिकं । अङ्गप्रविष्टं-आचारागादीन्यङ्गानि, तत्प्रविष्ट, शेषं प्रकीमार्णकाद्यनङ्गप्रविष्टमिति चतुर्दशधा श्रुतज्ञानमिति ।। ८५ ।।
उक्तं मतिश्रुतलक्षणं परोक्षं, अधुनाऽवधिमनः केवललक्षणं प्रत्यक्षं व्याचिख्यासुराहहै अनेकधाऽवधिः सज्ञि-मनसा वेदनं पुनः। मनःपर्यायविज्ञानं, केवलं सर्वभाववित् ।। ८६॥
___ व्याख्या-'अनेकधा' अनेकप्रकारं 'अवधिः' अवधिज्ञानं, तद्यथा-अनुगामि अननुगामि अवस्थितं अनवस्थितं हीयमानक प्रवर्द्धमानकं । तत्रानुगामि-यदेशान्तरगतमपि ज्ञानिनमनुगच्छति, यत्तु तद्देशस्थस्यैव भवति, स्थानस्थदीपवत् , देशान्तरगतस्य स्वपैति, तदननुगामि । अवस्थितं यदप्रतिपाति, अनवस्थितं यत्प्रतिपतति । हीयमानकं यजघन्येनाङ्गुलासङ्ख्येयभागादिविषयमुत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः सङ्क्लेशवशात्क्रमेण हानि विषयसङ्कोचात्मिकां याति यावदङ्गुलासङ्ख्येयभागः, येन त्वलोकस्य प्रदेशोऽपि दृष्टस्तस्य न हीयते, बर्द्धमानकं यदलासङ्ख्येयभागादिविषयमुत्पद्य पुनर्वृद्धिं विषयविस्तरणात्मिकां याति यावदलोके कल्पनया लोकप्रमाणान्यसङ्ख्येयानि खण्डानीति पड्विधमवधिज्ञानं । यद्वा सङ्ख्यातीतभेदं, तद्विषयस्य जघन्योत्कृष्टमध्यमभेदैरसङ्ख्यत्वात् । सज्ञिमनसा 'वेदनं' परिच्छेदनं पुनर्मनःपर्यायविज्ञानं,
*
RECTREk
For Private And Personal Use Only