Book Title: Yogdrushti Samucchaya
Author(s): Haribhadrasuri, L Suheli
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 99
________________ विपरीतमिदं भानोरिति भाव्यमिदं बुधैः ॥२२२।। खद्योतकस्य सत्त्वविशेषस्य यत्तेजः प्रकाशात्मकम् । तत्किमित्याह " अल्पं च विनाशि च " स्वरूपेण । विपरीतमिदं भानो. बहविनाशित्वादित्यस्येति । इत्येवंभावं भाव्यमिदमधिकृतपक्षपातादेत. क्रियादिकं बुधैस्तत्त्वनीत्येति ।। विशेषमाह । श्रवणे प्रार्थनीयाः स्युन हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः॥२२॥ श्रवणे श्रवणविषये प्रार्थनीयाः स्युभवेयुः। न हि योग्याः कदाचन, शुश्रूषाभावेन स्वतः प्रत्तेः । तथा चाह " यत्नः कल्याणस. वानां " पुण्यवतां " महारत्ने" चिन्तामण्यादिविषयः "स्थितो यतः " तथौचित्ययोगेन, पक्षपातादेरपि जन्मान्तरावाप्तिश्रुतेः ॥ अयोग्यदानदोषपरिहारायाह । नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् ॥ २२४ ॥ नैतद्विदस्त्वाचार्या अयोग्येभ्योऽन्येभ्यो ददति यच्छन्त्येनं योगदृष्टिसमुच्चयाख्यं ग्रन्थम् । तथापि त्वेवमपि व्यवस्थिते । हरिभद्रो ग्रन्थकदिदं प्राह । किमित्याह " नैतेभ्यः" अयोग्येभ्यः "देयः" अयं योगदृष्टिसमुच्चयः " आदरात्" आदरेण इदं प्राह ॥ किमेतदेवमित्याह । १ A अरूपेण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100