________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्त्वसं० प्रकरणम् स्वोपज्ञवृत्तिः । ॥२७॥
ROCHAKAREENA
अथ श्लोकद्वयेन लोकेक्षाभावनामाह
| मोक्षतच्चे लोको वैशाखसंस्थान-कटीकरनराकृतिः। तनुस्त्यानानिलाधार-स्तनुस्त्यानार्णवस्थितिः ॥ ९७॥
| भावनाव्याख्या-लोकश्चतुर्दशरज्वात्मका, कीदृशो ?, वैशाखसंस्थानकटीकरनराकृतिः, यादृशो वैशाखस्थानकस्थः कटी
निरूपणम् । दत्तहस्तद्वयश्च पुरुषः स्यात्तादृगाकार इत्यर्थः । 'तनुस्त्यानानिलाधार' तनुवातघनवाताश्रितः, तनुस्त्यानार्णवस्थितिः-तनदधिनोदधिकृतावस्थान इत्यर्थः ।। ९७॥ स पुनः सप्तधाऽधस्ता-न्मध्ये नानाविधास्पदः । ऊर्द्ध पञ्चदशोद्देशः, षडधर्मादिव्यवस्थितः॥९८॥
व्याख्या--'स' पुनर्लोकः पूर्वोक्तस्वरूपोऽधस्ताद् रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-धूमप्रभा-पङ्कप्रभा-तमःप्रभातमस्तमःप्रभाभेदैः 'सप्तधा' सप्तविधः, मध्ये नानाविधास्पदो-नग-नद-नदी द्वीप विजयाद्याम्पद इत्यर्थः । ऊर्द्ध पश्चदशोद्देशस्तद्यथा-सौधर्मः ईशानः सनत्कुमार: माहेन्द्रः ब्रह्मलोकः लान्तकः शुक्रः सहस्रार: आनतः प्राणतः आरणः अच्युतः १२ नववेयकाणि १३ पश्चानुत्तरविमानानि १४ परमपदं १५ चेति । षड्धर्मादिव्यवस्थित इति षभिर्धर्मादिभिर्धर्मास्तिकायादिभिर्व्यवस्थितः, ते च व्यवस्थिता यत्र स तथेति ॥ ९८ । सम्प्रति बोधेर्दुर्लभत्वलक्षणां भावनामाह-- भवेऽतिदुर्लभां लब्ध्वा, सामग्री नृभवादिकाम् । कथं सा नीयते ? ध्वंसं, सद्धर्मार्जनवर्जितैः ॥१९॥ व्याख्या- 'भवे' संसारे 'अतिदुर्लभां' अतिदुष्प्रापां लब्ध्वा' प्राप्य 'सामग्री' कारणकलापं, कीदृशीं ?, नृभवादिकां
IP॥ २७॥
AAROCHACXRENCE
4%
For Private And Personal Use Only