Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 16
________________ (६) कीडगित्याह " यथाशक्ति" शक्त्यनुरूपं " अप्रमादिनः" विकयादिप्रमादरहितस्य । अयमेव विशिष्यते " श्राद्धस्य" तथाविधमोहापगमात्संप्रत्ययात्मिकादिश्रद्धावतः " तीव्रबोधेन " पटुबोधेन हेतुभू. तेन " वचसा" आगमेन " विकलः" अखण्डः, तथाकालादिवेकल्यावाधया; न पटवोऽतिचारदोपज्ञा इति ॥ सामर्थ्ययोगलक्षणमाहशास्त्रसंदर्शितोपायस्तदतिकान्तगोचरः । शक्त्युदेकादिशेषेण सामर्थ्याख्योऽ यमुत्तमः ॥ ५॥ " शानसंदर्भितोपायः" इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् । “ तदतिक्रान्तगोचरः " इति शास्त्रातिक्रान्तविषयः । कुत इत्याह "शक्त्युकात् " इति शक्तिप्राबल्यात् । “ विशेषेण " इति न सामान्येन शास्त्रातिकान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य । “सामर्थ्याख्योऽयं " इति सामर्थ्ययोगाभिधानोऽयं योगः " उत्तमः" सर्वप्रधानः, तद्भावभावित्वात्, आक्षेपेण प्रधानफलकरणत्वादिति ।। एतत्समर्थनार्यवाहसिद्धयाख्यपदसंप्राप्तिहेतुभेदान तत्त्वतः । शास्रादेवावगम्यन्ते सर्वथैवेह योगिभिः ॥ ६॥ सिद्धयाख्यपदसंप्राप्तिहेतुभेदा मोक्षाभिधानपदसंप्राप्तिकारणविक्षेषाः सम्यग्दर्शनादयः । किमित्याह " न तत्त्वतः " न तत्त्वभावेन १ A सिदा० २ सिद्धा Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100