________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिन्नो देहादितःप्राणी, पुण्यापुण्योपभोगवान् । यस्य यत्कर्म तत्तेन, भोग्यमेवेति भाव्यताम् ॥९३॥ ____ व्याख्या-'भिन्नः' पृथक् शरीरादेः प्राणी 'पुण्यापुण्योपभोगवान्' शुभाशुभकर्मोपभोगकयुतः, ततोऽयं तात्पर्यार्थःयस्य प्राणिनो यत्कर्म शुभमशुभं वा, तत्तेन भोग्यमेवेति 'भाव्यता' परिभाव्यतामिति ॥ ९३ ।। एकत्वभावनामाहन पश्चात्कश्चिदायातो, नाग्रे कोऽपि गमिष्यति । पुण्यपापं पुरस्कृत्य, भोग्यमेकाकिना फलम् ॥१४॥
व्याख्या-न पश्चात्पूर्वभवात्कश्चित्सहाऽऽयातो 'नाग्रे पुरतः कोऽपि सह गमिष्यति, केवलं 'पुण्यपापे' शुभाशुभकर्मणी 'पुरस्कृत्य' पुरस्सरे कृत्वा 'भोग्य' अनुभवनीयं, तयोः 'एकाकिना' असहायेन फलमिति ।। ९४ ।।
सम्प्रत्येक श्लोकेनाश्रव-संवर-निर्जरा-भावनात्रयमाहनवानां कर्मणां बन्धा-दाश्रवे तदसङ्ग्रहात्। संवरे निर्जरायां च, यतेत मतिमान्सदा ॥ ९५ ॥
व्याख्या-'नवानां' अभिनवानां कर्मणां ज्ञानावरणादीनां 'बन्धात्' प्रकृत्यादिभिः सङ्ग्रहाद् 'आश्रवे' आश्रवभावनायां, तेषां कर्मणां 'असङ्ग्रहात' असम्बन्धात 'संवरे संवरमावनायां, पूर्वबद्धकर्मक्षपणाच 'निजेरायां' निर्जगभावनायां सदा मतिमान् यतेतेति ।। ९५ ॥ अथाशुचित्वभावनामाहअन्तर्मलघटस्येव, बहिः प्रक्षालनादिभिः । न स्यादस्य शरीरस्य, शुचित्वं बाह्यशौचतः ॥ ९६ ॥
व्याख्या-यथाऽन्तर्मलघटस्य बहिः प्रक्षालनादिभिःशुचित्वं न स्यादेवमस्य शरीरस्य बाह्यशौचतः स्नानादेस्तम स्यादिति
For Private And Personal Use Only