________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
नवतत्वसं० प्रकरणम् स्वोपज्ञवृतिः ।
॥१४॥
ॐकार
प्लेजःपवनवनस्पतित्रसकायाः पट [२१], क्रोधमानमायालोमलक्षणाः कषायाश्चत्वारः [२५], मतिश्रुतावधिमनःपर्याय केवलम
| जीवतत्वे त्यज्ञानश्रुताज्ञानविभङ्गरूपाणि ज्ञानान्यष्टौ [३३], सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धि-x [सूक्ष्मसम्पराय-यथाख्या
द्वापष्टितरूपाः संयमाः पञ्च, संयमग्रहणेन तत्प्रतिपक्षभृतो देशसंयमोऽसंयमश्च गृह्यते, अतोऽस्य भेदाः सप्त ४०, चक्षुरचक्षुरवधि
1मार्गणाः। केवलाख्यानि दर्शनानि चत्वारि ४४, कृष्णनीलकापोततेजःपबंशुक्ललेश्याः षट् ५०, भव्यत्वं-तथारूपानादिपारिणामिकभावात्सिद्धिगमनयोग्यत्वं, तत्प्रतिपक्षभूतस्याभव्यत्त्वस्य-सिद्धिगमनायोग्यत्वस्यापि ग्रहणाविभेदमेतत् ५२, सम्यक्त्वंसम्यकशब्दः प्रशंसार्थोऽविरुद्धार्थो वा, सम्यग्-जीवः, तद्भावः सम्यक्त्वं-प्रशस्तो मोक्षाविरोधी वा जीवस्य परिणामविशेषः, तच्च सम्यक्त्वं विधा-क्षायिक क्षायोपशमिकमौपशमिकं च, तत्र त्रिविधस्यापि दर्शनमोहनीयस्य क्षयेण-आत्यन्तिकोच्छेदेन निर्वृत्तं क्षायिक, यत्पुनरुदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन सम्यक्त्वरूपतापत्तिलक्षणेन विष्कम्भितोदयित्वरूपेण च निवृत्तं, तत्क्षायोपशमिकं, तथा उदीर्णस्य मिथ्यात्वस्य क्षये सत्यनुदीर्णस्य य उपशमो-विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य विष्कम्भणं, तेन निवृत्तमौपशमिकं । सम्यक्त्वग्रहणेन तत्प्रतिपक्षभूतानि मिश्रसास्वादन मिथ्यात्वान्यपि ग्राह्याणि, अतः पद्रिकल्पमेतत् ५८, सज्ञाऽस्यास्तीति सज्ञी-विशिष्टस्मरणादिमनोविज्ञानभाक्, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियादिरसञ्जी, सोऽपि सनिग्रहणेन सूचितो द्रष्टव्यः, अतो मेदद्वयमस्य ६०, ओजोलोमप्रक्षेपाहाराणामन्यतममाहारयतीत्याहारकः तत्प्रतिपक्षभूतोऽनाहारकः, अतः] आहारकानाहारकभेदावपि द्वौ [६२] ॥ ३८॥
xनोपलभ्यत इतोऽप्रेतनोऽर्थोऽस्माभिरुपलब्धप्रतिषु, अतः पञ्चसङ्ग्रहकर्मग्रन्थवृत्त्योरुद्धृत्योपन्यस्तोऽयं [ ] एतच्चिद्वान्तर्गतः पाठः। ॥१४॥
+KACHAR
For Private And Personal use only