________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्वसं० प्रकरणम् स्वोपज्ञवृत्तिः ।
है मोक्षतत्त्वे
चारित्रपञ्चकस्वरूपम् ।
॥२५॥
ॐॐॐICRACK
| तद्विधा ऋजुमति-विपुलमतिभेदात् , तत्र ऋजुमतेरर्द्धतृतीयाङ्गुलहीनो मनुष्यलोकविषयः, स एव विपुलमतेः सम्पूर्णः । 'केवलं' केवलज्ञानं सर्वभाववित्-लोकालोकप्रकाशकमिति ॥ ८६ ॥
ज्ञानं च चारित्रसहितं मोक्षाय स्यादिति पश्चधा चारित्रमाहसामायिक तथा छेदो-पस्थाप्यं पारिहारिकम् । सूक्ष्मलोभं यथाख्यातं, चारित्रमिति पञ्चधा ॥८॥ - व्याख्या-सामायिकादिभिर्भदैरित्येवं पञ्चधा चारित्रमिति सम्बन्धः। तत्र सामायिकं पूर्वोक्तशब्दार्थ द्विविध-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च भरतरावतेषु प्रथमपश्चिमतीर्थेष्वनारोपितमहाव्रतस्य शिक्षकस्य विज्ञेयं, यावस्कथिकं तु यावजीविकं, तच्च मध्यमजिनविदेहतीर्थान्तर्गतसाधूनामवसेयं, तेषामुपस्थापनाया अभावात् । छेदोपस्थाप्पमिति छेदेन-पूर्वपर्यायनिरोधेनोपस्थाप्यः-शिष्यस्त द्योगाचारित्रमप्युपस्थाप्यं, एतच्च महाव्रतानां पुनरारोपणमुच्यते, तच्च द्विधासातिचारमनतिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते तीर्थान्तरसक्रान्ती वा, यथा पार्श्वनाथतीर्थादुर्द्धमानस्वामितीर्थ सङ्क्रामतः केशिगणधरस्य पश्चयामधर्मप्राप्ताविति, सातिचारं तु मूलगुणघातिनो यत्पुनरपि व्रतारोपणमिति । पारिहारिकमिति परिहारस्तपोविशेषस्तत्प्रयोजनं चारित्रं पारिहारिक, तदपि द्विविध-निर्विशमानकं निर्विष्टकायिक च, तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव निर्विष्टकायिकास्तदव्यतिरेकाचारित्रमपि निर्विष्टकायिकमिति ! तच्च चारित्रं तृतीयं नवभिस्साधुभिः कर्तव्यं, तथाहि-तन्मध्याच्चत्वार: पारिहारिका भवन्ति, अपरे तु तद्वैयावृत्य कराश्चत्वार एवानुपारिहारिकाः, एकः पुनः
For Private And Personal Use Only