Book Title: Yogdrushti Samucchaya Author(s): Haribhadrasuri, L Suheli Publisher: Devchand Lalbhai Pustakoddhar FundPage 94
________________ ( ८४ ) कुलप्रवृत्तचका ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथा सिद्धादिभावतः ॥२०७॥ कुलमत्तचक्रा ये कुलयोगिनः प्रवृत्तचक्राश्च य इत्यर्थः । एते चास्य योगशास्त्रस्याधिकारिणोऽहीं योगिनो न तु सर्वेऽपि सामान्येन । कुत इत्याह " तथा " तेन प्रकारेण “सिद्धयादिभावतः" गोत्रयोगिनामासिद्धिभावात् , आदिशब्दात्तु निप्पन्नयोगिनां तु सिद्धिभावादिति ॥ एतद्विशेषलक्षणमाह । ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥ २०८ ॥ __ ये योगिनां कुले जाता जन्मनैव तद्धर्ममुपगताश्च योगिधर्मानुग : ताच ये प्रकृत्यान्येऽपि । “कुलयोगिन उच्यन्ते " इति गम्यते । द्रव्यतो भावतश्च गोत्रवन्तोऽपि सामान्येन भूमिभव्या अपि नापरे कुलयोगिन इति ॥ एतद्विशेषलक्षणमधिकृत्याह । सर्वत्रादेषिणश्चैते गुरुदेवद्विजप्रियाः। दयालवो विनीताश्व बोधवन्तो यतेन्द्रियाः ॥ २०९॥ सर्वत्राद्वेषिणश्चैते तथा ग्रहाभावेन तथा गुरुदेव द्विजमिया धर्मप्रभावात् । तथा दयालवः प्रकृत्या क्लिष्टपापाभावेन विनीताश्च कुशलानुवन्धिभव्यतया । तथा बोधवन्तो ग्रन्थिभेदेन यतेन्द्रियाश्चारित्रभावेन।। प्रवृत्तचक्रास्तु पुनर्यमद्दयसमाश्रयाः। शेषडयार्थिनोऽत्यन्तं शुश्रुषादिगुणान्विताः ॥ २१० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 92 93 94 95 96 97 98 99 100