________________
Shri Mahavir Jain Aradhana Kendra
नवतच्वसं ०
प्रकरणम् स्वोपज्ञवृत्तिः ।
॥ १२ ॥
www.kobatirth.org
'निदानभूः' उत्पत्तिभूमिः 'बृंहक:' पोषकः 'सर्वभावानां सर्वपदार्थानां तद्विषयज्ञानजनकत्वात्, विवेकः समुदाहृत इति प्रकटः सम्बन्धः ॥ २४ ॥ विवेकाच्च निर्वेदगर्भः संवेगः स्यादतस्तमाह
भावनं भवभावानां तन्निदाने विरागिता । मोक्षाय मानसोद्योगः, संवेगो वै स गीयते ॥ २५ ॥
व्याख्या - यद् 'भावनं' चिन्तनं 'भवभावानां' सांसारिक वस्तूनां या च तन्निदाने' भवकारणे 'विरागिता' निर्वेदः, यश्व मोक्षाय 'मानसोद्योगः' चित्तोत्साहः, संवेगो 'वै' अहो स गीयत इति सम्बन्धः ।। २५ ।।
संवेगश्च जीवादिनवपदार्थविवेचनेन पृष्टः स्यादतस्तानाह
जीवाजीवस्तथा पुण्य, पापैमाश्रवैसंर्वरौ । निर्जरॉबन्धमोक्षौ च पदार्था नव संस्मृताः ॥ २६ ॥
व्याख्या - सुगम एवास्य सम्बन्धः ॥ २६ ॥ प्रथमं जीवस्वरूपमाह -
अव्यक्तो व्यक्तचैतन्यः, सङ्ख्यातीतप्रदेशवान् । जीवः स्वकर्मणां भोक्ता, वपुर्व्यापितया स्थितः ॥
व्याख्या—चक्षुरादिभिरगृह्यमाणत्वादव्यक्तः, स्वसंवेदनरूपत्वाद्व्यक्त चैतन्यः, लोकाकाशवदसङ्ख्य प्रदेशत्वात्सख्यातीतप्रदेशवान्, जीवः प्रतीतः, स्वकृतानुभवितृत्वेन स्वकर्मणां भोक्ता, वपुः परिमाणत्वेन वपुर्व्यापितया स्थितः, अनेन देहप्रमाणत्वमात्मनः प्रतिष्ठितमिति ॥ २७ ॥ साम्प्रतमनेकप्रकारैः श्लोकत्रयेण जीवभेदानाह— व्यवहाराव्यवहाराः सइयसञ्ज्ञाश्चराश्चराः । गर्भजेतरभेदाश्च, जीवा इत्थं द्विधा स्थिताः ॥ २८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
विवेक
संवेगयोः
स्वरूपम् ।
॥ १२ ॥