________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यिक एव सर्वा मावशङ्कया। समायातश्च मा मृत्यकरणं ४ अन
द्वादशव्रतकाविवरणम् ।
जवतवसं० प्रकरणम् स्वोपज्ञवृतिः ।
॥११॥
ऋद्धिप्राप्तश्चागृहीतसामायिक एव सर्वा माधुसन्निधौ समेति । कृतसामायिको हि नाश्वहस्त्यादिभिरागच्छेत् , अधिकरणभयात् , न च पादाभ्यामेव, जनेभ्यो लाघवशङ्कया। समायातश्च मुकुटकुण्डलादिभूषामपनीय सामायिकं करोति । शेष प्राग्वत । अस्याप्यतिचाराः पश्चैव-१ मनो २ वचन ३ कायदुष्प्रणिधानं स्मृत्यकरणं ४ अनवस्थितिकरणं ५ चेति । द्वितीय देशावकाशिकं, अस्यायमर्थ:-'देशे' दिग्वतगृहीतपरिमाणस्य विभागे 'अवकाशः' अवस्थानं देशावकाशः, तेन निर्वृत्तं देशावकाशिकं, उपलक्षण चेदं, तेन दिग्बतसक्षेपकरणवच्छेषव्रतानामपि सक्षेपकरण देशावकाशिकं वाच्यं । तत्र दिग्व्रतसइन्क्षेपकरणरूपस्याप्यतिचाराः पञ्च-आनयनप्रयोगः १ प्रेष्यप्रयोगः २ शब्दानुपात: ३ रूपानुपातः ४ बहिः पुद्गलप्रक्षेपश्चति ५। तृतीयं शिक्षाव्रतं पोषधः । अत्राय शब्दार्थः- 'पोष' पुष्टिं, प्रक्रमाद्धर्मस्य, धत्त इति पोषधः । एतच्च व्रतं आहार-देहसत्कार-ब्रह्मा-व्यापारविषयं, तत्राद्ययोर्वर्जनमन्त्ययोश्वासेवनं । एतच पोषधवतं चतुर्विधमपि प्रत्येकं देशतः सर्वतश्च भवति । तत्राहारपोषधव्रतं देशे विवक्षितविकृत्यादितपः, सर्वतश्चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानं । शरीरसत्कारपोषधस्तु देशे कस्यापि शरीरसत्कारविशेषस्य स्नानादेरकरण, सर्वतस्तु सर्वस्यापि तस्याकरणं । ब्रह्मचर्यपोषधोऽपि देशे नियतकालब्रह्मसेवनं, सर्वतस्तु अहोरात्रं यावद्ब्रह्मपालनं । अव्यापारपोषधोऽपि देशत एकतरस्य कस्यापि व्यापारस्याकरणं, सर्वतस्तु सर्वेषामप्यकरणं । अस्याप्यतिचाराः पञ्चैव-उत्सर्गआदानसंस्ताराखयोऽपि अनवेक्ष्य अप्रमृज्य च ३ अनादरः ४ स्मृत्यकरणं च ५ । चतुर्थमतिथिसंविभागः, अतिथिः साधुरेव, तिथिपर्वादिसकललौकिकव्यवहारत्यागात् , शतक-श्रीमजयसोमोपाध्यायसन्दृब्धस्वोपज्ञवृत्त्यलङ्कृतेर्यापथिकीपट्त्रिंशिकायाः संस्कृतप्रन्थाः प्रश्नोत्तरविचाराद्याश्च भाषाग्रन्थाः ।
AAEESANG
436
For Private And Personal Use Only