________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SENTENCESCARE
स्त्रीपुन्नपुंसकैदै-स्त्रिधा जीवाः प्रकीर्तिताः । चतुश्चारैश्चतुर्भेदाः, पञ्चभिः खैश्च पश्चधा ॥ २९ ॥ भूम्यम्भोवहयो वात-वानस्पत्यत्रसाश्च षट् । चतुरशीतिलक्षाणि, जायन्ते योनिभेदतः ॥ ३०॥
व्याख्या-व्यवहारराशिपतितत्वाद्व्यवहारास्तद्विपरीता अव्यवहाराः, समनस्काः सज्ञिनः, अमनस्का असज्ञाः, ४|सा द्वीन्द्रियादयश्चराः, स्थावराः पृथिव्यादिका अचराः, गर्भसम्भूता गर्भजास्तद्विपरीता इतरे । इत्थमेभिः प्रकारर्जीवा
द्विधा स्थिताः ॥ २८ ॥ 'स्त्रीपुन्नपुंसकैदै रित्याद्या सुगममेव, नरकतिर्यनरामरगतिरूपैश्चतुश्चारैश्चतुर्भेदाः, पश्चभिः खैः[इन्द्रियः ] स्पर्शनादिभिः पञ्चधा ।। २९ ॥ भृम्याद्यास्त्रसावसानाः षट्, योनिभेदानां चतुरशीतिलक्षत्वाजीवानां चतुरशीतिलक्षाणि जायन्ते । योनिभेदानां चतुरशीतिर्लक्षा एवं भवन्ति-पृथिव्युदकवह्निमारुतानां प्रत्येकं सप्तसप्तयोनिलक्षाः, प्रत्येकवनस्पतीनां दश, साधारणवनस्पतीनां चतुर्दश, विकलेन्द्रियाणां प्रत्येकं द्वौ द्वौ, नारकाणां सुराणां च प्रत्येकं चत्वारः, तिर्यक्पश्चेन्द्रियाणां चत्वारः, मनुजानां पुनश्चतुर्दश, एवमनया सर्वसङ्ख्यया च चतुरशीतियोनिलक्षा भवन्ति ॥ ३०॥
एतानेव व्यवहारादीन जीवभेदान् श्लोकचतुष्टयेन विवृण्वन्नाहव्यक्ताश्चिपिणो युक्ता, भीसङ्गाहारमैथुनैः। एकेन्द्रियादयो जीवाः, संसारे व्यवहारिणः॥३१॥ निगोदाबादराः सूक्ष्मा, असङ्ख्या लोकवर्तिनः। अनन्तप्राणिनःसूक्ष्मा, एव चाव्यवहारिणः॥३२॥ ससज्ञा नारका दिव्याः, पश्चाक्षागर्भसम्भवाः। शेषाः सर्वेऽपि निस्सज्ञा-स्तिर्यञ्चो मनुजास्तथा ॥३३॥
SAHARAJ513
For Private And Personal Use Only