________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पस्थितो वाचनाचार्यो-गुरुभूत इत्यर्थः । तत्र पारिहारिकाणामयं परिहारस्त्रिधा जघन्य मध्यमोत्कृष्टभेदात् शीतोष्ण वर्षाकालेषु प्रत्येक मेष त्रिविधोऽपि स्यात् । तत्र ग्रीष्मे चतुर्थ जघन्यं षष्ठं मध्यममष्टममुत्कृष्टं शीतकाले च षष्ठं जघन्यमष्टमं मध्यमं दशममुत्कृष्टं वर्षाकाले पुनरष्टमं जघन्यं दशमं मध्यमं द्वादशमुत्कृष्टं, पारण के सर्वत्राप्याचाम्लं । अन्यच्च संसृष्टाद्याः सप्त भिक्षूणां भिक्षा भवन्ति, तत्राद्ययोः संसृष्टासंसृष्टयोरग्रहणमेव, पञ्चसु पुनरुद्धृताद्यासु ग्रहणं, तथा[ तत्रा]ध्येकया भक्षमेकया च पानकमित्येवं द्वयोरभिग्रह इति, यश्व कल्पस्थितो ये चानुपारिहारिकास्ते प्रतिदिनमाचाम्लं कुर्वन्ते । अन्यच्च पारिहारिकाः षण्मासान् यावत्परिहारतपः कृत्वाऽनुपारिहारिका भवन्ति, अनुपारिहारिकास्तु षण्मासान्यावत्पारिहारिका भवन्ति, कल्पस्थितोऽपि षण्मासिकं तपोविशेषं करोति, शेषाः सर्वेऽपि अनुपारिहारिकभावं व्रजन्ति तन्मध्याच्च कश्चित् कल्पस्थितत्वं, एवमिदं तृतीयं चारित्रमष्टादशमासप्रमाणं स्यात्, एतच्चारित्रकल्पसमाप्तौ च जिनकल्पिकत्वं प्रतिपद्यन्ते गच्छं वाऽनुप्रविशन्ति, अन्यच्चेदं प्रतिपद्यमाना जिनस्य जिनोपासकस्य वा पार्श्वे प्रतिपद्यन्ते, नान्यस्य । सूक्ष्मलोभमिति किड्डीकृतसंज्वलनलोभांश मित्यर्थः । एतच्च द्विधा - शुद्ध्यमानकं क्लिश्यमानकं च तत्राद्यं क्षपकोपशमश्रेणिद्वयमारोहतः स्यात्, द्वितीयं तूपशमश्रेणितः प्रच्यवमानस्येति । यथाख्यातमिति यथा येन प्रकारेणाकपायतया आख्यातं - उक्तं जिनैस्तथैव यत्तद्यथाख्यातं, एतच्चोपशान्तक्षीणमोहसयोगायोगानामेव स्यात् ॥ ८७ ॥
चारित्रं च भावनावत एवं निर्मलं स्यादिति द्वादश भावना नामतस्तावदाहअनित्यांऽत्राणं संसारा-न्यत्वैक्यस्वसंवराः । निर्जराऽशुचिलोकक्षी - बोधेर्दुर्लभत भवे
For Private And Personal Use Only
॥ ८८ ॥
Acharya Shri Kailassagarsuri Gyanmandir