________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवतत्त्वसं० प्रकरणम् स्वोपनवृत्तिः ।
आचार| पञ्चके पिण्डदोष| वर्णनम् ।
SOCTOCHORECACAX
च्छ्शुरपक्षपरिचयः,इत्युभयपक्षनिवेदनोत्पन्नपरिचयेन भिक्षामादत्त इति ११ । विद्येति [स्त्री] देवताऽधिष्ठितः ससाधनोऽक्षरानुपूर्वी- विशेषः१२। मन्त्र इति [पुरुष] देवताऽधिष्ठितोऽसाधनोऽक्षररचनाविशेषः १३॥ चूर्णः पादलेपादियोगः १४ । योगो वशीकरणादिः १५ । मृलकर्मेति, मूलमष्टमं प्रायश्चित्तं, तस्य निबन्धनं कर्म-व्यापारो गर्भघातादिः, मूलानां वा वनस्पत्यवयवानां स्वीकारेण कर्म-सौभाग्यादिकृते स्वपनादि १६ । उक्ता उद्गमोत्पादनेषणाया प्रत्येकं षोडश-पोडश भेदाः, इदानीं ग्रहणैषणाया दश दोषाः कीर्त्यन्ते, ते चामी-शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायक उन्मिथ अपरिणतं लिप्तं छर्दितं । तत्राधाकर्मिकमेतद्भविष्यतीति सम्भावना शङ्कितं १ । मण्डकादि जलादिना संयुक्त प्रक्षितं २ । सचित्तोपरि न्यस्तं भक्तादि निक्षिप्तं ३ । पुष्पफलादिस्थगितं पिहितं ४ । एकस्माद्भाजनाद्भाजनान्तरे प्रक्षिप्य भक्तादि ददतः संहृतं ५ । दानं प्रत्ययोग्यबालकस्थविरादेतुरनुचितत्वादायकदोषः ६। बीजादिमिश्रमुन्मिश्रं । अप्रासुकमपरिणतं ८ निन्येन वशादिना खरण्टितं लिप्तं ९ । परिशाटवभूमिपतदवयवं वा छर्दित १० । तदेवं सर्वसंख्यया द्विचत्वारिंशपिण्डदोषाः प्रकीर्तिताः, तेषां मध्ये चाद्याः षोडश दोषा गृहस्थेन, उत्तरे पुनः षोडश साधुना, दश ग्रहणैषणादोषास्तदुभयेन विधीयन्ते, ये चापरे ग्रासैषणादोपाः पञ्च, ते भोजन| मण्डल्यां भवन्ति, ते चैते-संयोजना प्रमाणातिक्रमः अङ्गारता धूमायमानता कारणपरित्यागश्चेति । तत्र संयोजना वस्त्रविषया भक्तविषया च, वस्त्रसंयोजना च वस्त्रं गवेषयतश्वोलपट्टकप्राप्तौ विभूषानिमित्तं पटीं याचित्वा परिभुञ्जानस्य भिक्षोभवति, भक्तसंयोजना च दुग्धदध्यादिलामे तन्मध्ये गुडखण्डादिप्रक्षिप्य लम्पटतया भुञ्जानस्य स्यात् १ । प्रमाणातिक्रमश्च साधोत्रिंशत्कवलमानाहारादधिकमश्नता, साध्व्याः पुनरष्टाविंशतिकवलप्रमाणां तृप्ति[१ वृत्ति]मतिक्रम्य भुञ्जानायाः स्यात् २
॥५॥
For Private And Personal Use Only